निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 462, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ४३ ) ४ अ० २ पा० २ ख०
(भा०) सक्तुमिव परिपवनेन पुनन्तः । 'सक्तुः'
सचतेः । दुर्धावोभवति । कसतेर्वा स्याद् विपरीत-
तस्य । विकसितो भवति । [ द्वि० पा०- ] “ यत्र
धीरा मनसा वाच-” मकृषत । [व्याख्यान्तरम्-]
प्रज्ञानं धीराः,-प्रज्ञानवन्तः, ध्यानवन्तः । [तृ०च०
पा०-] तत्र “सखायः सख्यानि” सं “ जानते ”
“ भद्रैषां लक्ष्मी र्निहिताधिवाचि” ॥
‘ भद्रं ’ भगेन व्याख्यातम् । भजनीयं भूता-
नाम् । अभिद्रवणीयंम् । भवदूरमयति- इतिवा ।
भाजनवद्वा । 'लक्ष्मीः' लाभाद्वा । लक्षणाद्वा
( लप्स्यनाद्वा । ) लञ्छनाद्वा । लषतेर्वा स्यात्
प्रेप्साकर्मणः । लग्यतेर्वा स्याद्- आश्लेषकर्मणः ।
लज्जतेर्वा स्याद्-अश्लाघाकर्मणः ॥
‘ शिप्रे ( ११ ) ’ इति उपरिष्टाद् व्याख्या-
स्यामः ॥ २ ( १० ) ॥
अनुवादः ।
मन्त्रार्थः- 'यत्र' जहां 'इव' जैसे (कोई) 'तितउना' परि-
पवन या चालनी से 'सक्तुम् सत्तू को 'पुनन्तः' पवित्र करते
हैं ( करते हुये होते हैं ) 'धीराः' विद्वान् पुरुष 'मनसा' मन
से शब्द और अर्थ का निश्चय करके 'वाचम् वाणीको 'अक्रत'