सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पञ्चम उच्छ्वासः । १४९
नलोऽप्येतदाकर्ण्य तदिदं संकटम् 'इतो व्याघ्र इतस्तटी, इतो दवा-
ग्निरितो दस्यवः, इतो दुष्टदन्दशूक इतोऽप्यन्धकूपः' इति न्यायात् । इतः
कर्णान्तैकृष्टशरासनो मर्मप्रहारी प्रहरति मकरध्वज इतश्चायमेतेषामल-
ङ्घनीयै आदेशः । तन्न जानीमः किमत्रोत्तरम् । एकत्रार्थेऽस्माकं भवतां
च प्रवृत्तिरिति प्रणयप्रार्थनाभङ्गकारिणी विहतविनया प्रतिकूलोक्तिः,
अनभिज्ञोऽस्मि दूतोक्तीनामिति शाठ्यम्, असमर्थोऽस्मि संदिग्धक्रिया-
कारितायामित्याज्ञालङ्घनम्, आज्ञालङ्घनं च सेतुबन्धनमिव स्खल-
यति श्रेयःस्रोतः, षण्ढमुखदर्शनमिव वर्धयत्यलक्ष्मीम्, रजस्वलाभिगम-
नमिव हरत्यायुः, इत्यनेकविधमवधार्य 'न नाम दुरधिगमाः केऽपि
पदार्थास्तत्रभवतामशेषजगदीश्वराणाम्, न च न जानीथ ममापि प्र-
सिद्धमध्यवसायम्, एवं स्थितेऽप्येष वः करोम्यादेशम्, आदिष्टपरा-
मर्शो न श्रेयानादेशकारिणः, किं तु बलीयान्परतो विधिः प्रमाणम्'
इत्यभिधाय भक्त्या भयेन च देवानां दौत्यादेशं समर्थितवान् ॥ क ॥
स्थित्वा च कंचित्क्षणमुचितालापलीलया कृत्वा च कांश्चिदन्योन्य-
प्रस्तुतप्रियव्यवहारान्, आपृच्छ्य, यथागतं गतेष्वथ तेषु देवेषु निष्-
षेधेश्वरश्चिरं चिन्तयांचकार ॥ ख ॥
तदिदम्, अनुच्छ्वासविरामं मरणम्, अमोहं मूर्छनम्, अरोगमङ्ग-
व्यथनम्, अशल्यप्रवेशमन्तःशूलम्, अदारिद्र्यो निद्राविघातः ॥ ग ॥
किमन्यत् ।
तस्यामाकर्णितानुरागायां यन्ममाद्य दीर्घदौर्जन्यदोह्रदिना दैवेना-
कस्मिकमौत्सुक्यानुरागव्यवसायं वन्ध्यमध्यवसितं कर्तुम् ॥ घ ॥
इदानीं किमत्र श्रेयो यस्माद्, अनुपयोगं गमनम्, श्लाघ्यं निव-
र्तनम्, अपार्थकमासनम्, असाधीयानध्यवसायः ॥ ङ ॥
इति चिन्ताकुले नले भयान्मूकीभूतेष्वासन्नवर्तिषु परिजनेषु प्रण-
यात्प्रावरणप्रान्तप्रच्छादितवदनभागं किमप्यासन्नमुपसृत्य शनैस्तत्का-
लयोग्यालापैरनुशीलयञ्शीलज्ञः श्रुतशीलो नलमावभाषे ॥ च ॥
नलोऽपीति ॥ न नाम दुरधिगमा इत्यत्र 'नाम' इत्यभ्युपगमे ॥ क ॥
१ 'दावाग्नि'. २ 'कर्णान्ताकृष्ट'. ३ 'अलङ्घनीयादेशः'; 'अलङ्घनीयो निदेशः'.
४ 'आज्ञालङ्घनमिति क्वचित्पुस्तके नास्ति'. ५ 'षण्ढदर्शनमिव'. ६ 'किंचित्'. ७ 'तेषु
निषधेश्वरश्चिरं चिन्त्यां'. ८ 'दौर्गत्य'. ९ 'प्रान्तच्छादित'.

१५० नलचम्पूः ।
'देव, जानामि देवस्य देहं दहति देहन इव दारु दारुणो दौत्यचि-
न्ताभारः । को नाम सामान्योऽपि स्वयमभिलषितेऽर्थे दूतत्वदासभा-
वमङ्गीकुर्यात् । विशेषतोऽनुरागिण्यङ्गनाजने । तथापि किं न जानाति
देवो, यथा याचको ब्राह्मण इव निर्वेदः कस्य संतोषाय, विषवैद्य इव
विषादः संदेहकारी शरीरस्य, भीमाभिमन्यु्निरुद्धं कुरुबलमिव मनो
महान्तं संतापमनुभवति ॥ क ॥
तदलमेन वातूलीभ्रमेणेव मीलयता चक्षुरुद्वेगेन ॥ ख ॥
किं देवेन न श्रुतम्, अमृतमथनावसरे सुरासुरकरपरिवर्त्यमानम-
न्दरमन्थाननिर्घोषबधिरितसमस्तरोदःकंदरादिवापि दूरोच्छलितदुग्ध-
तुषारसारतारकितनभसः, समुत्पन्नानेककौस्तुभादिवस्तुविस्तारादुद्ग-
च्छदप्सरोमुखमण्डलैः क्षणमिव विहितविकचनलिनखण्डशोभाद्,
अनेकाश्चर्यकुक्षेः क्षीरसागरादजनि जनितजगद्विस्मया स्मरजननी
हस्तस्थिततरुणारविन्दा देवी देदीप्यमानपुण्यलक्ष्मा लक्ष्मीः ॥ ग ॥
यस्याः सर्वाङ्गलावण्यमधु विकचलोचनचषकैरापीय पीयूषजुषो
म॑दैंनमदपरवशाः परस्परमेवेष्यन्तश्चक्रुश्चक्रपाणिना समं संगरम् ॥घ॥
अ॑थ सा सर्वानप्यन्तरान्तरापततस्तानुल्लङ्घ्य मन्दरगिरिशिखरशा-
तकुम्भनिकषोपलायितबाहोर्भग॑वतश्चिक्षेप क्षेपीयः कण्ठे वैकुण्ठस्य
स्वयंवरकुसुममा॑लाम् ॥ ङ ॥
एवं साऽपि कदाचिच्चम्पककलिकाकलापगौराङ्गीरागिणी त्वयि
वञ्चयिष्यति देवान् । वञ्चितो यतः पूर्वमात्ममुखमण्डलश्रिया शशी,
तिरस्कृतो मदनः सौभाग्येन् । संकृत्प्रवृत्तायाश्च किमवगुण्ठनेन ।
विधेरिव वामभुवामचिन्त्यानि चरितानि भवन्ति ॥ च ॥
देवेति ॥ निर्वेदः खेदो वेदरहितश्च । विषादोऽतीव शोचनम् यश्च विषं काल-
कूटमादयति । भीमो रौद्रोऽमितो मन्युर्दैन्यं तेन निरुद्धम् । कुरुबलं तु भीमेन
मध्यमपाण्डवेनाभिमन्युना चार्जुनसुतेन निरुद्धम् ॥ क ॥
तदलमिति ॥ उद्वेगो दुःखम् । वातूलीभ्रमस्तु ऊर्ध्वं वेगः ॥ ख ॥
अथ सेति ॥ अतिशयेन क्षिप्रं क्षेपीयः । 'स्थूलदूर-' इत्यादिना सिद्धम् ॥ ङ॥
एवं सापीति ॥ सकृत्प्रवृत्तायाः। स्तोकमपि नर्तितुमारब्धवत्याः किं नीरङ्कथाः
॥ च ॥
१ 'दहनदाहदारुणो'. २ 'दूत्य'. ३ 'तथापि इति कुत्रचिन्नास्ति'. ४ 'विकचनवन-
लिन'. ५ 'मदनपरवशाः'. ६ 'अथामिलपतः सा सर्वा'; 'अथ सा समभिलुपतः
सर्वां'. ७ 'भगवत इति नास्ति'. ८ 'सालिकाम्'. ९ 'असकृत्प्रवृत्तायाश्च'

