निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 321, कुल 1282 में से
संदर्भ में पढ़ें१२ ३ अ० १ पा० ४ खं० ।
अच्छावाकस्य यच्छस्त्रम्-अभिजित्द्विश्वजिदादिषु
अहीनकेषु अहः सु अहीनसूक्तं नाम तत्रेयं शस्यते ।
“न जामये तान्व” ( ६ खं० ) इति द्वयमपि अनयैव
समानार्ष विनियोग दैवतच्छन्दस्का ।
( मन्त्रार्थः ) “वह्नि” 'वोढा' उद्बोढा स्त्रियाः
'सन्तानकर्मणे' अर्थाय"दुहितुः” या स्वस्यां भार्यायां
जायते पुत्री तस्याः 'पुत्रभावं' 'इवमेव मे पुत्रः'
इति भावं “शासत्” 'प्रशास्ति' प्रख्यापयति प्रज्ञा-
पयति इत्यर्थः । कथं पुनर्जायते प्रशास्ति-इति ? ।
उच्यते-इतः । यस्मात् “नप्ताङ्गात्” 'नप्तारमुपागमत्'
उपागच्छति चेतसा, दौहित्रं पौत्रमिति । कीदृशः ?
“ऋतस्य” 'प्रजननयज्ञस्य' 'रेतसो वा “विद्वान्”
अभिज्ञः किं कुर्वन् ? “दीधितिं”'विधानं'“सपर्यन्”
अविशेषेण पुत्रदुहित्रोर्गर्भाधानेतिकर्त्तव्यतां पूजयन्
सञ्जानन्नित्यर्थः । “पिता” ‘यत्र” यस्मिन् काले
“दुहितुः” ‘अप्रत्तायाः’ प्रदानात्-प्राक्-इत्यर्थः
“सेकं” 'रेतः सेकं' जामातरम् “ऋञ्जन्” 'प्रार्जयति'
प्रकल्पयति तदा तस्मै दुहितरं ददत् “संशग्म्येन”
संगमेन विगतापुत्रत्वसन्तापेन “मनसा” चेतसा