नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
सप्तम उच्छ्वासः । २२१
नलोऽपि 'विहंगवागुरिके, भवत्स्वामिन्याः किमेवंविधः समाचारः,
यदभ्यागतजनेन सह स्वागतालापमात्रेणापि न क्रियते व्यवहारः'
इति तस्याः समीपवर्तिनीं पूर्वपरिचितां किंनरीमभाषत ॥ क ॥
सापि ससंभ्रमप्रणामपूर्वमिदमवादीत् ॥ ख ॥
'किंचित्कम्पितपाणिकंकणरवैः पृष्टं ननु स्वागतं
व्रीडानम्रमुखाव्जया चरणयोर्न्यस्ते च नेत्रोत्पले ।
द्वारस्थस्तनयुग्ममङ्गलघटे दत्तः प्रवेशो हृदि
स्वामिन्किं न तवातिथेः समुचितं सख्याऽनयाऽनुष्ठितम्॥३७॥
तदितः ससंभ्रमोत्थितयानया समर्पितमिदमुल्लसन्मणिपर्यङ्किका-
पृष्ठमधितिष्ठतु देवः ॥ ग ॥
त्वमपि देवि, विद्रुममणिपर्यङ्किकामिमामदूरवर्तिनीमध्यास्व ॥ घ ॥
भवतु च भवतोः परमुखेन श्रुतान्योन्यस्वरूपयोरिदानीमात्मानुभ-
वेन नयननिर्वृतिः, फलन्तु मनोरथाः सखीनाम्' इति ॥ ङ ॥
तयाभिहितौ तौ सर्वसत्वरसखीकरपरामृष्टयोः स्फटिकप्रवालपर्य-
ङ्किकयोरुत्सङ्गभागं भेजतुः ॥ च ॥
ततश्च तौ
हर्षाद्वाष्पचिते, भयाच्चरलिते, विस्फारिते विस्मया,-
दौत्सुक्यात्स्तिमिते, स्मराद्विलुलिते, संकोचिते लज्जया ।
रूपालोकनकौतुकेन रमसादन्योन्यवक्त्राम्बुजे
किंचित्साचि च संमुखं च नयने संचारयामासतुः ॥ ३८ ॥
तत्र च व्यतिकरे
अन्तः केवलमुल्लसन्ति न पुनर्वाचां तु ये गोचरा
येषां नो भरतादयोऽपि कवयः कर्तुं विवेकं क्षमाः ।
लज्जामन्थरयोः परस्परमिलद्दृष्टिप्रपाते तयो-
स्ते सर्वे समकालमेव हृदये केऽप्याविरासंन्नरसाः ॥ ३९ ॥
अपि च । तत्र च व्यतिकरे
कर्णान्तकृष्टवलयीकृतचापचक्र-
श्वञ्चद्गुणस्खलनजर्जरितप्रकोष्ठः ।
लक्ष्यद्वयेऽपि युगपद्विशिखान्विमुञ्च-
न्संधानसत्वरकरः श्रमवान् स्मरोऽभूत् ॥ ४० ॥
१ विनोदाः २ रासाः
२३२ नलचम्पूः ।
अनन्तरमाप्तसखीवचनेन स्वयमर्घदानोद्यतां ताम् 'अलमलमुत्प-
लाक्षि, प्रयासेन । न खल्वसि पात्रं परिश्रमस्य । न पारिजातमञ्जरी
जरठपवनप्रेङ्खोलनायासं सहते' इति दमयन्तीमभिधाय तस्याः स्वादु-
दुर्लभसूक्तिसुधासेककोमलालापपण्डिताभिः सखीभिः सह परिमित-
परिहासेन, किमपि जल्पन्, किमपि हसन्, किमपि हासयन्, मुहू-
र्तमिवासांचक्रे ॥ क ॥
चिन्तितवांश्च ।
लीलाताण्डवितध्रुवोः स्मरभरभ्रान्तोल्लसत्तारयो-
रन्तर्मौक्तिकमालिकाधवलयोर्मुग्धस्मितस्मेरयोः ।
किंचित्साचिदृशोः कृतानिलचलन्नीलोत्पलस्पर्धयो-
रुल्लोलैरिव याति पक्ष्मलदृशः कान्तिर्मदीये मुखे ॥ ४१ ॥
अपि च ।
दरमुकुलितनेत्रप्रान्तपर्यस्ततारं
तव तरुणि सलज्जं सस्मितं सस्मरं च ।
क्षणमभिमुखवक्त्रे विस्मयस्मेरदृष्टौ
मयि वलति वलक्षं वीक्षितं मा निरौत्सीः ॥ ४२ ॥
किंचान्यदपरमिदमाशास्महे ।
लावण्यामृतदीर्घिका कुलगृहं सौभाग्यसौन्दर्ययो-
स्त्रैलोक्याकररत्नकन्दलिरियं जीव्यात्सहस्रं समाः ।
लोकालोकनकौतुकाय बहुना शिल्पश्रमेणादरा-
न्मन्ये यां विधिना विधाय विहितं सृष्टेर्ध्वजारोपणम् ॥४३॥
अहो आश्चर्यम् ।
रङ्गत्यङ्गे कुरङ्गाक्ष्याश्चक्षुर्मे यत्र यत्र तु ।
दृश्यते तत्र तत्रैव बलोद्वाणकरः स्मरः ॥ ४४ ॥
लीलेति ॥ उल्लोलैर्याति तरङ्गैः स्फुरति ॥ ४१ ॥
दरेति ॥ तवाभिमुखवक्त्रे मयि एवं गुणविशिष्टं वीक्षितं वलक्षं धवलं मा
निरौत्सीः ॥ ४२ ॥
लावण्येति ॥ आलोकनाय कौतुकमालोकनकौतुकम् । लोकस्यालोकनकौतु-
कम् । तेन पश्यतु लोको, द्रष्टव्यदर्शनादृष्टफलमाप्नोत्वित्यर्थः ॥ ४३ ॥
रङ्गेति ॥ तुः पुनरर्थे । किं पुनः यत्र यत्राङ्गे चक्षू रङ्गति तस्य साधिष्ठान-
त्वात् । स्मरवाणबाधा प्राप्यते ॥ ४४ ॥
१ 'निरोधीः', 'विरोधीः'. २ 'सौन्दर्यसौभाग्ययोः'. ३ 'विहाय'. ४ 'हि'. ५ 'ब्लान्-
बाण', 'चलद्वाण'.
