निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 473, कुल 1282 में से
संदर्भ में पढ़ें[Header] हिन्दी निरुक्त ( ५४ ) ४ अ० २ पा० ७ ख०
बभ्रूयामेषु शोभेते ॥ ” [ऋ० सं० ३, ६, ३०, ७]
(भा०) 'कनीनके' कन्यके । 'कन्या' कमनीया
भवति । क्व-इयंनेतव्या'-इतिवा (कमनेन आनी-
यते इतिवा) कनतेर्वा स्यात् कान्तिकर्मणः । 'क-
न्ययोरधिष्ठानप्रवचनानि सप्तम्या एकवचनानि' इति
शाकपूणिः । विद्धयो दारुपाद्योः । 'दारु' दृणाते-
र्वा । द्रूणातेर्वा । तस्मादेव 'द्रु' । 'नवे' नवजाते ।
'अर्भके' अवृद्धे । ते यथा तदधिष्ठानेषु शोभेते,
एवं बभ्रूयामेषु शोभेते। बभ्रोः अश्वयोः संस्तवः।
'इदं च मे अदात्, इदंच मे अदात्'- इति
ऋषिः प्रसंख्याय आह—
“सुवास्त्वा अधि तुग्वनि”२० [ऋ० सं० ६, १, ३५, ७]
(भा०) 'सुवास्तु' नदी । 'तुग्व' तीर्थं भवति । तूर्णं
मेतत् आयन्ति । कुविन्नंसन्तेमरुतः पुनर्नः”२१
[ऋ० सं० ५, ४, २८, ५]
(भा०) पुनर्नो नमन्ते मरुतः ।
'नसन्त' (२२) इति उपरिष्टाद् (१२ अ०) व्या
ख्यास्यामः । “ये ते मदा आहनसो विहायसस्ते-२३
भिरिन्द्रं चोदय दातवे मघम् ।” (ऋ० सं० ७, २, ३३, ५)