निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 723, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ३१० ) ६ अ० ४ पा० ७ खं०
शब्देन तकति इति वा ।
“श्रुष्टीवरी भूतनास्मभ्य मापः । ”
सुखवत्यो भवता मस्मभ्यमापः ॥
“ चोष्कूयमाण इन्द्र भूरिवामम् । ” (ऋ०सं०
१, ३, १, ३) ।
ददत् इन्द्रं बहु वननीयम् ।
“एधमान द्विळुभयस्य राजा चोष्कूयते विशं
इन्द्रो मनुष्यान् ” ॥ (ऋ०सं० ४, ७,३३, १) ॥
व्युदस्यति एधमानान् असुन्वतः, सुन्वतः-
अभ्यादधाति । “ उभयस्य राजा ” दिव्यस्य च
पार्थिवस्य च ।
‘ चोष्कूयमाणः’-इति चोष्कूयतेः-चर्करीत-
वृत्तम् ॥
‘ सुमत् ’ स्वयम्–इत्यर्थः ।
“ उप प्रागात्सुमन्मेध्यायि मन्म । ” (ऋ०सं०
२, ३, ८, २) ।
उपप्रैतुमां स्वयं यन्मे मनोऽध्यायि यज्ञेन-इति
आश्वमेधिको मन्त्रः ॥
‘ दिविष्टिषु ’ दिव एषणेषु ॥ ७ ॥
'हिनोत' (६४) यह अनवगत 'प्रहिणुत' (प्रेरित करो) के अथमे है ।