निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 946, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( १७६ ) ८ अ० ३ पा० ७ खं०
“तव प्रयाजा अनुयाजाश्च केवल ऊर्जस्वन्तो
हविषः सन्तु भागाः । तवाग्ने यज्ञोऽयमस्तु सर्व-
स्तुभ्यं नमन्तां प्रदिशश्चतस्रः ॥” ( ऋ० सं० ८,
१, ११, ३ )
“आग्नेया वै प्रयाजा आग्नेया अनुयाजाः” इति
च ब्राह्मणम् ।
( ख ) छन्दोदेवताः-इत्यपरम् । “छन्दांसि वै
प्रयाजाश्छन्दांस्यनुयाजाः” इति च ब्राह्मणम् ।
(ग) ऋतुदेवताः- इत्यपरम्। “ऋतवो वै प्रयाजा
ऋतवोऽनुयाजाः-” इति च ब्राह्मणम् ॥
(घ) पशुदेवताः-इत्यपरम् । “पशवो वै प्रयाजाः
पशवोऽनुयाजाः”- इति च ब्राह्मणम् ।
(ङ) प्राणदेवताः-इत्यपरम् । “प्राणा वै प्रयाजाः
प्राणा वा अनुयाजाः” इति च ब्राह्मणम् ।
(च) आत्मदेवताः- इत्यपरम् । “आत्मा वै प्रया-
जाः आत्मा वा अनुयाजाः” इति च ब्राह्मणम् ।
आग्नेयाः- इति तु स्थितिः ।
भक्तिमात्रमितरत् ॥
किमर्थ पुनरिदमुच्यते ?
“यस्यै देवतायै हविर्गृहीतं स्यात् तां मनसा