पञ्चम उच्छ्वासः । १५१
किमु न स्मरति देवो दिविं विश्रुतमर्थसारं स्वर्लोकादवतीर्य पुरा
गीतं गन्धर्वगायनैर्गीतगोष्ठीस्थितस्याग्रे युगलमिदमार्ययोर्देवस्य ॥ क ॥
कचिदपि कार्यारम्भेऽकल्पः कल्याणभाजनं भवति ।
न तु पुनरधिकविषादान्मन्दीकृतपौरुषः पुरुषः ॥ ५५ ॥
अपहस्तितान्तरायानर्थानुररीकृतान्प्रसाधयतः ।
विधिरपि बिभेति तस्मान्निरतिशयं साहसं यस्य ॥ ५६ ॥
एवमनेकधा प्रस्तुतपुराणपुरुषाख्यानप्रपञ्चप्रक्रमेणातिक्रान्ते भूम्नि
दिवसे मङ्गलोद्गार इव वाञ्छितार्थसिद्धेः, तर्जनहुंकार इवान्तरायाणा-
म्, ओंकार इवोत्साहस्मृतेः, पुण्याहध्वनिरिव हृदयप्रसादप्रासादस्य,
पुनर्नवीकृतानुरागस्तम्भोत्तम्भनस्य तस्य नरपतेः शिश्राय श्रुतिं श्रुतशी-
लेन श्रावितमिममेवार्थं समर्थयन्निव मध्याह्नशङ्खध्वनिः ॥ ख ॥
राजा तु तमाकर्ण्य विसर्जितपरिजनस्तत्रैव पुलिनमध्ये मध्याह्नसम-
यसमुचितव्यापारमकरोत् ॥ ग ॥
अनन्तरमतिक्रान्तेषु केषु चिन्मुहूर्तेषु गगनमध्यतलाद्विलम्बमाने
मनाङ्मार्तण्डमण्डले चण्डवात्याहतशुष्कपत्रमिव दण्डप्रान्तप्रचलित-
कुलालचक्रमिव तेन पुरंदरादेशभ्रमेण भ्रान्तमात्मनो मनः क्वाप्येका-
न्तकमनीयनर्मदाप्रदेशदर्शनविनोदेन स्वस्तीकर्तुमिच्छन्निच्छानुकूलक-
तिपयाप्तपरिजनपरिवृतः श्रुतशीलस्कन्धावष्टम्भविहारो विहाय दूरमिव
शिविरसंनिवेशम्, इतस्ततस्तरुणतमालमण्डपमण्डलितमयूरहारिणा
चलचकोरचक्रवाकचक्रवालवलयितेन स्नानागततापसपदपङ्क्तिखर्वि-
तदूर्वाङ्कुरेणापसरतपयःपूरतरङ्गितवालुकेन पुलिनप्रान्तेन प्राचीं दिशम-
यासीत् ॥ घ ॥
तत्र च चटुलचञ्चरीककुलाकुलितविविधवीरुधां तलेषु विचरतोऽस्य ।
रसातलविनिर्गताः पन्नगाङ्गना इव नागमदहारिण्यस्तमालकन्दलीकोम-
लाङ्गयष्टयः श्रोणीभारालसगमनास्त्रिवलीतरङ्गिततनुमध्यलतिकाः, का-
क्वचिदिति ॥ कल्पोऽनिर्विण्णः । तु पुनरिति शब्दौ संभूयवाचकत्वात्पुनर-
र्थमेव द्योतयतः यथापिचेति समुच्चयः ॥ ५५ ॥
तत्र चेति ॥ चटुलालिकुलाकुलितवीरुन्मूलेषु विचरतो नृपतेर्दृष्टिपथमवतीर्णा
किरातकामिन्यश्चिरं चिक्कीडुरिति संबन्धः । कथंभूताः । नागमदेन गजमदजलेन हारि-
१ 'दिवि श्रुत'. २ 'गन्धर्वगीयमानं गीत'; 'गन्धर्वैः समापन्नैः'. ३ 'स्मृतिरिव'.
४ 'तस्येति नास्ति'. ५ 'प्रियाय'. ६ 'ध्वनिरुदियाय'. ७ 'तरङ्गितधवलवालुकेन'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१५२ नलचम्पूः ।
श्रितकण्ठकन्दलावलम्बितमातङ्गमौक्तिकलताः स्फुरन्नक्षत्रवलयाः कृ-
ष्णपक्षरात्रय इव कृतक्रीडाशरीरपरिग्रहाः, काश्चिदुभयश्रवणावसक्त-
दन्तिदन्तपत्रप्रभाधवलितमुखमण्डलाः सुरसरित्सलिलसंवलितकालि-
न्दीजलदेवता इव नर्मदेयामन्त्रिताः, काश्चित्परिधानीकृतरक्तपल्लवास्त-
डि़ल्लतालेखामेखलाश्चलदम्बुवाहपङ्क्तय इव विन्ध्यस्कन्धानुबन्धिन्यः,
काश्चिन्मातङ्गमदमण्डलमिलन्मधुकरकरालिताः सकलनीलोत्पलवन-
लक्ष्म्य इवान्यजलाशयेभ्यो महानदीमवतरन्त्यः, काश्चिल्लोहिताशोकै-
कुसुमस्तबककृतकर्णावतंसोत्तंसास्त्रिपुरपुरंध्रय इव हरशरानलज्वाला-
कुलितशिरसो धूमश्यामलाः सलिलमनुसरन्त्यः, काश्चिल्ललितलीलास्मृ-
गैरनुगम्यमानाः शरीरवत्योऽञ्जनशैलस्थलाधिदेवता इव तीर्थावगाह-
नानुरागिण्यः, काश्चिज्जराजर्जरशबरकञ्चुकिकरावलम्बलीलागामिन्यः
स्फुरदिन्द्रनीलशिलापुत्रिका इवेन्द्रजालिकैः संचार्यमाणाः कृष्णाञ्ज-
निकाकुसुमकान्तयः, काँश्चिच्चिपिटनासाः कुन्दकान्तदन्तपङ्क्तयो मायू-
रपिच्छगुच्छावनद्धकर्बुरकबरीकलापाश्चलद्वलयमुखरकरतलोत्तालता-
लिकारम्भरमणीयरसिकरासकक्रीडानिर्भराः काँदम्बमधुपानघूर्णित-
दृशो दृष्टिप्रथमवतेरुरपराह्णमज्जनागतास्तरुणकिरातकामिन्यः ॥ क ॥
ततश्च ताः सूक्ष्ममुक्ताफलधवलवालुकापुलिनपृष्ठे लब्धपरभागाः
स्वैरं स्वैरमनुच्चचरणचलनक्रमात्केंकारितनूपुररवाकृष्टकलहंसकुलमना-
कुलकलगीततरङ्गासन्नरञ्जितकुरङ्गमनङ्गभावभूयिष्ठमनुभूय तीरविहा-
रसुखम्, अनन्तरमक्रूरजलचरमवेगवहत्सलिलमुत्फुल्लविविधविकसि-
ण्यस्तेनालंकृतत्वात् । पन्नगाङ्गनासु नागानां वासुकिप्रभृतीनां मदं गर्वं हरन्ति मुञ्च-
न्ति कृतक्रीडाशरीरपरिग्रहा मूर्ता रात्रयः सनक्षत्रा इव। मुक्तानां नक्षत्राणि स्त्रीणां
रात्रय उपमानम् । दन्तपत्रप्रभाणां सुरसरित् स्त्रीणां कालिन्द्युपमानम् । रक्तपल्ल-
वानां तडिल्लता स्त्रीणामम्बुवाहपङ्क्तिरुपमा । लोहिताशोककुसुमानां हरशरासन-
ज्वाला स्त्रीणां च श्यामलेन धूम उपमा । कृष्णाञ्जनिका तापिच्छलता ॥ क ॥
ततश्चेति ॥ अम्बुजजातिभिर्जीविता जीवंजीवाः पक्षिविशेषा यत्र । 'शेषा-
१ 'संकलित'; 'संमिलित'. २ 'नर्मदामन्विताः'. ३ 'तडिल्लेखा'; 'तडिल्लववेखा'.
४ 'अशोककुलकुसुम'. ५ 'धूमश्यामलाः'. ६ 'काश्चित्किंचिच्चिपि'. ७ 'मयूर'.
८ 'कादम्बरी'. ९ 'कृष्टहंस'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १५३
ताम्बुजजातिजीवितजीवंजीवकमुक्तकूजितकुररमारसितसारसमुन्मद्-
हासिहंसावतंसमुरःप्रमाणाच्छोदकमतिरमणीयं ह्रदमवातरन् ॥ क ॥
अवतीर्य च ताः काश्चित्पन्नगपतिपुरंध्रय इवोद्गीर्णविषगण्डूषाः,
काश्चिद्राक्षसप्रमदा इव रक्तोत्पलाकृष्टिपिश्यसनिन्यः, काश्चिद्गोपालाङ्गना
इव गृहीतपुण्डरीकाक्षाः, काश्चित्कार्तिकेयशरपङ्क्तय इव विश्लेषितक्रौ-
ञ्चाः, काश्चित्कुरुसेना इव धार्तराष्ट्रशकुनिमार्गेणानुधावमानाः, काश्चि-
द्रात्रय इव विघटितचक्रवाकमिथुनाः, काश्चिच्चकोराङ्गना इव चञ्चूकृ-
तदीर्घकमलनालैः शशधरकरनिर्मलजलमास्वादयन्त्यः, काश्चित्करिण्य
इव सरसविसाग्राणि प्रसमानाः काश्चिज्जलयन्त्रपुत्रिका इव संपुटित-
मुखपाणिपल्लवयुगलाग्ररन्ध्रोन्मुक्तसूक्ष्मवारिधाराः, काश्चिद्भीरुनार्य इव
प्रियवारितरणाः, स्तनगण्डशैलशिखरास्फालनोल्लसत्तरङ्गान्तरतरत्तरु-
णतामरसरससुरभिसलिलमवगाहमानाश्चिरं चिक्रीडुः ॥ ख ॥
अवनिपतिरपि विस्मयविस्मृतनिमेषोन्मेषनयनस्ताश्चिरमवलोक्यं
चिन्तयांचकार ॥ ग ॥
'जातिर्यत्र न तत्र रूपरचना नेत्रोत्सवारम्भिणी
रूपश्रीरपि यत्र तत्र सुलभः श्लाघ्यो न जन्मोदयः ।
इत्येकस्थसमस्तसुन्दरगुणप्रद्वेषमभ्यस्यतो
धातस्तात वृथाश्रमस्य भवतः सृष्टिकमो दह्यताम् ॥ ५७ ॥
द्विभाषा' इति कप् । अम्बुजजातिरेव जीवितं येषामिति वा । अतिप्रियत्वात् ।
उरःप्रमाणं वक्षोदघ्नमुदकं यत्र । अगाधे हि पयसि न जलक्रीडा ॥ क ॥
अवतीर्येति ॥ विषं जलं, गरञ्च । पक्षोत्पलं रक्ताब्जं, रक्तेनोत्कृष्टं पलं
मांसं च। गृहीतपुण्डरीके अवलोकितसिताम्बुजे अक्षिणी यासाम्। चक्षुषो हि ग्रहण-
मवलोकनमेव । यथा श्रोत्रपानमाकर्णनम् । अथवा शैल्यान्नेत्रन्यस्ताब्जाँः । अन्यत्र
पुण्डरीकाक्षः कृष्णः क्रौञ्चः पक्षी गिरिश्च । धृतराष्ट्रो दुर्योधनस्य पिता, शकुनिर्मा-
तुलः। पक्षे धृतराष्ट्रो हंसः । यद्विश्वः—'धृतराष्ट्रः सुराज्ञि स्यात्पक्षिक्षत्रियभेद-
योः' । शकुनिः पक्षी । अचञ्चूनि चञ्चूनि कृतानि चञ्चूकृतानि । अन्यत्र चञ्च्वां
कृतानि धृतानि यानि दीर्घकमलनालानि तैः शशधरकरनिकरवन्निर्मलं जलम् ।
अन्यत्र किरणनिकर एव निर्मलजलम् । चकोर्यो हि चन्द्रकरान्पिवन्ति । प्रियं
वारिणो जलस्य तरणं यासाम् । अन्यत्र वारितो निषिद्धो रणो यकाभिः । ता
वारितरणाः, प्रियाणं वारितरणाः प्रियवारितरणाः ॥ ख ॥

