निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 711, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( २६८ ) ६ अ० ४ पा० ४ सं०
( सं० ४ )
निघ०-ततनुष्टिः ॥८४॥ इलीबिशः
॥८५॥
निरु०-“यो अस्मै ग्रंस उत वा य ऊधनि सोमं
सुनोति भवति द्य माँ अह । अपाप शक्र स्ततनुष्टि-
रूहति तनूशुभ्रं मघवा यः क्वामखः ॥” ( ऋ०
सं० ४, २, ३, ३ ) ॥
'ग्रंसः' इति अहर्नाम । ग्रस्यन्ते ऽस्मिन्रसाः ।
गोः-'ऊध' उन्नततरं भवति। उपोन्नद्धम्-इतिवा।
स्नेहानुप्रदानसामान्यात् रात्रिः-अपि 'ऊधः'
उच्यते ।
स योऽस्मै अहनि अपिवा रात्रौ सोमं सुनोति
भवति-अह द्योतनवान् । अपोहति अपोहति शक्रः
तितनिषुं धर्मसन्तानात्-अपेतम् अलंकारिष्णुम्
अयज्वानं तनूशुभ्रं तनूशोभयितारं मघवा, “यः
कवासखः” यस्य कपूयाः सखायः ॥
“न्याविध्यदिलीबिशस्य दृढा विशृङ्गिणमभि-
नच्छुष्णमिन्द्रः ।” (ऋ०सं० १,३,३,२) ।
निरविध्यत् इलाबिलशयस्य दृढानिब्यभिनत्
शृङ्गिणं शुष्णम्-इन्द्रः ॥४ (१९)॥