निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 242, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । ७५
अन्तरिक्ष नामानि उत्तराणि षोडश । अन्त-
रिक्षं कस्माद् ? अन्तराक्षान्तं भवति । अन्तरा इमे
इति वा । शरीरेषु-अन्तः-अक्षयम्-इति वा । तत्र
समुद्र इत्येतत् पार्थिवेन समुद्रेण सन्दिह्यते । स-
मुद्रः कस्मात् ? समुद्रवन्ति अस्माद्-आपः । सम-
भिद्रवन्ति-एनम्-आपः । सम्मोदन्ते अस्मिन् भू-
तानि । समुद्रको भवति । समुनत्ति-इति वा ।
तयोर्विभागस्तत्र-इतिहास मा चक्षते ।-देवापि
ऋचार्ष्टिषेणः शन्तनुश्च कौरव्यौ भ्रातरौ बभूवतुः ।
सश्रन्तनुः कनीयान्-अभिषेच याञ्चक्रे । देवापिः-
तपः प्रतिपेदे । ततः शन्तनो राज्ये द्वादश वर्षाणि
देवो न ववर्ष । तम् ऊचु ब्राह्मणाः-‘अधर्मः त्वया
चरितः’-‘जेष्ठं भ्रातरम्-अन्तरित्य-अभिषेचितम्’, त-
स्मात् ते देवो न वर्षति’-इति । स शन्तनुर्देवापिं
शिशिक्ष राज्येन । तम् उवाच देवापिः ‘पुरोहितः
ते आसानि’ ‘याजयाति च त्वा’ इति । तस्य-एतद्
वर्ष काम सूक्तं, तस्य-एषा भवति ॥ १ ॥
अनुवाद ।
प्रकृत पृथिवीके नामोंके अनन्तर पन्द्रह (१५) सुवर्णके नाम
हैं । ‘हिरण्य’ क्यों-[ कहलाता है ? ] [ शिल्पी इसे कड़े-कुण्डल-