  • यद्वा गृहीत आत्तः पुण्डरीकाणामक्षो बीजकोशो याभिस्ता इति बृहट्टीका ॥
    १ 'नागपति', २ 'गोपाङ्गना इव'. ३ 'धृतराष्ट्र'. ४ 'पुत्तिकाः'. ५ 'लोक्य चिरं'.
    CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१५४ नलचम्पूः ।
तथाहि ।
ग्रीवालम्बितपद्मनाललतिकाः कर्णावतंसीकृत-
प्रत्यग्रोन्मिषितासितोत्पलदलैः संदिग्धनेत्रद्वयाः ।
कस्यैता जलदेवता इव कुचप्राग्भारभुंग्रोर्मयः
स्नानासक्तपुलिन्दराजवनिताः कुर्वन्ति नोत्कं मनः ॥ ५८ ॥
अपि च ।
एतस्याः करिकुम्भसंनिभकुचप्राग्भारपृष्ठे लुठ-
द्दुग्धाभगजेन्द्रमौक्तिकसरश्रेणीमनोहारिणि ।
दूरादेत्य तरङ्ग एष पतितो वेगाद्विलीनः कथं
को वान्य‍ोऽपि विलीयते न सरसः सीमन्तिनीसंगमे ॥५९॥
इयं तु
निजप्रियमुखभ्रान्त्या हर्षेणाचुम्बदम्बुजम् ।
दष्टाधरा तु भृङ्गेण सीत्कारमकरोन्मृदु ॥ ६० ॥
अनयापि
अविरतमिदमम्भः स्वेच्छयोच्छालयन्त्या
विकचकमलकान्तोत्तानहस्तद्वयेन ।
परिकलित इवार्घः कामबाणातिथिभ्यः
सलिलमिव वितीर्णं बाल्यलीलासुखाय ॥ ६१ ॥
अस्याश्च
कर्णमूलविषये मृदु गुञ्जन्पाणिपल्लवहतोऽपि हठेन ।
एष षट्पदयुवा हरिणाक्ष्याश्चुम्बति प्रिय इवास्यसरोजम् ॥६२॥
इतोऽप्येषा
भ्रमकरं मकरं मकरन्दिनीं
कमलिनीमलिनीमलिनीकृताम् ।
तरलयन्तमवेक्ष्य महाभया-
दुदतरत्सरितस्त्वरितैः पदैः ॥ ६३ ॥

एतस्या इति ॥ मौक्तिकसरो मुक्तादाम ॥ ५९ ॥
भ्रमकरमिति ॥ मकरन्दोऽस्त्यस्यां मकरन्दिनीम् । तथा अलिनीभिर्भृङ्गी-
भिर्मलिनीकृतां कमलिनीं तरलयन्तं क्षिपन्तं भ्रमकरमावर्तकरं मकरं यादोवि-

१ 'भग्नो' । २ 'बाल' ।

पञ्चम उच्छ्वासः । १५५
एताश्च
मन्दायते दिनमिदं मदनोऽपि सज्ज-
स्तत्किं न गच्छत गृहानिति पद्मिनीभिः ।
मीलत्सरोजगतभृङ्गरुतैरिवोक्ताः
स्नात्वा शनैरनुसरन्ति तटं तरुण्यः' ॥ ६४ ॥
एवमनेकविधविलासासक्तशबरसुन्दरीदर्शनाह्लादपुलकिते विवि-
धवितर्ककारिणि पङ्कनिमग्नरजत्करेणुकायमाननिःस्पन्ददृशि तत्काल-
मुत्पन्नया मनाङ्जन्मथव्यथया धीरतया च स्पृहया च विचिकित्स-
या च जिघृक्षया च जिहासया च समकालमाकुलितहृदये संकीर्ण-
भावभाजि राजनि, राजीववनविराजिते तस्मिन्नर्मदाह्रदे सलिलक्रीडा-
सुखमतिचिरमनुभूय तीरभुवि सेव्यसितसैकतस्थलीमलं कुर्वाणासु च
तासु शवरराजसुन्दरीषु श्रुतशीलश्चिन्तितवान् ॥ क ॥
'उन्मादि यौवनमिदं शवराङ्गनानां
देवोऽप्ययं नववयाः कमनीयकान्तिः ।
रेवातटं चलचकोरमयूरहारि
किं स्यान्न वेद्मि जयिनी च मनोभवाज्ञा ॥ ६५ ॥
तथाहि ।
विकलयति कलाकुशलं, हसति शुचिं, पण्डितं विडम्बयति ।
अधरयति धीरपुरुषं, क्षणेन मकरध्वजो देवः ॥ ६६ ॥
अपि च ।
मध्ये त्रिवलीत्रिपथे पीवरकुचचत्वरे च चपलदृशाम् ।
छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ॥ ६७ ॥
तद्वस्तु प्रस्तुतसानुनयेनैव प्रभूणां मतयो निवर्त्यन्ते निषिद्धनिषे-
वणात्, न प्रतिकूलतया' इत्यवधारयन्नवनिपेन्तिमवादीत् ॥ ख ॥
शेषं विलोक्य यदुत्पन्नं महाभयं तस्मात्त्वरितैरुत्तालैः पादक्रमैरसौ शबरसुन्दरी
सरित उत्तीर्णा ॥ ६३ ॥
विकलयतीति ॥ अधरयति विधुरयतीत्यर्थः ॥ ६६ ॥
तदस्त्विति ॥ निषिद्धस्य निषेवणं सेवनमाग्रहस्तस्मात्सकाशात् प्रभूणां
मतयः प्रकृतरसानुमत्तैव व्यावयंन्ते, न प्रतिकूलतया हठात् निषिद्धस्यानभि-
जातसंगमादेराग्रहं कुर्वाणः प्रभुः सहायसंपदानुजीविना निवार्यः । परं तदभि-
१ 'मत्तिभुवि', २ 'मध्यत्रिव', ३ 'अवन्तिपाल'.