सप्तम उच्छ्वासः। २२३
तत्कथमियमन्यार्थे$^१$ प्रार्थ्यते। तद्ह्यतामयं परप्रेष्यभावः ॥ क ॥
यतः। तिरयति स्वातन्त्र्यसुखम्, अभिमुखयति$^२$ पारवश्यक्लेशम्,
आमन्त्रयति तिरस्कारम्, आदरयति दैन्यम्, आह्वयति लघिमानम्,
आवाँहयति हास्यपदम्, समानयत्यौचित्यभङ्गम्$^४$, अङ्गीकारयति कार्प-
ण्यम्, अपहस्तयति वस्तुभावम्$^५$, पुरुषस्य ॥ ख ॥
तथाहि।
सोच्छ्वासं मरणं निरग्नि दहनं निःशृङ्खलं बन्धनं
निष्पङ्कं मलिनं$^६$ विनैव नरकं सैषा महायातना।
सेवासंजनितं जनस्य सुधियो धिक्पारवश्यं यतः
पञ्चानां सविशेषमेतदपरं षष्ठं महापातकम् ॥ ४५ ॥
किं चान्यत्।
प्रस्तुतस्य विरोधेन ग्राम्यः सर्वोऽप्युपक्रमः।
वीणायां वाद्यमानायां वेदोद्गारो न रोचते ॥ ४६ ॥
तत्किमिदानीमिदमुच्यते। 'लोलाक्षि, लोकपालास्त्वामस्मन्मुखेन
वृण्वन्ति इति प्रस्तुतानुरागभङ्गः, तदादेशोऽपह्नूयते$^७$ स्वामिन्यन्यथा
कथ्यते$^८$ श्रेयस्खलनम्, यथावृत्तमेवाख्यायते$^९$ स्वार्थहानिः, तद्वरमस्तु
स्वार्थविघातो न तु विश्वस्तदेवतावञ्चनापातकम्' इति चिन्तयन्नशेष-
ममपि तस्यै पुरंदरादेशं$^{११}$ सप्रपञ्चमाचचक्षे ॥ ग ॥
सोपि$^{१३}$ स्तोकस्मितस्निग्धधम्रमुखी$^{१४}$ 'हं हे प्रियंवदिके, प्रियास्मज्जी-
वितयाम्बया तातेन च$^{१५}$ मध्याह्ने समाहूय किमुक्तासि, किं शिक्षिताऽसि।
न नाम बालेयम्, अविनीतेयम्, आग्रहग्रहमस्तेयम्$^{१६}$, इति
तत्कथमिति ॥ अन्येषामिन्द्रादीनामर्थेऽन्यार्थे ॥ क ॥
यत इति ॥ आङ्पूर्वस्य वहेतेः करोत्यर्थत्वादावाहयति कारयतीत्यर्थः ॥ ख ॥
प्रस्तुतेति ॥ उभयानुरागौचित्यादात्मार्थस्य प्रस्तुतत्वम् ॥ ४६ ॥
सापीति ॥ स्तोकेत्यादिना अर्थिनोऽपि लोकपालानन्त्यवज्ञा, नलं प्रत्यनुरा-
१ 'तत्किमय'; 'अथ कथमियमन्यथाप्रा'. २ 'मुखरयति पार'; 'अतिमुखरय'. ३ 'आरो-
हयति प्रतिदास्यपदम्'. ४ 'आनयति'. ५ 'पुरुषभावम्'. ६ 'गलनं'; 'नलिनं'. ७ 'अप-
धीयते'. ८ 'कथ्याने'. ९ 'श्रेयःसंवलनम्'. १० 'यथावृत्तमाख्या'. ११ 'वचनपात'. १२
'देशप्रपञ्चमा'. १३ 'ततः सापि'; 'सोऽपि'. १४ 'स्तोकस्मितमुग्धनम्र'; 'स्तोकस्मितस्नि-
ग्धमुग्धनेत्रमुखी'; 'स्निग्धमुक्तनम्र'. १५ 'कुप्यता तातेन च'. १६ 'आग्रहग्रस्ते'; 'आग्र-
हम्रस्तेयम्'.
