निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 262, कुल 1282 में से
संदर्भ में पढ़ें६६ २ अ० ५ पा० १ खं० ।
पञ्चमः पादः ।
[ निघ० ] खदयः (१) । किरणाः (२) ।
गावः (३) । रश्मयः (४) । अभीशवः (५) । दी-
धितयः (६) । गभस्तयः (७) । वनम् (८) ।
उस्राः (६) । वसवः (१०) । मरीचिपाः (११) ।
मयूखाः (१२) । सप्त ऋषयः (१३) । साध्याः
(१४) । सुपर्णाः (१५) । इति पञ्चदश रश्मि-
नामानि ॥ ५ ॥
[ निघ० ] आताः (१) । ओशाः (२) । उपराः
(३) । आष्ठाः (४) । काष्ठाः (५) । व्योम (६) ।
ककुभः (७) । हरितः (८) । इति अष्टौ दिङ्
नामानि ॥ ६ ॥
( खण्ड १ )
[ निरु० ] रश्मिनामानि-उत्तराणि पञ्चदश । 'रश्मिः
यमनात् । तेषाम्-आदितः साधारणानि
पञ्च अश्वरश्मिभः । दिङ् नामानि उत्त-
राणि-अष्टौ । 'दिशः' कस्मात् ? दिशतेः ।
आसदनात् । अपि वा अभ्यशनात् । तत्र
'काष्ठा' इत्येतद् अनेकस्यापि सत्वस्य
भवति । काष्ठा दिशो भवन्ति । क्रान्त्वा