१५६ नलचम्पूः ।
'देव, रमणीयः खल्वयं प्रदेशः ॥ क ॥
तथाह्यत्र
आह्लादयन्ति मृदवो मृदितारविन्द-
निष्पन्दमन्दमकरन्दकणान्किरन्तः ।
एते किरातवनितास्तनशैल¹गण्ड-
संघट्टजर्जररुचः सरितः समीराः ॥ ६८ ॥
एताश्च
उपनदि पुलिने पुलिन्दवध्वः
स्तनपरिणाहविनिर्जितेभकुम्भाः ।
शिथिलितसलिलार्द्रकेशबन्धाः
किमपि मनोभववैभवं वहन्ति ॥ ६९ ॥
इतश्चावलोकयतु देवः ।
सरसिजमकरन्दामोदमत्तालिगीत-
श्रवणसुखनिमीलच्चक्षुषः किंचिदेते ।
अपि दिवसमशेषं निश्चलाङ्गाः कुरङ्गाः
पुलिनभुवि विहाराहारवन्ध्या वसन्ति ॥ ७० ॥
इतोऽपि
पद्मान्यातपवारणानि नलिनीपत्राणि पर्यङ्किका
दोलान्दोलनदोहदोऽपि³ च चलद्वीचीचयैः पूर्यते ।
आहारो बिसपल्लवं⁴, पुलिनभूर्लीलाविहारास्पदं
रेवा²वारिणि राजहंसशिशवस्तिष्ठन्ति धन्याः सुखम् ॥७१॥
इहापि
चिरविरचितचाटुश्चन्द्ररेखायमाणः
प्रथमरसबिसाग्रग्रासलीलार्पणेन ।
इह रमयति हंसीं राजहंसो रिरंसुः
पुलकयति च चञ्चूकोटिकण्डूयनेन ॥ ७२ ॥
मतं प्राक् पुरस्कृत्य दोषं च दर्शयित्वा । सहसा निवार्यमाणो हि पराभवमिव
मन्येत ॥ ख ॥
सरसिजेति ॥ अपिर्भिन्नक्रमे ततोऽशेषमपि दिवसमित्यर्थः ॥ ७० ॥
पद्मानीति ॥ अत्रातपत्रप्रभृतयो राजधर्मा राजहंसशिशुषूद्भावनीयाः ॥७१॥
१ 'स्तनगण्डशैल'. २ 'रवाः'; 'ऱ्याः'; 'जवाः'. ३ 'दोहदोऽपि विचल'. ४ 'पल्लवाः'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

पञ्चम उच्छ्वासः । १५७
अपि च ।
इह चरति चकोरः कोरकं पङ्कजाना-
मिह चलदलिचक्राच्चक्रवाको बिभेति ।
इह रमयति जीवंजीवको जीवितेशा-
मिह वहति विकारं हारि हारीतकोऽपि ॥ ७३ ॥
एवमसौ निषधेश्वरः श्रुतशीलेन प्रज्ञापूर्वमपररमणीयप्रदेशान्तरद-
र्शनव्याजेनान्तरितशवरसुन्दरीदिदृक्षाग्रहो गृहान्प्रति प्रत्यावृत्तः ॥क॥
चिन्तितवांश्च
'कथं नु सा दमयन्ती पुरंदरप्रमुखेषु लोकपालेष्वर्थिषु मया मनु-
ष्यजन्मना लब्धव्येति । निवारयिष्यन्ति च तां खलु दिव्यसंबन्धा-
र्थिनो बान्धवाः । तत्किमिह शरणम्' इति विमुक्तदीर्घनिःसहनिःश्वा-
समसकृच्चिन्तयति राजनि 'राजन्, रामाजनः पद्म इव वारितः सुत-
रां प्रवर्तते । नालमस्य दीर्घमनुरक्तस्य जायतेऽपरागो नाप्यलीकाभिनि-
वेशोऽस्य हीयते । किंचान्यदन्यपरिग्रहवर्तिनीनामपि स्त्रीणामन्यत्रापि
रागाग्रहो भवति । यतः पश्य वरुणप्रतिग्रहेऽपि प्रतीचियं मयि रागि-
णी भविष्यति' इत्येवमिममाश्वासयन्निव भगवान्भानुरुत्तुङ्गतशिख-
इह चरतीति ॥ प्रतिष्टमानभृङ्गवृन्दाच्चक्रवाको बिभेतीति तपस्विनीत्रान्वेति
शेषः । जीवंजीवकः पक्षी जीवितेशां प्रियां रमयतीति संबन्धः ॥ ७३ ॥
कथं नु सेति ॥ इन्द्रादिवरेषु सत्सु मयि विषये कीदृगनुरागः, बन्धवो-
ऽप्येनां दिव्यसंबन्धार्थित्वात्तेष्वेव प्रोत्साहयिष्यन्ति, इति चिन्तयति राज्ञि शनैः क्रमे-
णाम्बरादवतीर्य भगवान्भानुः . पश्चिमामगात् । किं कुर्वन् । इमं नृपमित्यमुना
प्रकारेणाश्वासयन्निव । तमेव प्रकारमाह-अहो राजंस्त्वया चेतसि नैतच्चिन्तनीयम्
यद्दिव्यसंबन्धार्थिनो बन्धव एतां निवारयिष्यन्तीति तदेषास्मत्तो विरहतीति । यतो
रामाजनो वारितो निषिद्धोऽतीव प्रवर्तते । तथाऽस्य स्त्रीजनस्य दीर्घमनुरक्तस्य
बहुकालं सानुरागस्य सतोऽलमप्यर्थे न रागापायः स्यात् । तथास्यालीकोऽप्यभिनि-
वेशो न हीयते । किं पुनर्यादृक्तव्यभिनिवेशः । यथा पद्मोऽब्जं वारितो जला-
त्प्रवर्तते । तथास्य रक्तस्य सतो नालं काण्डं दीर्घमनु सह परागो मकरन्दः स्यात् ।
तथाली भृङ्गी कं जलं तयोरभिनिवेशः प्रवेशः सोऽप्यस्य न हीयते न हीनः स्यात् ।
किं चान्यदुच्यते । स्वीकृतानामपि स्त्रीणां पुरुषान्तरे रागानुबन्धः । यस्मात्संप्र-
१ 'कथं सा दम'. २ 'स्यात्'. ३ 'वरुणपरिग्रहोऽपि'. ४ 'मय्यनुरागिणी'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

१५८ नलचम्पूः ।
राणि करैः पतनभयादिवावलम्बमानः शनैर्गगनतलादवतीर्य प्रतीचीं
दिशमयासीत् ॥ क ॥
अम्बरान्तःप्रसारितकरे रागिणि रक्तया परियुक्ते तु पश्चिमककु-
भाऽम्भोजिनीजीवितेश्वरे ॥ ख ॥
पूर्वाऽहं विहितोदयाहमसकृत्तन्मां विहायाधुना
यस्यामस्तमुपैति तां कथमयं रागी जघन्यामगात् ।
इत्येवं श्लथितांशुके दिनपतौ याते दिशं पश्चिमा-
मीर्ष्यारोषनिषादिनीव तमसा प्राची ककुल्लक्ष्यते ॥ ७४ ॥
विश्लेषाकुलचक्रवाकमिथुनैरुत्पीडमाक्रन्दिते
कारुण्यादिव मीलितासु नलिनीष्वस्तं च मित्रे गते ।
शोकेनेव दिगङ्गनाभिरभितः श्यामायमानैर्मुखै-
र्निःश्वासानलधूमवर्तय इवोद्गीर्णास्तमोराजयः ॥ ७५ ॥
तथाविधे च वेलाव्यतिकरे राज्ञः संध्यावसरमावेदयितुमस्यासन्न-
विहारी हरिलीलाकिंनरमिथुनमिदमगायत्—
‘रक्तेनाक्तं विनिहितमधोवक्त्रमेतत्कपालं
तारामुद्राः किमु कलयता कालकापालिकेन ।
संध्यावध्वाः किमु विलुलिता कौङ्कुमी शुक्तिरेवं
शङ्कां कुर्वञ्जयति जलधावर्धममार्कबिम्बम्’ ॥ ७६ ॥
त्यपि पश्य त्वं वरुणस्वीकृतापि पश्चिमाशा ममापि विषये रागिणी *भविष्यतीति ।
पद्मशब्द उभयलिङ्गः ॥ क ॥
अम्बरान्तरिति ॥ नभोन्तःप्रसारितांशौ रक्ततान्विते रक्तया पश्चिमया
दिशा युक्ते सत्यम्भोजिनीजीवितेश्वरे रवौ प्राच्या चिन्तितम् ॥ ख ॥
तदाह—पूर्वेति ॥ आद्याहम् । तथासकृद्विहितोदयाहं तस्माद्यस्यामस्तमेति
जघन्या च निकृष्टा तामिमां रागी आरक्तः सन् रविर्र्मां विहाय कथमगात् । पश्चि-
मां दिशं गते शिथिलांशावंशुमति विषये य ईर्ष्यारोषोऽसूयाकोपस्तस्माद्विषादिनी
च सती पूर्वा दिक् तमसान्धकारेण लक्ष्यते । अन्यामपि प्रथमां कृतोदयां विहाय
अस्तंकारिणीं निकृष्टां च यदा रागी विलासी याति, तदा तस्मिञ्शिथिलितवाससि
पूर्वा स्त्रीर्ष्याविषादिनी तमसा तमोभावेन प्राप्यते ॥ ७४ ॥
विश्लेषेति ॥ उत्कृष्टा पीडा यत्रेत्युत्पीडमित्याक्रन्दक्रियाविशेषणम् ॥ ७५ ॥
रक्तेनेति ॥ अधस्तादुक्तं यस्य तदधोवक्त्रमधोमुखम् । तथा रक्तेन रुधिरेणाक्तं
लिप्तम् । तत्तथाभूतं कपालं काल एव कापालिकस्तेन तारा नक्षत्राण्येव मुद्रा रुच-
१ 'तां मां'. २ 'लभ्यते'. ३ 'रुत्पक्ष'. ४ 'कुत्रचिन्नास्ति'.

