निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 576, कुल 1282 में से
संदर्भ में पढ़ेंरिच्यते तत् ऋजीषम्,-अपार्जितं भवति, तेन ऋ-
जीषी सोमः ॥
अथापि ऐन्द्रो निगमो भवति-“ऋजीषी वज्री”
( ऋ० सं० ४, २, ११, ४ ) इति । हर्योः अस्य स
भागः, धानाश्च इति ॥
'धानाः' भ्राष्ट्रे हिता भवन्ति । फलेहिता भवन्ति
इति वा ।
“बब्धां ते हरी धाना उप ऋजीषं जिघ्रताम् ॥”
इत्यपि निगमो भवति ।
आदिना अभ्यासेन उपहितेनउपधामादत्ते ।
बभस्तिः अत्तिकर्मा । सोमः सर्वाणि अतसानि
वनानि । न अर्वाक्-इन्द्रं प्रतिमानानि दम्भ्नुवन्ति
यैः (ये) एनं प्रतिमिमते न-एनं तानि दम्भ्नुवन्ति,
अर्वागेव एनमप्राप्य विनश्यन्ति-इति ॥
इन्द्रप्रधाना-इत्येके नैघण्टुकं सोमकर्म उभयप्र-
धाना इत्यपरम् ॥
'रमशा' शु अश्नुते इतिवा । श्माश्नुते इतिवा ॥
“अवरमशा रुधद्द्वाः ।” (ऋ० सं० ८, ५, २६, १) ।
अवारुधत् रमशा वाः-इति ॥ ८ ( १२ ) ॥
इति पञ्चमाध्यायस्य द्वितीयः पादः समाप्तः॥ ५, २ ॥