निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 226, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त । ५६'
विष्णोः महागतः परमं पदं परार्ध्यस्थम्-
अव भाति भूरि ॥
पादः पद्यतेः, तन्निधानात् पदम् । पशु पाद
प्रकृतिः प्रभाग पादः । प्रभाग पाद-सामान्याद्-
इतराणि पदानि ।
एवमन्येषामपि सत्वानां सन्देहा विद्यन्ते,
तानि चेत् समान कर्माणि, समान निर्वचनानि,
नाना कर्माणि चेत् नाना निर्वचनानि । यथार्थं
निर्वक्तव्यानि, इति ।
इमानि एक विंशतिः पृथिवीनाम धेयानि अनु-
क्रान्तानि, तत्र-‘निर्ऋतिः निरमणात् । ऋच्छतेः
कृच्छ्रापत्तिः-इतरा । सापृथिव्या सन्दिह्यते । तयो-
र्विभागः । तस्याएषा भवति ॥ ३ ॥—
मन्त्रान्वयार्थः-हे दम्पति ! 'ता' तानि 'वास्तू-
नि' गृहाणि 'वां' युवाभ्यां गमध्यै गमनाय वयम्
'उश्मसि' कामयामहे । किम्भूतानि । 'यत्र' येषु
'भूरिशृङ्गाः' बहुदीप्तयः 'अयासः' गमनशीलाः 'गावः'
किरणाः सन्तीति शेषः । पुनः किम्भूतानि 'अत्राह'
यत्र ( तत्र ) 'उरुगायस्य' महागतेः 'वृष्णः' विष्णोः