१२४ नलचम्पूः ।
केनापि कर्णेजपेन तातस्य हृदयाद्दूरीकृताहम् । वन्द्याः खलु गुरवो
देवाश्च बिभेमि तेभ्योऽहम्' इति । प्रियंवदिकाख्यया सख्या सार्ध-
मैन्यालापमकरोत् ॥ क ॥
नलोऽपि 'मदिराक्षि, मदयति मदिरा, तरलयति तारुण्यम्, अन्ध-
यति धनम्, उत्पथयति मन्मथः, विरूपयति रूपाभिमानः, खर्वयति
गर्वः । सर्वजनप्रसिद्धमेतत् । किंतु त्वमिदमसत्यतां मौनैषीः । व्यभि-
चरतु तवाङ्गे सर्वमेतत् । नहि शशिनि वह्निः, अमृते च विषाङ्कुरः
संभवति । तदिमं देवादेशं मावज्ञासीः । सर्वथा प्रभवन्ति प्राणिना-
ममी लोकपालाः । तत्रापि विशेषतः सकलत्रिदशाधिपतिरशेषसुरकि-
रीटमाणमयूखमालाचितचरणारविन्दः पुरंदरो देवः । तद्गृह्णीं कमप्य-
मीषाममृतभुजां मध्ये । मानय स्वर्गसुखानि । अभूमिरसि मर्त्यलोक-
स्तोकसुखानाम्' इति पुनस्तामभ्यधात् ॥ ख ॥
एवंविधे च व्यतिकरे दमयन्त्या पुनरुक्तमिमं जल्पमरण्यकरि-
ण्येवारंतुदमङ्कुशमसहमानया मनाक्तरलिते शिरसि, स्तोकीकृते
मनसि, मुक्ते निःसहनिःश्वासमरुति, परावर्तिते चक्षुषि, विवर्णतामा-
नीते वदनारविन्दे, प्रस्तावपण्डिता प्रियंवदिका प्राह ॥ ग ॥
'देव, श्रुतं श्रोतव्यम्, अवधारितो देवादेशः । किं तु न स्वतन्त्रे-
यम्, ईश्वरेच्छया प्रवृत्तिनिवृत्तयो यतः प्राणिनाम्, अनालोचनगोच-
रश्चायमनुरागोऽङ्गनाजनस्य ॥ घ ॥
तथाहि ।
तीव्रतपनतापप्रियाम्भोजिनी न सहते स्तोकमप्यमृतमुचो रुचश्च-
न्द्रस्य, परिम्लायति मालतीमालिका सलिलसेकेन ॥ ङ ॥
प्रसिद्धं चैतत् ।
भवति हृदयहारी कापि कस्यापि कश्चि-
न्न खलु गुणविशेषः प्रेमबन्धप्र्रयोगे ।
किसलयति वनान्ते कोकिलालापरम्ये
विकसति न वसन्ते मालती कोऽत्र हेतुः ॥ ४७ ॥
गाग्रहं चान्यालापव्याजेन दमयन्ती प्रतिपादितवती । न नामेति वितर्के । 'किं
दूरीकृताहम्' इति वितर्कः ॥ क ॥
१ 'अहमिति'; 'अहमपि' २ 'मन्योन्यालापलीलामकरोत्' ३. 'इति' ४ 'मनैषीः'
५ 'व्यसिचरति' ६ 'तमिमं' ७ 'वृणुष्व' ८ 'अयोगिनि' ९ 'प्रासकल्पनप्रयोगे'
एवमनेकविधोपाख्याननिपुणया तत्कालोचितम्, अनुच्छस्मितसुधा-
स्निग्धम्, अविरुद्धम्, परिमितपरिहाससुन्दरम्, अनुवृत्तिबृंहितानुरा-
गम्, उचितचाटुचटुलम्, अशाठ्यम्, अकठोरम्, अनुज्झितप्रियम्,
प्रियंवदिकया सहाल्पालपं जल्पन् 'अयुक्तमिह कन्यान्तःपुरे चिरं
स्थातुम्' इति चिन्तयन्नापृच्छथ दमयन्तीं नलः पर्यङ्किकापृष्ठादुदति-
ष्ठत् ॥ क ॥
प्रथमोत्थितया च तया लज्जावनम्ववदनारविन्दया सह सखीकद-
म्बकेन द्वित्राणि पदान्यनुगम्यमानो विहँसन् 'अलमलमायासेन,
स्थीयतां सुखम्' इत्यभिधाय स्वगृहानयासीत् ॥ ख ॥
गत्वा च शिरीषकुसुमदाममृदुनि शय्यातले निषण्णश्चिन्तयांच-
कार ॥ ग ॥
हर्षादुत्पुलकं विकासि रभसादुत्तानितं कौतुका-
च्छृङ्गारादलसं, भयात्तरलदृङ् नम्रं च लज्जाभरात् ।
तस्यास्तन्नवसंगमे मृगदृशो दृश्येत भूयोऽपि किं
किंचित्काञ्चनगौरगण्डगलितस्वेदाम्बुरम्यं मुखम् ॥ ४८ ॥
अपिच।
अपसरति न चक्षुषो मृगाक्षी
रजनिरियं च न याति नैति निद्रा ।
प्रहरति मदनोऽपि दुःखितानां
बत बहुशोऽभिमुखीभवन्त्यपायाः ॥ ४९ ॥
इति विविधवितर्कापेशविध्वस्तनिद्रः
सजलजडिम मीलत्पक्ष्म चक्षुर्दधानः ।
हरचरणसरोजद्वन्द्वमाधाय चित्ते
नृपतिरैपि विदग्धः स त्रियामामनैषीत् ॥ ५० ॥
इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो-
जाङ्कायां सप्तम उच्छ्वासः समाप्तः ॥ ग्रन्थोऽपि समाप्तः ॥
इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः ।
शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥
१ 'चितमुवा', 'स्निग्धम्'. २ 'परिमितं'. ३ 'असाध्यकठोरम्'. ४ 'पर्यङ्किकातलादुद'.
५ 'विरहातुरामलमलभ्रया'. ६ 'चक्षुषोः'. ७ 'नृपतिरयम सञ्जीतां त्रि०'.
