निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 801, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २६ ) ७ अ० २ पा० १ खं०
जिस से कि-देवता ईश्वर हैं (समर्थ हैं) इसी से उनका
जन्म उनके संकल्प के अनुसार होता है। यह कहते हैं-
(निरु०) आत्मैव एषां रथो भवति आत्मा अश्वः
आत्मा आयुधम् आत्मा इषवः आत्मा सर्वं देव-
स्य देवस्य ।
आत्मा ही इनका रथ है, आत्मा घोड़ा, आत्मा आयुध,
आत्मा बाण, आत्मा सब कुछ देवका है-देवका है ॥५॥
इति हिन्दीनिरुक्ते सप्तमाध्यायस्य प्रथमः पादः।
द्वितीयः पादः ।
( खं० १ )
( निरु०- ) तिस्रएव देवता इति नैरुक्ताः ।
अग्निः पृथिवीस्थानः ।
वायुर्वा इन्द्रो वा अन्तरिक्षस्थानः ।
सूर्यो द्युस्थानः ।
तासां माहाभाग्याद् एकैकस्या अपि बहूनि
नामधेयानि भवन्ति ।
अपि वा कर्मपृथक्त्वाद्, यथा होता, अध्वर्युः,
ब्रह्मा, उद्गाता-इति, अपि-एकस्य सतः ।
अपिवा पृथगेव स्युः । पृथग् हि स्तुतयो भवन्ति।
तथा अभिधानानि ।