पञ्चम उच्छ्वासः । १५९
अथ क्रमेण गगनमन्दाकिनीतीरतापसैर्विकीर्यमाणेषु¹ संध्यार्घ्याञ्ज-
लिजलविन्दुबुद्बुदेष्विव किंचिदुन्मीलत्सु विरलतरतारास्तवकेषु², वासर-
विरामवादितवाद्येष्वमरसदनेषु, दह्यमानबहलधूपधूममञ्जरीष्विव वि-
यति विहरन्तीषु तनुतिमिरवल्लरीषु, स्वप॑त्पतत्रिकुलकोलाहलेन³ वासार्थि-
श्रान्तागताध्वगस्वागतालापमिव कुर्वाणासु वनराजिषु, अन्यत्र परिभ्र-
मणपरिहारार्थमिव पद्मिनीनां कोशपानमाचरत्सु चञ्चलचञ्चरीकेषु,
रत्युत्सवोत्साहावेशमहामन्त्राक्षरेष्विव श्रूयमाणेषु महोसरित्कूलकुला-⁴
यनिलीनजलकुक्कुटकुहरितेषु, रामायणव्यतिकरेष्विव मन्दोदरीप्रहस्त-
प्रबोधितोत्सिक्तदशाननेषु संध्याप्रदीपेषु जाते जरत्कुम्भकारकुक्कुट-
कुटुम्ब॑पक्षपिच्छविच्छा ये⁵ मनाक्तमोविद्धे संध्यारागे राजा विषाद्-
विस्मृतसंध्याह्निकः परिजनानुबन्धात्संध्यां ववन्दे ॥ क ॥
ततश्च क्रमेण
रजनिमवनिनाथः सांध्यकर्मावसाने
हरचरणसरोजद्वन्द्वसेवां विधाय ।
मृदु कलितविपञ्चीपञ्चमप्रायगीत-
श्रवणसुखविनोदैस्तां स तस्मिन्ननैषीत् ॥ ७७ ॥
इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरो-
जाङ्काया पञ्चम उच्छ्वासः समाप्तः ॥
काष्ठ्यानि हस्तपादादीनामस्थ्याभरणानि कलयता युञ्जानेन किमु न्यस्तम् । किम्बि-
ति वितर्के । किंवा संध्यैव या वधूस्तस्याः संबन्धिनी कौङ्कुमी शुक्तिर्विपरीतमधो-
मुखी लुठिता । एवमित्थं शङ्कामुत्पादयत्समुद्रेऽर्धममार्कबिम्बं जयत्यधुना ॥ ७६॥
अथेति । कोशः कणिका शपथविशेषश्च । वयमन्यत्र न यास्याम इत्यर्थे पद्मि-
नीनां समीपे कोशयानं कुर्वत्सु भृङ्गविलासिषु । क्षामोदरीप्रकृष्टपाणिज्वलिततैल-
सिक्तवर्तिमुखेषु दीपेषु । रामायणसंपर्केषु तु मन्दोदरीनाम्न्या पत्न्या प्रहस्तेन
सेनान्या प्रकर्षेण बोधित उत्सिक्तः उद्रिक्तः सन् दशाननो रावणो येषु तथा-
भूतेषु । कुम्भकारः कुक्कुटः पक्षिविशेषः ॥ क ॥
इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः ।
शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥
इति चण्डपालविरचिते दमयन्तीकथाविवरणे पञ्चम
उच्छ्वासः समाप्तः ॥
१ 'विकीर्णेषु'. २ 'विचलं'. ३ 'स्वपतत्पतत्रि'; 'आपतत्पतत्रि'. ४ 'महेति नास्ति'.
५ 'कुटुम्बपिच्छच्छाये'.

१६० नलचम्पूः ।
षष्ठ उच्छ्वासः ।
अथ द्विजजननिकायकीर्णसंध्याञ्जलिजलैरिव क्षाल्यमाने मनाग्वि-
मलतां व्रजति तिमिरमलिनेऽम्बरे, मालाकारेणेव प्रभातप्रमोद्भेदेनाव-
चीयमानेषु गगनपुष्पवाटिकाकुसुमेष्विव नक्षत्रेषु, निद्रापहारहुङ्कार
इवोत्थिते प्रभातभेरीध्वनौ, नरपतेः प्रबोधनार्थमदूरे वैतालिकः पपाठ
॥ क ॥
उदयगिरिगतायां प्राक्प्रभापाण्डुताया-
मनुसरति निशीथे शृङ्गमस्ताचलस्य ।
जयति किमपि तेजः सांप्रतं व्योममध्ये
सलिलमिव विभिन्नं जाह्नवं यामुनं च ॥ १ ॥
अपिच ।
यात्यस्ताचलमन्धकारपटले जातेऽरुणस्योदये
तापिञ्छच्छदपद्मरागमहसोर्मध्यं ककुब्भागयोः ।
अथ द्विजेति ॥ अथ निशातिवाहनानन्तरम् । अम्बरं व्योम वस्त्रं च । व्यो-
म्नः स्वभावस्वच्छस्यापि मालिन्यक्षालने भाक्ते । वस्त्रपक्षे तिमिरवन्मलिनम् ॥ क ॥
उदयेति ॥ उदयाद्रिगतप्रथमप्रभापाण्डिम्नि निशीथे चान्धकारेऽस्ताचलशृङ्गं
गन्तुं प्रवृत्ते किमपि सर्वोत्कृष्टं तेजो जयति । तत्र कविरुत्प्रेक्षते—सांप्रतमिदानीं
नभोमध्ये जाह्नवं गाङ्गं, यामुनं च कालिन्दीयं, सलिलं विभिन्नं संगतमित्यर्थः ।
व्योम्नि जाह्नव्येवासीत् । यमुनायाः संभेदः सांप्रतमेव । अत एवास्मिन्वृत्ते ‘यमु-
नात्रिविक्रमः’ इति नाम कविरवापत् । तथाच—‘प्राच्याद्विष्णुपदीहेतोरपूर्वोऽयं
त्रिविक्रमः । निर्ममे विमलं व्योम्नि यत्पदं यमुनामति’ । प्रभया पाण्डुता प्रभाकृ-
त उद्योतः प्रकाश इति यावत् । नतु प्रभायाः पाण्डुतेति समासः । उदये प्रभाया
आरक्तत्वात् । प्रकाशस्तु इन्द्रनीलादीनामपि पाण्डुरेव । जाह्नवी देवताधिष्ठात्री
यस्येति देवतार्थेऽण् । अन्यथा शैषिकश्छः स्यात् ॥ १ ॥
यातीति ॥ अस्तगिरिं गच्छति तमःसमूहे पश्चिमायाः कृष्णायाः, संप्रत्तारुणो-
दयायाः पूर्वस्याश्च लोहिताया दिशोर्मध्ये पाण्डु पिञ्जरं श्यामं वा किमपि दुर्लक्षं
मनाक् स्तोकोदयं तेजोऽर्थात्प्रकाशात्मकं वो युष्मान्पातु । प्रकाशारुणोदयतमःशे-
षसमुदायरूपत्वात् पाण्डु पिञ्जरं श्यामं चेत्युक्तम् । तदित्यनेन क्षिप्तं यच्छब्दवा-
च्यमुपमानमाह—अन्तरित्यादि । दिग्भागयोर्विष्णुविरञ्चौ, प्रकाशात्मनश्च तेज-
सो लिङ्गोद्भव उपमानम् । अथवा सत्त्वं पाण्डु तदेव विष्णुः, रजः पिञ्जरं तदेक
१ 'भेरीशङ्खध्वनौ'. २ 'निशान्थे', ३ 'निमग्नम्'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