२२६ नलचम्पूः ।
श्रीप्राग्वाटकुलान्धिवृद्धिशशभृच्छ्रीमान् यशोराज इ-
त्यार्यो यस्य पिता प्रबन्धसुकविः श्रीचण्डसिंहोऽग्रजः ।
श्रीसारस्वतसिद्धये गुरुरपि श्रीलूलिगः शुद्धधीः
सोऽकार्षीद्दमयन्त्युदारविवृतिं श्रीचण्डपालः कृती ॥
इति श्रीचण्डपालविरचिते दमयन्तीकथाविवरणे सप्तम
उच्छ्वासः समाप्तः ॥
नलचम्पूस्थश्लोकानामकारादिक्रमेणानुक्रमणिका ।
उच्छ्वासः मूलानि श्लोकसंख्या उच्छ्वासः मूलानि श्लोकसंख्या
५ अंससंसिजलार्द्र- ३७ ६ अयि भवत कृतार्थाः ८०
१ अक्षमालाप्रवृत्तिज्ञा ७ ६ अरुणमणिकिरण- ३९
२ अखण्डितप्रभावोऽथ ३१ ४ अलंकृतनिशान्तेन १२
१ अगाधान्तःपरिस्पन्दम् ३ ५ अवतरति घृताची- ५१
७ अगस्त्यामिव चेतसः १५ ५ अविरतमिदमम्भः ६१
७ अङ्गाः कङ्कलिङ्ग- ६ ४ अवृष्टिनष्टधूलीक- १३
१ अच्छाच्छैः शुकपिच्छ- ४६ ५ असमहरितीरं ९
१ अजनि जनित- ५० १ अस्ति स्वर्गसमः ५४
६ अजनि रजनिः ३५ १ अस्तु स्वस्ति समस्त- ५५
४ अतिललिततरं ५ ४ अहीनां मालिकां २९
३ अत्रान्तरे तरणि- ३ १ आकर्ण्य सरयौवराज्य- ४०
१ अत्रिजातस्य या ९ १ आकारः स मनोहरः ५८
१ अथ कथमपि नाथं ५१ ७ आज्यं प्राज्यमभिन्न- ११
३ अथ नरपतिदत्ते ८ ७ आज्यप्राज्यपरान्न- १२
३ अथ विमलदुकूल- २१ ६ आनन्ददायिनस्ते ४२
३ अथ मे सुबहोः १२ ५ आनन्दिसुन्दर- १२
७ अथास्मत्कुलसंततिः १ ७ आ पूर्वापर- ४
७ अनुगुणघटनेन ५ ३ आवभ्रत्परिवेष- ३२
५ अनुभवतु चिराय २८ ७ आ ब्रह्मावधि २
२ अनेकधा यः किल- २० ६ आरुह्यैताः शिखरि- ६७
७ अन्तः केवल ३९ ६ आवासाः कुसुमा- ६१
७ अपसरति न चक्षुषो ४९ ५ आविर्भूतविषा- १६
६ अपसृताम्बुतरङ्गि- ७४ ५ आसीद्विपण्डित- ३१
५ अपहस्तितान्तराया- ५६ ७ आसेतोः कपिकी- ३
१ अप्रगल्भाः पदन्यासे ६ ४ आस्यश्रीः संनिमे- १६
३ अपि रेणुकृतक्रीडं २७ ५ आहूतोदीच्यभूपेन २४
१ अब्जश्रीसुभगं ५३ ५ आह्लादयन्ति मृदवो ६८
५ अभिलषति नाल- ७ २ आह्लादयन्ति सौम्याम्बः २४
३ आमन्दानन्दनिष्यन्द- २५ ७ इतश्चन्द्रः सान्द्रा- ३२
६ अयं हि प्रथमो रागः ४६ २ इति जनितमुदिन्दोः ३९
२ नलचम्पूस्थश्लोकानां
उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या
६ इति विविधमुदञ्च- ४७ | ४ एताः प्राप्य परोपकार- २१
७ इति विविधवितर्कां- ५० | ४ एताः सान्द्रद्रुमतल- ४
७ इतो मकरकेतनः ३३ | ६ एतास्ताः परिपक्व- ७१
१ इत्थं काव्यकथा १५ | २ एषा मे हृदयं जीव २१
४ इदं गोदावर्या- २५ | ५ एषा सा विन्ध्यमध्य- ३५
४ इदं मन्दाकिन्या २४ | ४ कंदर्पस्य जगज्जैत्र- ६
३ इदं राज्यमियं १३ | ५ कः करोति गुणवा- १४
१ इन्दोः सौन्दर्य- ५७ | ६ कदा किल भविष्य- २१
५ इक्षा क्रतून्युग- ५४ | ७ कन्यामन्याऽनुरक्तां २६
२ इह कवलितकन्दं ११ | ५ कर्णमूलविषये ६२
५ इह चरति चकोरः ७३ | ७ कर्णान्तकृष्टवलयी- ४०
२ इह पुनरनिशं १२ | १ कर्णान्तविभ्रमभ्रान्त- १३
६ इह भवतु निवासः ७३ | ५ कर्पूराम्बुनिषेक- २१
७ ईषन्निःसृतकुन्द- २४ | ७ का नाम तत्र चिन्ता ७
४ उचितमुचित- २२ | ६ कालमिव कलाबहुलं ३७
६ उच्चैः कुम्भः कपिश- ६० | १ काव्यस्याग्रफलस्येव १७
७ उच्चैः शाखाप्रसंलग्ना ४७ | २ किं कर्पूरकणाः ३८
६ उज्ज्वलसुवर्णपदक ४१ | १ किं कवेस्तेन काव्येन ५
५ उड्डीय वाञ्छितं ४ | ७ किंचित्कम्पितपाणि ३७
६ उत्कम्पाङ्गलितां- ६९ | ४ किं तेन जातु जातेन १९
१ उत्फुल्लगल्लै- २३ | ७ किंनरवदनविनि- ३५
६ उदयगिरिगतायां १ | १ किं लक्ष्मीः स्वयमागता- ५६
१ उदात्तनायकोपेता २५ | १ किं स्यादञ्जनपर्वतः ४४
५ उन्मादिनी मद- १० | ४ किमपि परिजनेन ३३
५ उन्मादि यौवन- ६५ | १ किमश्वः पार्श्वेषु ४९
३ उपकर्तुं प्रियं वक्तुं १४ | ५ किमु कुवलयनेत्राः ५०
५ उपनदि पुलिने ६९ | ७ कुन्दे सुन्दरी ९
६ उपनयति करे ५९ | ५ कुररभरसहं ४०
६ उपरम रमणीया- ५४ | ५ कुरुते नालकव- ६
४ उपरि परिम्लानैः २३ | ६ कूजत्क्रौञ्चं चटुल- २५
२ एकान्ते सेवते योगं १८ | ५ कृतक्रीडाः क्रोडै- ४८
५ एतस्याः करिकुम्भ- ५९ | ३ कुलातिथ्यक्रियां १०
६ एतस्याः सलिलाव- १६ | ५ केनापि व्यवहारेण १३
