निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 442, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त ( ३२ ) ४ अ० १ पा० १ खं०
प्रासंगिक शब्दाः ।
शब्द अर्थ
बन्धुः संबन्धनात् । ( खं० ५ )
नाभिः संहननात् । “नाभ्या संनद्धागर्भा जायन्ते । ”
ज्ज्ञातिः संज्ञानात् ।
उत्तानः उत्ततानः ऊर्ध्वतानो वा ।
रपः रिप्रम् । इति पापनामनी ( तृ० पादः समाप्तः )
चतुर्थः पादः ।
वस्त्रमथिम् वस्त्रमाथिनम् ।
वस्त्रम् वस्तेः ।
तायुः इति स्तेन नाम ।
भरः संग्राम नाम । भरतेर्वा । हरतेर्वा ।
नीचायमानम् नीचैः अयमानम् ।
नीचैः निश्चितं भवति ।
उच्चैः उच्चितं भवति ।
श्येनः शंसनीयं गच्छति ।
यूथम् यौतेः । समायुतं भवति ( खं० ३ )
अपीच्यम् अपचितम् अपगतम् । अपिहितम् । अन्तर्हितंवा (खं०४)
अंहतिः (अंहश्च अंहूश्च) हन्तेर्निरूढोपधाद्विपरीतात् ।
देवपीयुर् देवहिंसितारम् । पीयति हिंसाकर्मा ।
समानम् सम्मानमात्रं भवति ।
मात्रा मानात् ।
दूरम् व्याख्यातम्
अन्तः अततेः ।