निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 337, कुल 1282 में से
संदर्भ में पढ़ेंतृतीयाध्याये—
द्वितीयः पादः ।
[ निघण्टुः ] मनुष्याः ( १ ) । नरः ( २ ) ।
धवाः ( ३ ) । जन्तवः ( ४ ) । विशः ( ५ ) ।
क्षितयः ( ६ ) । कृष्टयः ( ७ ) । चर्षशयः ( ८ ) ।
नहुषः ( ६ ) । हरयः ( १० ) । मर्याः ( ११ ) ।
मर्त्यांः ( १२ ) । मर्त्ताः ( १३ ) । व्राताः ( १४ ) ।
तुर्वशाः ( १५ ) । द्रुह्यवः ( १६ ) । आयवः ( १७ ) ।
यदवः ( १८ ) । अनवः ( १८ ) । पूरवः ( २० ) ।
जगतः ( २१ ) । तस्थुषः ( २२ ) । पञ्चजनाः (२३) ।
विवस्वन्तः ( २४ ) । पृतनाः ( २५ । इति पञ्चविंशति-
र्मनुष्य नामानि ॥ ३ ॥
( खण्ड १ )
[ निरुक्तम् ] मनुष्य नामानि उत्तराणि पञ्च-
विंशतिः । मनुष्याः कस्मात् ? मत्वा कर्माणि सी-
व्यन्ति । मनस्यमानेन सृष्टाः । मनस्यतिः पुनर्मन-
स्वीभावे । मनोरपत्यं मनुषाः वा । तत्र पञ्चजनाः
इत्येतस्य निगमाः भवन्ति ॥ १ ॥