निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 246, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । ७६
आगे जो वर्षकाम—सूक्तकी ऋचा दी जाती है,—उसमें सन्दि-
ग्ध ‘समुद्र’ पदके दोनों अर्थ मन्त्रार्थके सामर्थ्यसे ही स्पष्ट प्रतीत
होते हैं ॥ १ ॥
[ खं० २ ]
आर्ष्टिषेणोहोत्रमृषिर्निषीदन्देवापिर्देव सुमतिं
चिकित्वा॒न् । उत्तरस्मा दधरं समुद्रमपो दि॑व्या
अस्रजद्वर्ष्या अभि ॥”
[ भा० ] “आर्ष्टिषेणः” ऋष्टिषेणस्य पुत्रः । इषितः
षेणस्य इति वा । ‘सेना’ सेश्वरा । समान
गतिर्वा । ‘पुत्र.’ पुरुत्रायते । निपरणाद्
वा । ‘पु’ नरकं, ततः त्रायते इति वा ।
“होत्रम्—ऋषिः-निषीदन्” ।। ‘ऋषिः’ दर्श-
नात् । ‘स्तोमान् ददर्श’-इति-औपमन्यवः ।
“तद्-यद्-एनान्—तपस्या मानान् ब्रह्म-
स्वयम्भु—अभ्यानर्षत्, तद् ऋषीणाम्—
ऋषित्वम्”—इति विज्ञायते । “देवापिः”
देवानाम्-आप्त्या, स्तुत्याच प्रदानेन च ।
“देव सुमतिम्” देवानां कल्याणीं मतिम् ।
“चिकित्वा॒न्” चेतनावान् । “स उत्तर-
स्माद्-अधरं समुद्रम्” । ‘उत्तरः’ उद्भूततरो