न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
पृष्ठ 305, कुल 608 में से
संदर्भ में पढ़ेंद्वितीयस्तबके ] शब्दोनित्यत्वोपपादनम् । २७१
स्यादेतत् । तथाप्युत्पत्तेर्नित्यत्वेन को विरोधो येन प्रतिबन्धसिद्धिः स्यात् ? ।
असिद्धे च तस्मिन्, भवतां व्यापकत्वासिद्धोऽस्माकमप्रयोजकः । सौगतानां
सन्दिग्धविपक्षवृत्तित्तयमुपक्रान्तो हेतुरिति चेन्न । इदं ह्युत्पत्तिमत्त्वं विनाशकारण-
.बोधनी ।
तदेवमनित्यत्वानुमास्य स्वरूपासिद्धिर्निराकृता, संप्रति व्याप्यत्वासिद्धिं निराकर्तुमाशङ्कते-
तथापीति । भवतां नैयायिकानाम्, अस्माकं मीमांसकानामिति । न इति । उत्पत्तिमत्त्वं हि
विनाशकारणसंविधानेन व्याप्तं, तत इदं तत्सन्निधिविरुद्धेभ्यो नित्येभ्यः स्वव्यापकस्य विनाशका-
रणसंनिधानस्य निवृत्या निवर्त्तमानमनित्य एवावतिष्ठत इति व्यापकनुपलब्धिर्विपक्षे बाधकमिति।
ननु स्यादेवं यद्युत्पत्तिमत्त्वस्य विनाशकारणसंविधानेन व्याप्तिः स्यात्, सैव कुतो विपक्षे बाधका-
प्रकाशः ।
तिसङ्करापत्त्या रसत्वशब्दत्वव्याप्यजात्योर्भिन्नत्वेन रसशब्दसाधारण्यं साधनावच्छिन्नसाध्यव्याप-
कस्य मूर्त्तगुणत्वस्य स्पर्शवत्समवेतत्वस्य चोपाधित्वञ्च । मैवम् । उत्कर्षापकर्षशब्दप्रवृत्तिनिमित्त-
जातिमत्त्वादिति विवक्षितत्वात् । रसत्वादिव्याप्यजातिभेदेऽपि तादृशशब्दप्रवृत्तिनिमित्तत्वस्य
साधारण्यात्, सर्वत्र वर्णात्मकशब्दपक्षीकरणे चानित्यध्वनिषु व्योमगुणेषूपाधीनां साध्याव्यापक-
त्वात् पक्षमात्रव्यावर्त्तकविशेषणवत्त्वेन पक्षेतरत्वतुल्यत्वाच्चेति भावः । विपक्षबाधकाभावेनोत्पत्ति-
म्त्त्वमप्रयोजकमित्याह-तथापीति । उत्पत्तिमदपि किञ्चिन्नित्यं स्यादित्यर्थः ।
प्रकाशिका ।
शब्दभिन्नविशेषगुणसमानाधिकरणत्वादित्यर्थः, तेन न स्वरूपासिद्धिर्नवा पवनस्पर्शे व्यभिचारः ।
सुखादौ यथाश्रुतसाध्याव्यापकत्वादह । साधनेति । यद्यपि सुखादावप्युत्कर्षापकर्षौ स्त इति
विवक्षितोऽप्युपाधिः साध्याव्यापक एव । न च सजातीयसाक्षात्कारप्रतिबन्धकत्त्वादिना तन्निर्व-
चनादसङ्गतिः, अज्ञातेषु सुखादिषु मानाभावेन तादृशोत्कर्षादेस्तेष्वभावादिति वाच्यम् । तथासति
तस्य रसशब्दसाधारण्येन शब्दपर्य्यन्तानुधावनस्य हेतावसङ्गतेः । अन्यतरगर्भतयैव स्वस्थतायामुभ-
योपादानासङ्गतेश्च । तथापि साधनपदेनात्र पक्षधर्म एवोक्तः, स च सजातीयेत्याद्युक्तरूपो बहिरि-
न्द्रियव्यवस्थाहेतुस्वरूपो वा । उत्कर्षापकर्षेति । उत्कृष्टपकृष्टेत्यर्थः । पक्षे साध्याव्यापकत्वमनुद्-
भाव्यमेवेत्यत आह-सर्वत्रेति । उपाधीनामिति । यद्यपि पूर्वपक्षे द्वयोरेवाशङ्कितत्वाद् बहुवचन-
मयुक्तम् तथापि रूपवत्समवेतत्वादीनामपि तत्र तात्पर्ष्यविषयत्वात्तदुपपत्तिः । पक्षमात्रेति । यद्य-
प्यात्मादेः सुखादेश्च व्यावर्तनान्न पक्षमात्रव्यावर्त्तकत्वमत एव च न पक्षेतरतुल्यत्वं तथापि साध्य-
व्यापकताग्राहकमानाभावेन पक्षेतरतुल्यत्वं बहिरिन्द्रियव्यवस्थाहेतुत्वरूपावच्छेदकाश्रयमध्ये च पक्ष-
मकरन्दः ।
द्रष्टव्यम् । सुखादौ साध्याव्याप्तेराह साधनावच्छिन्नेति । ननु सुखादावुत्कर्षापकर्षसम्भवा-
त्तद्दोषस्तदवस्थ्यम् । न च सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकत्त्वादिना तन्निर्व्वचनं, तादृशो-
त्कर्षादेः सुखादावसम्भवेऽविदिते तत्र मानाभावादिति वाच्यम् । तस्य रसचरमशब्दसाधारण्ये-
उत्कर्षापकर्षशब्देत्यादिविवक्षाविरोधात् । तथा सत्युत्कर्षापकर्षयोरन्यतरगर्भत्वेनैव सामञ्जस्ये
व्यर्थविशेषणत्वापत्तेश्च । न च हेतुद्वये तात्पर्ष्यम् , मूलविरोधादिति चेत् , न साधनपदेन पक्षध-
र्म्मस्य विवक्षितत्वात् । स च बहिरिन्द्रियव्यवस्थाहेतुत्वादिः । उत्कर्षापकर्षेति । उत्कृष्टाप-
कृष्टेत्यर्थः । पक्षे साध्याव्यापकत्वमनुद्भाव्यमित्यत आह सर्वत्रेति । यद्यपि द्वयोरेवोक्तत्वाद्-
पाधीनामित्ययुक्तं, तथाप्यन्यस्यापि तत्समनियतस्य तात्पर्ष्यविषयत्वात्तदभिप्रायेण तथोक्तम् ।
पक्षमात्रेति । ननु सुखादेरपि व्यावर्तनान्न पक्षमात्रव्यावर्त्तकत्वम् , न च साधनवत्पक्ष
टिप्पणी ।
न व्यभिचारः । उत्कर्षापकर्षशब्देति । उत्कृष्टापकृष्टेति विवक्षितम् ।