निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 373, कुल 1282 में से
संदर्भ में पढ़ें६६ ३ अ० ३ पा० १ खं० ।
भियन्नयः (८) । तद्रूपः (६) । तद्वर्णां (१०) ।
तद्वत् (११) । तथा (१२) । इति उपमाः ॥१३॥
[ निरु० ] बहुनामानि उत्तराणि द्वादश । बहु
कस्मात् ? प्रभवति इति सतः ।
ह्रस्वनामानि उत्तराणि एकादश । ह्रस्वो
ह्रसतेः ।
महन्नामानि उत्तराणि पञ्च विंशतिः । महान्
कस्मात् ? मानेन अन्यान् जहाति इति शाकपूणिः ।
संहनीयो भवति-इति वा । तत्र 'अवक्ष्य' 'विव-
क्षसे' इति-एते वक्तेर्वा वहतेर्वा साभ्यासात् ।
गृहनानानि उत्तराणि द्वाविंशतिः । गृहाः कस्मात्?
गृह्णन्ति इति सताम् ।
परिचरण-कर्माणः उत्तरे धातवो दश ।
सुखनामानि उत्तराणि विंशतिः । 'सुखं'
कस्मात् ? सुहितं खेभ्यः । 'खं' पुनः खनतेः ।
रूपनामानि उत्तराणि षोडश । रूपं' रोचतेः ।
प्रशस्य-नामानि उत्तराणि दश ।
प्रज्ञानामानि उत्तराणि एकादश ।