अकाराद्यनुक्रमणिका. ३
उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या
७ कैलासायितमद्रिभिः २८ | ४ तदेत्पुण्यानां २६
४ कोष्णं किं नु निपिच्यते ९ | ४ तद्वार्तामृतपानार्थि- २
५ क्वचिच्चटुल- ४४ | ५ तया दत्ता मया नीता १३
५ क्वचित्प्रवरगैरिका ४३ | ६ तव सुभग रम्यदशया ४०
५ क्वचिदपि कार्यारम्भे ५५ | ६ तव सुहृदपभुक्त- १२
२ क्षुभ्यत्क्षीरसमुद्र- ३४ | १ तस्मिन्स्मितमुखे ५९
६ गीतेर्ग्रामाः किल द्वित्राः ५२ | १ तस्य विषयस्य मध्ये २९
२ गौरवं गौरवंशस्य १० | २ तस्याः कान्तिनिरुद्ध- ३०
५ ग्रीवालम्बित- ५८ | २ ता एव निर्वृतिस्थान- २६
६ चक्रधरं विषमाक्षं ३२ | ५ तात तावन्ममा- ३
१ चार्वा सदा सदाचार ३३ | ३ तास्तास्तं ज्ञपयामासु- २०
५ चिरविरचितचाटु- ७२ | ३ तुभ्यं नमो नमलोक- १
१ जननीति मुदित- ३० | १ तेषां वंशे विशद- १९
२ जनयति जलवृद्धिं ९ | १ तैस्तैरात्मगुणै- २०
१ जयति गिरिसुतायाः १ | १ त्रिदिवपुरसमृद्धि- ३२
६ जयति जगदेकचक्षु- ३१ | ६ त्वत्तो भयेन १३
१ जयति मधुसहायः २ | ६ त्वद्देशागतमारुतेन २३
६ जयत्यखिललोक- ८ | ६ त्वद्देशागतवायसाय २२
६ जयत्यमरसारथि- ९ | ७ दग्धो विधिविंधत्ते २१
६ जयत्यमलकौस्तुभ- ५ | ३ दत्त्वार्घमर्हणीयाय ९
६ जयत्यमलभावना- ११ | ७ दरमुकुलितनेत्र- ४२
३ जयत्यम्भोजिनीखण्ड- ५ | ४ दिशः प्रसेदुः २८
६ जयत्यम्भोजिनीबन्धु- ३ | ५ दिशि दिशि किमि- ३३
६ जयत्यसमसाहसः १० | ५ दिष्ट्या दिवौकसां ५३
६ जयत्यसुरसुन्दरी- ७ | ३ दूराभोगभरेण ३४
६ जयत्युदधिनिर्गत- ४ | २ देवो दक्षिणदिक्मुखस्य २९
६ जयत्युदरनिःसर- ६ | १ देशः पुण्यतमोदेशः २८
१ जाताकस्मिकविस्मयैः ४८ | २ देशानां दक्षिणो देश- २८
५ जातिर्यत्र न तत्र ५७ | २ देशो भवेत्कस्य न २७
१ जानन्ति हि गुणा- १८ | २ धन्याः शरदि सेवन्ते १
३ तत्तस्याः कमनी- ३१ | ७ धन्या काप्युपराधिता- ३६
४ ततातस्य कृतादरस्य ३१ | १ धन्यास्ते दिवसाः ३४
४ तथा सद्य यथा तात १७ | ५ धीरं रञ्जत- २९
२०
४ नलचम्पूस्थश्लोकानां·
| उच्छ्वासः | मूलानि | श्लोकसंख्या | उच्छ्वासः | मूलानि | श्लोकसंख्या |
|---|---|---|---|---|---|
| १ | धुतकदम्ब- | ४३ | ३ | प्रभासंयोगिविख्यात- | २४ |
| ६ | धुतरजनि- | ५६ | १ | प्रसन्नाः कान्तिहारिण्यो | ४ |
| १ | नक्षत्रभूः क्षत्र- | ३७ | ६ | प्रसरति रणरणकरसः | ४३ |
| ७ | न गम्यो मन्त्राणां | १७ | ५ | प्रसृतकमलगन्धं | ८ |
| ३ | न तत्काव्यं न तद्भाष्यं | २८ | ७ | प्रस्तुतस्य विरोधेन | ४६ |
| ५ | नद्यास्तीरे विदर्भाया | २७ | ४ | प्रायः सैव भवे- | १ |
| २ | गमिताः फलभारेण | २ | २ | प्रावृषं शरदं | ३ |
| ६ | नलोऽपि मां | १९ | ६ | प्रियविरहविषा- | ४५ |
| १ | नास्ति सा नगरी यत्र | २६ | ५ | प्रेमप्रपञ्च | ११ |
| ५ | निजप्रियमुखभ्रान्त्या | ६० | ५ | वक्रकृतनिनदं | ४१ |
| २ | नित्यमुद्वहते | ३३ | २ | वाणकरवीरदमनक- | १७ |
| ६ | निपतति किल | २० | ५ | बालोन्मील- | ३९ |
| १ | निर्मोसं मुखम- | ४७ | ४ | विभर्ति यो ह्यर्जुन- | १८ |
| ४ | निर्माय स्वयमेव | ७ | ४ | विभ्रते हरिणीं | ३२ |
| १ | निश्चितं ससुरः | १० | १ | ब्रह्मण्योऽपि | ४९ |
| १ | नीरं नीरजनिर्मुक्तं | ४२ | १ | भङ्गश्लेषकथाबन्धं | २२ |
| २ | नीरञ्जनपदे | २९ | ६ | भजत वलसमूहाः | ७५ |
| ६ | नृप चलसि | ६८ | ५ | भवति यदि सहस्रं | १ |
| ७ | नोद्याने न तरङ्गिणी | १६ | ७ | भवति हृदयहारी | ४७ |
| १ | नो नेत्राञ्जलिना | ६२ | १ | भवन्ति फाल्गुने | २७ |
| २ | पटलमलिकुलाना- | ४ | ६ | भानोः सुता | १५ |
| ५ | पद्मान्यातपवारणानि | ७२ | १ | भिन्दन्कन्द- | ४५ |
| ७ | परिम्लानच्छाया | २५ | ७ | मुक्तान्ते धृत- | १३ |
| ३ | परिहरति वयो | २९ | ५ | भूपालामन्त्रणे | २२ |
| १ | पर्णैः कर्णपुटायितै- | ४१ | १ | भूमयो बहिरन्त- | ३१ |
| ६ | पर्वतभेदि पवित्रं | २९ | ३ | भोगान्भो गङ्गवीची- | २२ |
| ५ | पश्यैताः करिकुम्भ- | ३८ | ५ | भ्रमकरं | ६३ |