षष्ठ उच्छ्वासः । १६१
अन्तर्विष्णुविरञ्चयोरिव मनाग्लिङ्गोद्भवभ्रान्तिकृ-
त्तेजः पाण्डुरपिञ्जरं च किमपि श्यामं च तद्वोऽवतात् ॥२॥
अनन्तरमुत्तिष्ठतोत्तिष्ठतानयत गजवाजिंवेगसरीः, संयोजयत शक-
टानि, वेष्टयत पटकुटीः, मुकुलयत मण्डपिकाः, संवृणुत काण्डपटान्,
उन्मूलयत कीलकान्, उद्वहत वेगाद्वहनीयभाण्डम्, भारयत करभ-
कलभान्, उत्क्षिपत क्षीणोक्षकान्, उत्तरत सरितम्, अपसरत पुरतः,
कुरुत संचारसहं मार्गम्, इत्यनेकविधप्रयाणाकुललोककोलाहले समु-
च्छलति, नदत्सु प्रस्थानवादित्रेषु, समुत्थाय नरपतिरावश्यकशौचाव-
साने नर्मदाम्भोभिषेकपूततनुरॆनुवन्द्य सांध्यविधिम्, अधिकृत्य भग-
वन्तमुदयगिरिशिरःशिखरभाजं भास्करम्, इमं श्लोकमपठत् ॥ क ॥
'जयत्यम्भोजिनीबन्धुर्बन्धूकारुणरश्मिकः ।
वैद्रुमो वासरारम्भकुम्भः पल्लववानिव' ॥ ३ ॥
अभ्यर्च्य च पञ्चोपचारैः सुरासुरगुरुं गौरीपतिं तत्प्रियस्य भगवतो
नारायणस्यापि वाञ्छितार्थसिद्धये स्तुतिमकरोत् ॥ ख ॥
'जयत्युदधिनिर्गतस्मरविलोscreen...
'जयत्युदधिनिर्गतस्मरविलोscreenललक्ष्मीर्लस-
द्विलासरसमन्थरस्फुटकटाक्षलक्षीकृतः ।
अमन्दरयमन्दरभ्रमणघृष्टहेमाङ्गदः
सुरारिवधनाटकप्रथमसूत्रधारो हरिः ॥ ४ ॥
स्रष्टा, तमः श्यामं तदेव च हरः, एतत्रयीमयश्च रविरित्यागमिकसमयः । तदु-
क्तम्—'सत्वं शुभ्रं स हरिर्लोहितपीतं रजः स जगत्कर्ता । कृष्णं तु तमः स भवो
भानुश्चैतत्रयीमूर्तिः' । अभिधानकारोऽप्याह—'द्वादशात्मा त्रयीतनुः' । एतेन
पाण्डु तेज इत्युक्ते सत्त्वस्य, पिञ्जरमित्युक्ते रजसः, श्याममित्युक्ते तमः प्रतीति-
रीति । ततश्च तमोन्विताया अपाच्या अरुणाान्वितायाश्च प्राच्या मध्ये मनागीप-
ल्लक्ष्यं किमप्यद्भुतवैभवं तदुत्कृष्टं पाण्डु पिञ्जरं श्यामं च तेजोऽर्थात् सत्वरजस्त-
मस्त्रयीमयं त्रयीतनुलक्षणं वो युष्मानवतु । अमुमेवार्थं सत्वरजस्तमसां संज्ञान्तरेण
विष्णुविरञ्चिलिङ्गोद्भव लक्षणेन द्रढयन्नाह—अन्तरित्यादि । 'पुरा स्वमाहात्म्यार्थं
विवदमानयोर्द्रुहिणनारायणयोः शिवेन स्वस्य लिङ्गोद्भवस्योर्ध्वाधोमानविज्ञानं मह-
त्वहेतुः पण उक्तः' इत्यागमः ॥ २ ॥
अनन्तरमिति ॥ वेगसरी बेसरी । काण्डपटो गुणलयनी ॥ क ॥
जयत्युदेति ॥ सुरारिवधनाटकस्य प्रथमे प्रस्तावनायां सूत्रधारः ॥ ४ ॥
१ 'वेसरी'. २ 'मात्रं'. ३ 'कर्माव'. ४ 'अनुबन्ध्य'. ५ 'तार्थी सिद्धये'. ६ 'बलद्वि'.
७ 'अथमिश्रष्ट'.

१६२ नलचम्पूः ।
जयत्यमलकौस्तुभद्युतिविराजितोरःस्थलः
सहेलहतदानवो नवतमालनीलद्युतिः
विनम्रसुरमस्तकच्युतविकासिपुष्पावली-
विकीर्णमधुसीकरस्नपितपादपीठो हरिः ॥ ५ ॥
जयत्युदरनिःसरद्वरसरोजपीठीपठ-
च्चतुर्मुखमुखावलीविहितरम्यसामस्तुतिः ।
अलब्धमहिमावधिर्मधुवधूविलासान्तकृ-
ज्जगत्त्रितयसंभवो भवभयापहारी हरिः ॥ ६ ॥
जयत्यसुरसुन्दरीनयनवारिसंवर्धित-
प्रतापतरुरुल्लसत्तरुणकेकिण्कण्ठच्छविः ।
दलत्कनककेतकीकुसुमपत्रपीताम्बरः
सुराधिपनमस्कृतः सकललोकनाथो हरिः ॥ ७ ॥
जयत्यखिललोकजिन्नरककालकेतूद्रमो
मदान्धदशकन्धरद्विरददुष्टपञ्चाननः ।
हिरण्यकशिपुप्रियामुखसरोजचन्द्रोदयः
सुरेन्द्ररिपुसिंहिकासुतशिरःकुठारो हरिः ॥ ८ ॥
जयत्यमरसारथिर्मदनतप्तलक्ष्मीलस-
त्पयोधरयुगस्थलीसरसचन्दनस्थासकः ।
अचिन्त्यगुणविस्तरः सकलके²शिकं³साङ्गना-
कपोलफलकोल्लसत्तिलकभङ्गहारी हरिः ॥ ९ ॥
जयत्यसमसाहसः सकललोकशोकान्तकृ-
त्सहस्रकरभासुरस्फुरितचारुचक्रायुधः ।
विहङ्गपतिवाहनः कलुषकन्दनिर्मूलनः
समस्तभुवनावलीभवनशिल्पधोरी हरिः ॥ १० ॥
जयत्यमलभावनावनतलोककल्पद्रुमः
पुरंदरपुरःसरत्रिदशवृन्दचूडामणिः ।
अरातिकुलकन्दलीवनविनाशदावानलः
समस्तमुनिमानसप्रवरराजहंसो हरिः ॥ ११ ॥
जयतीति ॥ नरको भौमासुरः ॥ ८ ॥
जयतीति ॥ अमराणां सारथिर्नेता अग्रणीरिति यावत् ॥ ९ ॥
१ 'विधिः'. २ 'केलि'. ३ 'सिद्ध'. ४ 'कारो'. ५ 'चिन्ता'.

