निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 513, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ६४ ) ४ अ० ४ पा० खं० ६
‘वर्षाः’ वर्षति आसु पर्जन्यः। ‘हेमन्तः’ हिमवान्।
‘हिमं’ पुनः-हन्तेर्वा। हिनोतेर्वा। “अजरम्” अ-
जरणधर्म्माणम्। “अनर्वम्” अप्रत्यूतम् अन्यस्मिन्।
“यत्र” इमानि सर्वाणि भूतानि अभिसन्तिष्ठन्ते।
तं संवत्सरं सर्वमात्राभिः स्तौति—
“पञ्चारे चक्रे परिवर्त्तमाने—” [ऋ० सं० २, ३, १६,
३,—१, २२, ८, १३] । इति पञ्चर्तुतया। “पञ्चर्त्तवः
संवत्सरस्य-” इति च ब्राह्मणम्,—हेमन्तशिशिरयोः
समासेन ।
“षळर आहुरर्पितम्” [ऋ० सं० २, ३, १६, १]
इति षडृतुतया ‘अराः’ । प्रत्यताः नाभौ । ‘षट्’
पुनः सहतेः ।
“द्वादशारं नहि तज्जराय” [ऋ०सं०२, ३, १६, १]
“द्वादशप्रधयश्चक्रमेकम्” (ऋ० सं० २, ३, २३, २)
इति [द्वौपादौ] मासानाम् । ‘मासाः’ मानात् ।
‘प्रधिः’ प्रहितो भवति ।
“तस्मिन् साकं त्रिशता न शङ्कवोऽर्पिताः षष्टिर्न
चला चलासः ।” (ऋ० सं० २, ३, २३, २)
“षष्टिश्च ह वै त्रीणि च शतानि संवत्सरस्य अ-
होरात्रा-” इतिच ब्राह्मणं समासेन ।