| २ | पाण्डुपङ्कजसंलीन- | १४ | २ | भ्राम्यद्विरेफाणि | ५ |
| ६ | पीनोन्नमद्धन- | ६४ | ६ | भ्राम्यद्भृङ्गभरा- | ६२ |
| १ | पुनरपि तदभिज्ञा- | ६४ | ५ | मज्जत्कुञ्जर- | ३६ |
| ५ | पूर्वापरपयोराशि- | ३० | ४ | मण्डलीकृतकोदण्डः | ३ |
| ५ | पूर्वाधं विहितोदया | ७४ | ७ | मदनमतियुवानं | २७ |
| ७ | पौष्पाः पञ्चशराः | १८ | ५ | मध्यं त्रिवली | ५७ |
अकाराद्यनुक्रमणिका. ५
उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या
५ मन्दं मन्दरमन्दिरेषु ३२ | ६ लब्धार्धचन्द्र ईशः ३८
५ मन्दायते दिनमिदं ६४ | ३ ललाटपट्टविन्यस्त ११
६ महावराहाङ्गविनि- ३० | ७ लावण्यपुण्यपरमाणु २२
५ माद्यद्दन्तिकपोल ३४ | ३ लावण्यातिशयः ३३
५ माद्यन्मांसलतुङ्ग- २५ | ७ लावण्यामृत- ४३
६ माल्यं मूर्धनि ७० | ५ लास्यं पांसुकणायते २०
१ मित्रं च मन्त्री च ३८ | ५ लिप्तेवामृतपङ्केन १९
२ मुक्तादाममनोरथेन ३७ | ४ लीलया मण्डलीकृत्य ३०
६ मुक्तास्रैः श्रूयमाणं २७ | ७ लीलाताण्डवितभ्रुवोः ४१
३ मुग्धस्निग्ध- ६ | ३ वररजनीकरकान्ते १९
२ मुग्धा दुग्धधिया ३६ | २ वरसहकारकरञ्जक- १६
३ मुञ्चन्त्याः शिशुतां ३० | ६ वर्धमानोल्लसद्रागा ४८
५ मुहुरधिवसतां ४२ | १ वल्लीवल्कपिनद्ध- ५२
६ मृगेषु मैत्री २८ | २ वहति नवविकाशो- १३
६ मृदुकरपरिरम्भा- ५८ | १ वाचः काठिन्यमायान्ति १६
७ यं श्रुत्वैव मनोभवा- १० | ५ वायुस्कन्धमवष्टभ्य ४५
६ यत्र न फलिता- ६३ | ३ वासरश्रीमहावल्ली- ४
३ यथा चित्तं तथा १५ | ५ विक्लयति कला- ६६
५ यथेयमाकृति- २६ | ७ विगलितविलास- २३
३ यथावदादर्शं १७ | ६ विचित्राः पन्नाली २४
६ यन्नेतस्याः सकृदपि १७ | ६ विपिनोद्देशं सरसं ३४
४ याः स्कन्दस्य जगाद २७ | ३ विभो विभूतिसंपन्न २
६ यात्यस्ताचलमन्ध- २ | ३ वियति विशद- १८
१ ये कुन्दद्युतयः ३५ | ५ विरचितपरिवेषाः ५२
५ रक्तेनाक्तं विनि- ७६ | ३ विवेकः सह संपत्त्या १६
७ रङ्गत्वङ्गे कुरङ्गाक्ष्या ४५ | ५ विश्राम्यन्ति न ५
५ रजनिमवनिनाथः ७७ | ५ विश्लेषाकुलचक्र- ७५
४ रसे रसायने १४ | ५ वीचीनां निचयाः ४९
२ राजते राजतेनायं ८ | ६ वीरपुरुषं तदेत- ६६
२ राजनराजीवपत्राक्ष २६ | ६ वेदविद्योपमा देवी ५३
२ रूपसंपन्नमग्राम्यं २२ | ६ वेधा वेदनयाश्लिष्टो १४
१ रोहणं सूक्तरत्नानां ८ | १ व्यासः क्ष्माभृतां १२
७ लक्ष्मीं विश्राणयोः ३४ | ६ शतगुणपरिपाट्या ५५
६ नलचम्पूस्थश्लोकानां.
उच्छ्वासः मूलानि श्लोकसंख्या | उच्छ्वासः मूलानि श्लोकसंख्या
१ शश्वद्भाणद्वितीयेन १४ | ६ सिच्यन्तां राजमार्गाः ७८
५ शिथिलितसकला १५ | ३ सिन्दूरस्पृहया ७
६ शुष्काङ्गी घनचावरुज्याः ५१ | ६ सुगमस्तवास्तु ३३
२ शृङ्गाररसभृङ्गार २५ | ७ सुधापङ्केोपलिप्तेव ३०
२ श्च्योतच्चन्दनचारु- ३५ | ६ सुरसदननिवासं ७७
५ श्च्योतच्चन्द्रमणि- १७ | ७ सुस्थिततेजोराशे- १९
७ षड्रसाः किल वैद्येषु १४ | ६ सैषा चलचन्द्रकि- २६
१ संघता सुरसार्थेन २४ | ७ सोच्छ्वासं मरणं ४५
६ संगीतका लदौत्सुक्या- ५० | २ सोऽयं क्रीडाचलो ७
४ संग्रहं नाकुलीनस्य २० | ४ सोऽयं यस्तेन पान्थेन ८
५ संसाराम्बुनिधौ २ | ४ सोष्णीषमूर्धा १५
६ स एष निषधेश्वरः ३६ | १ सोऽहं हंसयितुं २१
६ सकलविषयवृत्ती ४४ | ७ सौधस्कन्धतलानि ३१
६ सत्काव्यश्चन्दनाई ७९ | ५ स्कन्धशाखान्तरालेषु ४६
१ सदाहंसाकुलं ३६ | १ श्रीमाणिक्यमहाकरः ६१
१ सदूषणापि निर्दोषा ११ | ६ स्थित्वा लदागमन- १८
२ सरलप्रियंगुणाढ्य १५ | ७ स्मरराजराजधानी- २०
५ सरसिजमरुन्दा- ७० | ६ स्मर विहरणवेदीं ७६
३ सर्गव्यापारखिन्नस्य २६ | ६ खःसौन्दर्यविडम्बि ७२
७ सर्वेऽपि पक्षिणो हंसाः २९ | ७ हंहो हंसि चकोरि ८
४ समुद्द्वालाः काले ११ | ३ हरचरणसरोजा- ३५
४ सांश्रुकोन्नतवंशस्य १० | २ हरिति हरिणयूथं ६
१ सा त्वं मन्मथमञ्जरी ६० | ७ हर्षादुत्पुलकं ४८
६ सानूनां सानूनां ६५ | ७ हर्षाद्बाष्पचिते ३८
६ साप्यनेककलोपेता ४९ | १ हृद्योद्यानमरु- ६३
६ सालानकमनालान- ५७ | ५ हृद्योद्यानसर- १८
३ सा समीपस्थितज्येष्ठा २३ |
४
मू० डा.व्य.