षष्ठ उच्छ्वासः। १६३
एवमभिवन्द्य देवं देवम्, समारुह्य विजयिवारणेन्द्रस्कन्धम्, अग्रतः
प्रधावितानेककरितुरग परिजनः, पुरैः परोधसा निर्वर्तिते महानदीयागे
युगसहस्रपरिवर्तवृत्तान्तसाक्षिणीम्, अनवरततपस्यद्ब्रह्मर्षिप्रतिष्ठितशि-
वलिङ्गरुद्धरोधसम्, अनेकसुरैसुन्दरीसेविततीरसंकेतलतामण्डपाम्,
अनवरतमज्जद्दनगजमदामोदसुरभिततरङ्गाम्, अपरगङ्गाम्, अपरसा-
गरराजमहिषीम्, अपरमार्कण्डेयतपःसिद्धिसखीम्, समुत्तीर्य भगवतीं
मेकलकन्याम्, उत्फुल्लपल्लविताङ्कोल्लसल्लकीसरलसालसर्जार्जुननिम्बक-
दम्बजम्बूस्तम्बोदुम्बरखदिरकरञ्जा'जनाशोकंसौभाञ्जनकप्रायैस्तरु-
भिराकीर्णम्, अभिमतं मतङ्गानाम्, अनुभूतसारं सारङ्गैः, शिशिरतरं
तरङ्गानि लैः, स्वर्गवनसमं समञ्जरीकैर्लताजालकैरुलङ्घय दक्षिणं नर्म-
दातीरैपुण्यारण्यम्, अग्रतो, गगनवीथिमिव सिंहराशिरानितामुत्पतङ्गा-
मुत्थितवृश्चिकामाविर्भूतसार्द्ररोहिणीमूलां च, छन्दोजातिमिव शार्दूल-
विक्रीडितमनोहरां हारिहरिणीमन्दाक्रान्तामनवरतवसन्ततिलकोद्भासि-
तामतिविचित्रचम्पकमालां च, सीतामिव बहुकोटरावणवृतामुत्पन्नकु-
शलवां च, लङ्कामिव संचरद्विगुणपञ्चाननविभीषणां चारुपुष्पकामका-
एवमिति ॥ समुत्तीर्य भगवतीं मेकलकन्याम् । उत्फुल्लेत्यादौ लकारानुप्रासाद्धेतोः
केचित् 'अङ्कोल' इति पठन्ति, तच्च प्राकृते । संस्कृते लङ्कोठ इति । तथा उल्लङ्घय-
दक्षिणभागस्थितं मतङ्गानां गजानामभिमतं नर्मदातीरं पुण्यारण्यम्, अग्रतो
विविधविन्ध्याटवीमवगाहमान इति संबन्धः । कथंभूतां विन्ध्याटवीम् । सिंहराशि-
र्मृगेन्द्रवृन्दं ज्योतिषोक्तः पञ्चमो राशिश्च । तेन राजिताम् । तथा पतङ्गः शलभः
सूर्यश्च । वृश्चिकोऽली अष्टमराशिश्च । पुनः किंभूताम् । आविर्भूता सह .आद्रेण
शृङ्गवेरेण, रोहिणी ओषधिविशेषो, मूलो मूलकश्च यस्याम् । पक्षे आर्द्रा-रोहिणी
मूलानि ताराः । शार्दूलविक्रीडितेन सिंहविलसितेन मनोहरा । तथा हारिणीमिश्रा-
रुभिर्हरिणीभिर्मन्दमाक्रान्ताम् । सर्वदा वसन्तैस्तिलकैश्च तरुविशेषैर्भूषिताम् । तथा
अतिविचित्रा चम्पकानां माला श्रेणी यस्याम् । पक्षे शार्दूलविक्रीडितं हरिणी मन्दा-
क्रान्ता वसन्ततिलका चम्पकमाला च छन्दांसि । तथा बहुभिः कोटरावणैर्वृतां
छन्नाम् । कोटराणां वनमिति कृत्वा 'वनगियोः संज्ञायाम् -' इति सूत्रेण पूर्वपदस्य
दीर्घः । 'वनंपुरगा-' इति सूत्रेण णत्वम् । कुशो दर्भः । लवो लेशः । सीतां तु
बहुकोटेन प्राज्यकौटिल्येन रावणेन रक्षसा प्रार्थिताम् । तथा उत्पन्नौ कुशलवौ
खसुतौ यस्याः । तथा संचरद्भिर्द्विगुणैर्विंरज्जुभिः पञ्चाननैः सिंहैर्विशेषेण भीषणाम् ।
१ 'नन्द्य'. २ 'देवता:'. ३ 'पुरःसरपुरोध'. ४ 'सुरसिद्ध'. ५ 'सालेति नास्ति'.
६ 'अशोकसौभाञ्जनकेति नास्ति'. ७ 'तीरं पुण्या'. ८ 'मत्तमयूराक्रान्ताम्'. ९ 'राव-
णैवृताम्', 'रावणान्विताम्'

१६४ नलचम्पूः ।
ण्डाडम्बरितमेघनादां च, गीतविद्यामिव ततावनद्धघनसुषिरवंशस्वनम-
नोहरामनेकतालबेदां निषादऋषभमध्यमग्रामयुक्तां च, चित्रविद्यामि-
वानेककण्टकपत्रलतास्थानकविषमामृज्वागततापसां च, कलियुगशिव-
शासनस्थितिमिव महाव्रतिकान्तःपातिभिः कालमुखैर्वानरैः संकुलामने-
तथा चारुपुष्पमर्थात् मनोहरसरोजं कं जलं यस्याम् । अतएवानवसरेऽपि आड-
म्बरितो विस्तृतो मेघनादस्तण्डुलीयको यस्याम् । लङ्का तु द्वौ गुणौ येषां पञ्चानां
ते द्विगुणा दशेत्यर्थः । तत्संख्यान्यानानानि यस्य स दशमुखो, विभीषणश्च तन्द्वाता
संचरन्यस्याम् । पुष्पकं विमानम् । मेघनादो रावणात्मजः । गीतविद्यामिवेति ।
तता विस्तीर्णा अवनद्धाः सुश्लिष्टा घनसुषिरा बहुविवरा वंशा वैणवस्तेषां स्वनेन
रम्याम् । तालस्तरुरविशेषाः । निषादाः शवराः । मध्ये भवो मध्यमः । ग्रामः
खेटकम् । पक्षे ततेन तन्त्रीगतेन अवनद्धेन पौष्करेण च घनेन कांस्यकृतेन
सुषिरसंज्ञकवंशस्वनेन च मनोज्ञाम् । यद्यपि 'ततं तन्त्रीगतं ज्ञेयमवनद्धं तु पौष्क-
रम् । घनं कांस्यकृतं प्रोक्तं सुषिरं वांश्यमेव च' इति भरतः । तथाप्यत्रानेकविष-
यत्वाद्दंशस्वनोपादानमसंदेहार्थमुचितमेव । अनेकतालभेदाश्चञ्चत्पुटादयो यस्याम् ।
तथा निषादेन स्वरेण मध्यमसंज्ञकग्रामेण युक्ताम् । चित्रविद्यामिवेति । कण्टकैः सूत्रैः
पत्रैः पर्णैः, लताभिर्वल्लीभिः, शाखाभिर्वा स्थानकैश्चालवालैर्विषमाम् । तथा ऋज-
वोऽकुटिला आगताः स्वापार्थे प्राप्तास्तापसा मुनयो यस्याम् । चित्रविद्यापक्षे क-
लिका-कण्टक-शाखा-त्रिभङ्गि-संज्ञाभिश्चत्वारः पत्रावयवाः । एतैर्मिलित्वा शिशु-
सकल-स्वस्तिक-वर्धमान-सर्वतोभद्राख्याणि पञ्च पत्राणि निष्पद्यन्ते । तदत्र
शाखापर्यायो लताशब्दः । तथा स्थानकानि पार्श्वगत-ऋजु-ऋज्वागत-द्व्यर्धाक्ष-
अर्धऋजु-गमनालीढ-त्वरित-त्रिभङ्गि-संज्ञानि । तैर्विषमाम् । स्थानकशब्देनैव
ऋज्वागतं गतार्थमपि व्यापकत्वात्पृथगुक्तम् । प्रायो हि चित्रे ऋज्वागतमेव लि-
ख्यते । तपसि भवानि तापसानि । मयूरासनोट्रासनादीनि करणानि तापसाह्या-
नि । तत ऋज्वागते तापसानि यस्याम् । यद्वा ऋज्वागतेन तापं स्यतीति केचित् ।
ऋज्वागतेन दुःखहारिणीमित्यर्थः । कलियुगेति । अप्सु रतिरन्नतिः । महती
अत्रतिर्येषां ते महाव्रतिका वृक्षास्तेषामन्तर्मध्ये पतन्त्यभीक्ष्णं तैः कृष्णमुखैर्मर्कटै-
श्छन्नाम् । तथा स्फुटितप्रस्रवणाम् । पक्षे महाव्रतिकाः कापालिकाः । तदन्तःपाति-
भिस्तदन्तर्भूतैः कालमुखैर्वा शैवदर्शनविशिष्टैर्नरैराचिताम् । बहुधा भिन्नप्रवाहाम् ।
स्रोतोऽत्र लक्षणया प्रवाहः । आम्नाय इति यावत् । कृतयुगे ह्येकमेव शिवशास-
नमभूत्, कलौ तु वह्वाम्नायमिति भावः । श्लेषचित्रादिषु ववयोरैक्यम् । तथाहि
'मालामुत्पलकन्दलैः प्रविकचैरायोजितां बिभ्रती वक्रेणाससदृष्टिपातसुभगेनोद्दीपय-
न्ती स्मरम् । काञ्चीदाम नितम्बसङ्गि दधती व्यालम्बिना वाससा मूर्तिः कामरिपोः
सितांशुमधरा पायादुमाया जगत्' । अस्यार्थः-'कामरिपोः शिवस्य मूर्तिः पाया-
१ 'ऋषमेति नास्ति' । २ 'मिच्छ्वागत'

