निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 399, कुल 1282 में से
संदर्भ में पढ़ें४२ ३ अ० ४ पा० २ सं० ।
मेधाविनामानि उत्तराणि चतुर्विंशतिः । मेधा-
वी कस्मात् ? मेधया तद्वान् भवति । 'मेधा' मतौ
धीयते ॥
स्तोतृनामानि उत्तराणि त्रयोदश ।
यज्ञनामानि उत्तराणि पञ्चदश । 'यज्ञः'
कस्मात् ? 'प्रख्यातं यजति कर्म'-इति नैरुक्ताः ।
याज्यो भवति-इति वा । यजुर्यत्नो भवति-इति
वा। 'बहुकृष्णाजिनः'-इति औपमन्यवः । 'यजूंषि
एनं नयन्ति'-इति वा ।
ऋत्विड् नामानि उत्तराणि अष्टौ । 'ऋत्विक्'
कस्मात् ? ईरणः । 'ऋग्यष्टा भवति'-इति शाक-
पूणिः । ऋतुयाजी भवति इति वा ।
याच्ञाकर्माणः उत्तरे धातवः सप्तदश ।
दानकर्माणः उत्तरे धातवो दश ।
अध्येषणाकर्माण उत्तरे धातवश्चत्वारः ।
स्वपिति, सस्ति-इति द्वौ स्वपितिकर्माणौ ।
कूपनामानि उत्तराणि चतुर्दश । 'कूपः'
कस्मात् ? कुपानं भवति । कुप्यते वा ।
स्तेननामानि उत्तराणि चतुर्दशैव । 'स्तेनः'
कस्मात् ? 'संस्त्यानमस्मिन् पापकम्'-इति नैरुक्ताः ।