माधवनिदानम्—श्रीमन्माधवकरविरचितम्, श्रीमद्विजयक्षित-
श्रीकण्ठदत्ताभ्यां प्रणीतया मधुकोशाख्यव्याख्यया सहितम्. १ ०=
मालतीमाधवनाटकम्—भवभूतिकृतम्, त्रिपुरारिकृत टीकया
नान्यदेवकृत टीकया जगद्धरकृत टीकयाचसहितम् ... २ ०=॥
मालविकाग्निमित्रं नाटकम्—कालिदासकृतम् ... ... ०॥० ०-
मुद्राराक्षसं नाटकम्—विशाखदत्तविरचितं, धुण्डिराजकृत-
टीकया सहितम्. ... ... ... ... ... १॥॥= ०।०
मुहूर्त्त मार्त्तण्डः—मार्तण्डवल्लभभाष्यया व्याख्यया सहितः ... ०॥= ०-
मुहूर्त्तचिन्तामणिः—(पीयूषधाराख्यव्याख्यासहितः ।) ... १॥॥ ०।०
मृच्छकटिकम्—शूद्रककविकृतं, पृथ्वीधरकृतव्याख्यासहितम् १ ०=
मेघदूतकाव्यम्—कालिदासकृतम्. ... ... ... ... ०।= ०-
याज्ञवल्क्यस्मृतिः—(मिताक्षराख्यव्याख्यासहिता.) ... २ ०।०
योगरत्नाकरः—अयं नात्यर्वाचीनो ग्रन्थोऽखिलभिषग्गणमा-
न्योस्ति । अत्र सर्वेषां रोगाणां निदानपूर्विका सविस्तरा
चिकित्सा सप्रमाणा प्रतिपादितास्ति । तथा विविधरसाय-
नकषायासवारिष्टावलेहगुटिकापाकादीनां प्रक्रियाप्रमाणानु-
पानादिप्रपञ्चोपि यथावत्कृतोस्तीत्ययं ग्रंथः सर्वोपयुक्तः स्यात्. २ ०।०
रघुवंशकाव्यम्—कालिदासकृतं, मल्लिनाथकृतया संजीविन्त्या-
ख्यया टीकया सहितं, स्थूलाक्षरम्. ... ... ... १॥ ०=॥
रत्नावलीनाटिका—श्रीहर्षदेवकृता. ... ... ... ०॥० ०-
राक्षसकाव्यम्—(सटीकम्) श्रीकालिदासकृतम्. ... ... ०- ०॥
लक्ष्मीहृदयं नारायणहृदयं च—(कौशेयबद्धम्.) ... ... ०= ०-
लघुयोगवासिष्ठम्—आत्मसुखकृतया वासिष्ठचन्द्रिकाटीकया
सहितम्. ... ... ... ... ... ... ५ ०॥-
लघुधातुरूपसंग्रहः— ... ... ... ... ... ०= ०॥
लौकिकन्यायाञ्जलिः नाम लौकिकन्यायसंग्रहः ... ०।= ०-
लौकिकन्यायाञ्जलिः—द्वितीयो भाग उपरिनिर्दिष्टसदृश एव. ०॥।० ०=
लौकिकन्यायाञ्जलिः—तृतीयो भागः ... ... ... १। ०=
वाल्मीकिरामायणम्—आदिकविश्रीवाल्मीकिमहामुनिप्रणीतं,
रामकृततिलकटीकया सहितम्. ... ... ... ७ ०॥॥=
विक्रमोर्वशीयं नाटकम्—कालिदासकृतं, रङ्गनाथकृतया
प्रकाशिकाटीकया सहितम्.... ... ... ... ०॥।० ०-
विश्वगुणादर्शचम्पूः—श्रीमद्वेङ्कटाध्वरिविरचिता, पदार्थचन्द्रिका-
ख्यव्याख्यासहिता. ... ... ... ... ... १ ०=
विष्णोर्नामसहस्रम्—प्रथमं मूलश्लोकाः, तदधोभागे एकपार्श्वे
मूलश्लोकगतानि नामानि, तत्संमुखद्वितीयपार्श्वे च नामा-
र्थश्लोकाश्च, एवं च १००० नाम्नां सहस्रश्लोकानां निवेशः मू० डा.व्य.
कृतः. तेन च मूलनाम्नामर्थज्ञानं सम्यक्तया स्यात्. ... ०|= ४-
वृत्त रत्नाकरः—केदारभट्टविरचितः (वृत्तरत्नाकरपञ्चिका)
व्याख्यासहित. ... ... ... ... ... १ ४=
वेणीसंहारं नाटकम्—भट्टनारायणप्रणीतं जगद्धरकृतया टी-
कया सहितम्. ... ... ... ... ... ०|||• ४-||.
