निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 658, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्ते ( २४३ ) ६ अ० १ पा० ५ खं०
'बृहदुक्थः' महदुक्थः । वक्तव्यम्-अस्मै--उक्थम्
इति बृहदुक्थो वा ।
“बृहदुक्थं हवामहे” ( ऋ० सं० ६, ३, २, ५ )
इत्यपि निगमो भवति ।
'ऋदूदरः' सोमः। मृदूदरः। मृदुः-उदरेषु इतिवा ।
“ऋदूदरेण सख्या सचेय” ( ऋ०सं०६,४,१२,५)
इत्यपि निगमो भवति ।
'ऋदूपे' इति-उपरिष्टाद् व्याख्यास्यामः ।
'पुलुकामः' पुरुकामः ।
“पुलुकामो हि मर्त्यः” ( ऋ० मं० २, ४, २२, ५ )
इत्यपि निगमो भवति ।
'असिन्वंती' असंखादन्त्यौ ।
“असिन्वती बप्सती भूर्यत्ततः” (ऋ०सं०६,३,१४,१)
इत्यपि निगमो भवति ।
'कपनाः' कम्पनाः क्रिमयो भवन्ति ।
“मोषंथा वृक्षे कपनेव वेधतः” (ऋ०सं०४,३,१५,१)
इत्यपि निगमो भवति ।
'भाऋजीकः' प्रसिद्धभाः ।
“धूमकेतुः समिधा भाऋजीकः” ( ऋ० सं०
७, ६, ११, २ ) इत्यपि निगमो भवति ।