निरुक्तम् (महर्षि यास्क मुनि - निघण्टु एवं वैदिक शब्द-व्युत्पत्ति सान्वय सटीक भाष्य)
Niruktam of Maharshi Yaska with Nighantu and Hindi Commentary
महर्षि यास्क मुनि द्वारा
पृष्ठ 1174, कुल 1282 में से
संदर्भ में पढ़ेंहिन्दी निरुक्त (४११) ११ अ० २ पा० ४ खं०
[खं० ४]
निरु० "विष्ट्वी शमी तरणित्वेन वाघतो मर्त्तासः
सन्तो अमृतत्वमानशुः । सौधन्वना ऋभवसूर-
चक्षमः संवत्सरे समपृच्यन्त धीतिभिः ॥" (ऋ०
सं० १, ७, ३०, ४) ॥
कृत्वा कर्माणि क्षिप्रत्वेन वोढारो मेधाविनो
वा मर्त्तासःसन्तःअमृतत्वम् आनशिरे, सौधन्वनाः
ऋभवः सूरख्याना वा, सूरप्रज्ञा वा,संवत्सरे सम-
पृच्यन्त धीतिभिः कर्मभिः ॥
ऋभुः'विभ्वा,वाजः,-इति सुधन्वनः आङ्गिरस-
स्य त्रयः पुत्रा बभूवुः, तेषां प्रथमोत्तमाभ्यां बहु-
वत् निगमा भवन्ति,न मध्यमेन। तदेतदृक्भोश्च
बहुवचनेन चमसस्य च संस्तवेन बहूनि दशतयीषु
सूक्तानि भवन्ति ।
आदित्यरश्मयः अपि ऋभवः उच्यन्ते ।
"अगोह्यस्य यदसस्तना गृहे तदद्येदमृभवो
नानुगच्छथ ।” [ऋ० सं० २, ३, ६, १] ॥
'अगोह्यः'आदित्यः । आगूहनीयः । तस्य यद्
अस्वपथ गृहे यावत् तत्र भवथ न तावद् इह भवथ
इति ॥