निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 334, कुल 1282 में से
संदर्भ में पढ़ें३६ ३ अ० १ पा० ६ खं० ।
निर्गमनप्राया भवति । "तान्वः" आत्मजः पुत्रः ।
"रिक्थं" प्रारिचत् प्रादात् "चकार" एनां गर्भ-
निधानीं 'सनितुः' हस्तग्राहस्य । "यदि मातरो
जनयन्त वह्निम्" पुत्रम् अवह्निञ्च स्त्रियम् । अन्य-
तरः सन्तानकर्त्ता भवति । पुमान् दायादः ।
अन्यतरोऽर्द्धयित्वा जामिः प्रदीयते परस्मै ॥६॥
इति तृतीयाध्यायस्य प्रथमः पादः ॥३, १॥
अर्थः ।
मन्त्रार्थः । "तान्वः" आत्मजः पुत्रः "जामये"
'भगिन्यै' रिक्थं" भागं "न" "आरैक्" 'प्रारिचत्-
प्रादात्' ददाति-इत्यर्थः । [तर्हि किं करोति ?
"सनितुः" 'हस्तग्राहस्य' भर्तुः "गर्भं निधानम्" 'एनां
गर्भनिधानीं' प्रसवसमर्थां "चकार" करोति पु-
ष्णाति । "मातरः" "यदी" यत् पुत्रद्वयं वह्निम्"
'पुवंस्त्रियं च' तत्र "अन्यः 'अन्यतरः" पुमान् सन्तान
कर्त्ता भवति, स एव दायादः । "सुकृतोः" एकेनापि
प्रयत्नेन कृतयोः उत्पादितयोः "अन्यः" 'अन्यतरः'
'जामिः' भगिन्याख्यः "ऋन्धन्" 'अर्द्धयित्वा'
वर्द्धयित्वा 'परस्मै प्रदीयते-इत्यर्थः ।