निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 366, कुल 1282 में से
संदर्भ में पढ़ें५८ ३ अ० २ पा० ६ खं० ।
( खण्ड ६ )
[ निरु० ] “यत्रा सुपर्णा अमृतस्य भागमनिमेषं
विदथा भिसरन्ति । इनो विश्वस्य भुवनस्य गोपाः
समाधीरः पाकमत्राविवेश ॥”
[ ऋ० सं० २, ३, १८. १ ]
यत्र “सुपर्णाः” सुपतनाः आदित्यरश्मयः- “अमृ-
तस्य भागं” मुदकस्य अनिमिषन्तः वेदनेन “अभि-
स्वरन्ति”-इति वा, अभिप्रयन्ति-इति वा । ईश्वरः
सर्वेषां भूतानां गोपायिता आदित्यः । “स मा
धीरः पाकमत्राविवेश”-इति । “धीरः” धीमान् ।
“पाकः” पक्तव्या भवति । विपक्वप्रज्ञः आदित्यः-
इति उपनिषद्वर्णो भवति-इति अधिदैवतम् । अथा-
ध्यात्मम् । यत्र सुपर्णाः सुपतनानि इन्द्रियाणि अमृ-
तस्य भागं ज्ञानस्य अनिमिषन्तः वेदनेन अभि-
स्वरन्ति इति वा, अभिप्रयन्ति इति वा । ईश्वरः
सर्वेषाम् इन्द्रियाणां गोपायिता आत्मा “स मा
धीरः पाकमत्राविवेश” इति । “धीरः धीमान्”
“पाकः” पक्तव्या भवति, विपक्वप्रज्ञः आत्मा इति
आत्मगतिमाचष्टे ॥ ६ ॥
इति तृतीयाध्यायस्य द्वितीयः पादः ॥ ३, २, ॥