वैराग्यशतकम्—भर्तृहरिकृतं, महावलोपाह्वकृष्णशास्त्रिकृतया
टीकया सहितम्. ... ... ... ... ... ०|.|| ०||
शार्ङ्गधरसंहिता—अंजननिदानसहिता (मूलमात्रा)... ... ०||= ०=
शिवगीता—लक्ष्मीनरहरिसूनुकृतवालानन्दिनीव्याख्यासहिता।
अस्याः १६ अध्यायाः संति। पद्मपुराणे श्रीरामागस्त्यक-
संवादरूपेणास्या अनुवादोऽत्यंत सुललितोऽध्यात्मबुभुत्सूनां
मनांस्याह्लादयति। अस्य मूल्यं १ रूप्यकपरिमितमासीत्
संप्रति सुव्यवस्थया संमुद्र्यापि केवलं अर्धरूप्यकमेव. ... ०||• ४-
शिशुपालवधं काव्यम्—माघकृतं, मल्लिनाथकृतया सर्वंकषा-
ख्यटीकया सहितम्... ... ... ... ... २ ०|'-
शुक्लयजुर्वेदमाध्यंदिनसंहिता. ... ... ... ... २ ०|'=
शृङ्गारशतकम्—भर्तृहरिकृतं, महावलोपाह्वकृष्णशास्त्रिकृतया
टीकया सहितम्. ... ... ... ... ... ४=|| ०||
श्रीमद्भागवतमूलमात्रम्—कौशेयवद्धम्. ... ... ... १| ४=||
सचूर्णिंकं श्रीमद्भागवतम्—रफ, मूल्यं रु० ५ ग्लेजपत्राणि. ६ १
सत्यहरिश्चंद्रनाटकम्—प्रवन्धशतकर्तृमहाकविरामचन्द्रप्रणीतम्. ०|= ४-
सप्तशती—(चण्डीपाठः), देवीसूक्तं त्रीणि रहस्यानि च इत्येतैः
सहिता कौशेयवद्धा, स्थूलाक्षरा.... ... ... ... ०||= ४=||
सप्तशती—कौशेयपट्टवेष्टिता, मध्यमाक्षरा. ... ... ... ०|'= ४-
सप्तशती—कौशेयेन वद्धा सूक्ष्माक्षरा. ... ... ... ... ०|'- ४-
सप्तशती—बन्धनरहिता, स्थूलाक्षरा. ... ... ... ... ०||• ४=
सप्तशती—पत्रमात्रा, मध्यमाक्षरा. ... ... ... ... ०|•|| ४-
सप्तशती—इयं कवचार्गलाकीलकरहस्यत्रयसंपुटितास्ति । इयं
लघ्वक्षरायामविस्ताराप्यतिमनोहरा कौशेयपट्टवद्धा चिक्रण-
पत्रैर्नूलाभिनवाक्षरैश्चाङ्किता. ... ... ... ... ४=|| ०||
समयोचितपद्यमालिका—प्रासङ्गिकश्लोकचरणान्तःपाति-
श्लोकानां संग्रहः.... ... ... ... ... ०|= ४-
सारस्वतव्याकरणं पूर्वार्धम्—वस्त्रबद्धम्. ... ... ... ०|'- ४-
सारस्वतव्याकरणं पूर्वार्धम्—पत्रमात्रबद्धम्. ... ... ०|'- ०||
६
मू० डा.व्य.
सारस्वतव्याकरणं वृत्तित्रयात्मकम्—इदं पुस्तकं प्रथमं
हस्तलिखितपुस्तकान्येकीकृत्य संशोध्यय च मुद्रितम् ।
केवलं वस्त्रबद्धपुस्तकस्य. ... ... ... ... •॥।• ४=
सारस्वतव्याकरणम्—तिस्रोऽपि वृत्तयः—पत्रमात्रवद्धम् •॥= ४-॥
सारस्वतव्याकरणम्—चन्द्रकीर्तिप्रणीतव्याख्यासहितम् (वृ-
त्तित्रयात्मकम्. ) ... ... ... ... २॥ •।•
सारस्वतव्याकरणम्—चन्द्रकीर्तिव्याख्यासहितम् । पूर्वार्धं. १ ४=
सारस्वतव्याकरणम्—चन्द्रकीर्तिव्याख्यासहितम् । उत्तरार्धं. १॥ •।•
सारस्वतपूर्वपक्षावलिः. ... ... ... ... ४=॥ ४॥
सारावलिः—कल्याणवर्मविरचिता । ... ... ... १। ४=
साहित्यसारम्—अच्युतरायकृतम्—स्वकृतसरसामोदाख्यव्या-
ख्यासहितम् । ... ... ... ... ... ... २॥ •।•
साहित्यदर्पणः—विश्वनाथकविराजप्रणीतः. श्रीरामचरणतर्क-
वागीशभट्टाचार्यकृतया टीकया समेतः. ... ... ... ३ •।•
सिद्धान्तकौमुदी—तत्त्वबोधिनीसमाख्यव्याख्यासंवलिता. ... ४ •॥।•
सुन्दरकाण्डम्—वाल्मीकिरामायणान्तर्गतं मूलमात्रं नित्यपाठ-
योग्यं कौशेयपट्टबद्धम्. ... ... ... ... ... •॥।• ४=
सुभाषितरत्नभाण्डागारम्.... ... ... ... ... ३॥ •।=
सुभाषितत्रिशती—अर्थात् भर्तृहरिशतकत्रयम्-श्रीरामचन्द्रबु-
धेन्द्रविरचितया सहृदयानन्दिन्याख्यया व्याख्यया समेता. •॥।• ४-
स्मृतिकौस्तुभः—श्रीमदनंतदेवभट्टप्रणीतः. ... ... ... २ •।•
हर्षचरितम्—बाणभट्टकृतं, शंकरकृतसंकेतटीकया सहितम्... २ ४=
हितोपदेशः—आङ्ग्लटिप्पणीसहितः. ... ... ... ... १ ४-॥
हिरण्यकेशीयब्रह्मकर्मसमुच्चयः—(विषयाः ३८८) ... २। •।=
तुकाराम जावजी,
निर्णयसागराख्यमुद्रणयन्त्रालयाध्यक्षः, मुंबई.
इस पृष्ठ पर कोई संस्कृत पाठ/सामग्री उपलब्ध नहीं है (यह पुस्तक का आवरण पृष्ठ/कवर है)।