षष्ठ उच्छ्वासः । १६५
कधाभिन्नस्रोतसं च, कापालिकखट्वाङ्गयष्टिमिव समुद्रोपकण्ठलग्नाम्,
मायामिव शम्बराधिष्ठिताम्, मरुभूमिमिव करीरैः केसरिप्रसवैर्संचा-
राम्, अतिचारुचन्दनैः कृतगोरोचनाविशेषकैरक्षतदूर्वावाहिभिरारब्ध-
मङ्गलाचारैरिव तृणस्थलैरलंकृताम्, विविधव्याधां विन्ध्याटवीमवगाह-
मानो मेषवृषमिथुनयुजः सधनुपः सकुम्भकन्यानेकत्रराशीभूतान्गिरि-
ग्रामपामरलोकानालोकयन्, 'इयं गगनवीथीव चित्रशिखण्डिमण्डिता
सरित्तीरभूमिः, इयं सरिदिव बहुतरङ्गोपशोभिता गोष्ठवसतिः, इयं च
नक्षत्रमध्यगतापि न विशाखा तरुपङ्क्तिः, इयं पुष्पवत्यपि न दूषितस्प-
त् । कीदृशी । विगतकेशैरुत्क्रान्तपलशिरोदलैरायोजितां मालां बिभ्रती । तथा
विषमदृष्टिपातसुभगेन वक्रेण स्मरं दहन्ती । तथा नितम्बसङ्गि काञ्चीदामप्रायं व्यालं
सर्पं दधती । तथा वाससा वस्त्रेण विना व्यतिरिक्ता । तथा सितांशुंकं चन्द्रं धर-
तीति । पलं मांसम् । कमित्यव्ययं शिरोऽर्थम् । उमापक्षे व्यालम्बिना लम्बमानेन ।
शेषं सुगमम् । समुद्रस्याम्भोधेरुपकण्ठे कूले लग्नाम् । यष्टिस्तु समुद्रं मुद्रान्वितं
यदुपकण्ठं गलसमीपं तत्र लग्ना । मुद्रा भूषणास्थिग्रन्थि । शम्बरः श्वापदविशेषो
दानवविशेषश्च । शम्बरेण हि विनिर्मिता माया । अतएव शाम्बरीत्युच्यते । मरु-
भूमिमिति । न संचारो गतिर्यस्याम् । केसरिणां सिंहानां प्रसवैः पोतैः । कीदृग्भिः ।
करिणमीरयन्ति तैः । पक्षे करीरैस्तरुविशेषैः । तथा केसरिणः किञ्जल्कोपेताः प्र-
सवाः पुष्पाणि यत्र तथाविधैः । अतिचेति । चन्दनस्तरुस्तद्वत्प्रशस्तः । कृतो गवां रोच-
नाविशेषोऽभिलाषातिशयो यैः । पक्षे गोरोचना गन्धद्रव्यविशेषः । सा चातीव
मङ्गल्या तस्या विशेषस्तिलकम् । अक्षतामलग्नां दूर्वां वहन्त्यभीक्ष्णम् । पक्षेऽक्षतस्त-
ण्डुलादिः । दूर्वेति समानम् । तथा एकस्मिन्स्थाने समूहीकृतनानानगग्रामप्राकृतज-
नानवलोकयन् । कीदृशान् । मेषाणां वृषाणां मिथुनानि युञ्जन्ति धारयन्ति । तथा
सह धनुषा कोदण्डेन सधनुपः । तथा सकुम्भा मङ्गलार्थं मस्तकन्यस्तकलशाः कु-
मार्यो येषु । राशिसमूहो ज्योतिषोक्तो मेषादिश्च मेषवृषभमिथुनकुम्भकन्या राशिविशे-
षसंज्ञाः । मन्त्रिसूनुना श्रुतशीलेन सह 'इयं च गगनवीथ्यादि' 'इमे च केचित्स-
शिखण्डिनः' इत्यादि च विहितविदग्ध्यालापः प्रयाणविच्छेदमकरोत् । यदुक्तं तद्व्या-
ख्यायते । तद्यथा । चित्राश्चित्रवर्णाः शिखण्डिनो मयूराः । पक्षे चित्रशिखण्डिनः
सप्तर्षयः । बहुतरमिति क्रियाविशेषणम् । गोपैर्बल्लवैः शोभिता । सरित्तु बहुभिस्त-
रङ्गैरुपशोभिता । गोष्ठं गोकुलम् । नक्षत्रमध्यं गता । न विगतशाखा च । एतेन
तरूणामुच्चता साभोगता चोक्ता । विशाखा हि नक्षत्रमध्यं न गतेति विरोधसू-
चकोऽपिशब्दः । पुष्पवती कुसुमिता रजस्वला च । न दूषितस्पर्शा मृदुत्वात् । रज-
स्वला त्वस्पृश्येति विरोधः । संनिहितेभ्यो मधुदा क्षौद्रप्रदा । नवा अविच्छिन्ना ।
CC-0 Pt. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

र्शा वीरुत्, इयं संनिहितमधुदानवापि हरिप्रिया वंशजालिः, इयं कृ-
तमातङ्गसङ्गापि न परिहृता द्विजैः सल्लकीसंततिः, इमे च केचित्स-
शिखण्डिनो महाद्रुपदाः, केऽपि विच्छिन्नकीचकवंशा वृकोदराः, के-
चित्सपुण्डरीकाक्षाः पाण्डुसंतानकाः, केऽप्युद्धृतभुवोमहावराहाः, के-
प्युत्कृष्टसुरभिश्रीद्रुमावलिहरिकराकृष्टपन्नगनेत्राः स्फुरन्मणिभित्तयोऽ-
मन्दरागाः, केऽपि सस्थाणवो दुर्गाश्रयाः श्रूयमाणगजवदनचीत्काराः
सगुहाः कैलासकूटायमानाः सेव्याः खल्वमी विन्ध्यस्कन्धसंधिसा-
नवः' इति मन्त्रिसूनुना श्रुतशीलेन सह विहितविदग्धालपः, कयापि
वेलया कमप्यध्वानमतिक्रम्य काप्यापरिमितपतन्निर्झरजलतुषारस्पर्श-
मञ्जरितपादपपुष्पपरिमलमिलन्मधुकरझङ्कारहारिणि रममाणशबरमि-
थुनसंमर्दमृदितामन्दमृदुशाद्वले जलस्थलीप्रदेशे श्रान्तसैनिकानुकम्पया
प्रयाणविच्छेदमकरोत् ॥ क ॥


हरिः सिंहः । या च हरेर्विष्णोः प्रिया वल्लभा सा कथमासन्नमधुसंज्ञकदैत्येति वि-
रोधः । मातङ्गा गजाः श्वपचाश्च । द्विजाः पक्षिणो विप्राश्च । इमे चेति । महत्
द्रुपदं वृक्षस्थानं येषु तथोक्ताः । तथा सह शिखण्डिभिर्मयूरैः । अथ च महाद्रुपदाः
क्षत्रविशेषाः । द्रुपदतनयश्च शिखण्डी । चित्रशिखण्डिमण्डितेत्यनेन पूर्वमटव्यां
मयूरसद्भाव उक्तः । इदानीं विन्ध्यस्कन्धेष्विति न पौनरुक्त्यम् । विच्छिन्नाः पृथ-
ग्भूताः कीचकाः सच्छिद्रा वंशाश्च निश्छिद्रा येषु । वृका अरण्यश्वान उदरे मध्ये
येषु । वृकोदरो भीमोऽपि । स च विशेषेण छिन्नकीचकाख्यराजान्वयः । पाण्डुः
संतानकस्तरुविशेषो येषु । तथा पुण्डरीकैः सिताम्भोजैर्वृक्षैश्च विभीतकैः सह ।
पाण्डोः संताना एव संतानकाः सुताः पाण्डवास्ते तु पुण्डरीकाक्षेण विष्णुना सह
महान्तो वराहा येषु । तथा उत्कर्षेण हृता विस्तारेण रुद्धा भूयैः । महावराहो
विष्णुः । स चोत्क्षिप्तपृथ्वीकः । अमन्दो रागो येभ्यस्तेऽमन्दरागाः । तथा उत्कृ-
ष्टा मनोज्ञाः सुरभयश्चम्पकाः श्रीद्रुमाश्च पिप्पलास्तेषामावलिस्तत्र हरयः कपयस्तै-
राकृष्टानि पन्नगनेत्राणि सर्पाक्षीणि येषु । इत्यमन्दरागले हेतुः । पक्षे मन्दराख्यो-
ऽगोऽद्रिः । तदा उत्कृष्टोद्गता सुरभिः श्रीर्लक्ष्मीर्द्रुमः पारिजातश्च यैः । मन्दरेण
हि सुरभिप्रभृतीन्यम्भोधेरुद्धृतानि । सुरभिर्धेनुः । इह तु प्रस्तावात्कामधेनुः ।
यद्विश्वप्रकाशः—'सुरभिश्चम्पके स्वर्णजातीफलवसन्त्योः । संधौ पले सौरभेय्याम्'
इति । तथा बलेर्दैत्यस्य हरेर्विष्णोश्च करैराकृष्टं आमितं पन्नगो वासुकिलक्षणं नेत्रं
मन्थानमाकर्षणरज्जुर्यत्र । कैलासकूटा इवाचरन्तः । स्थाणुः स्थिरपदार्थः शिवश्च ।
दुर्गा विन्ध्यवासिनी देवी गौरी च । दुर्गे आश्रयो येषामिति वा । तथा आकर्ण्य-


१ 'कैकार'.

तैस्तैश्चिरन्तनवासरव्यापारैरहःशेषसहितामतिवाह्य तामपि निशा-
मनन्तरमुन्मिषत्पक्ष्मपक्षिपाक्षावधूनितपवनैरिवापनीयमानेषु गगनच-
त्चरचर्चाप्रकरपाण्डुपुष्पपुञ्जेकेषु नक्षत्रेषु, स्वविरहोत्पन्नतमःकलङ्क-
लुपितानि मनाङ्कुङ्कुमपङ्कपिञ्जरैः करैः परामृश्य प्रसादयति दिननाथे
दिग्मुखानि, पुनः पूर्वक्रमेण प्रस्थानमकरोत् ॥ क ॥
एवमपसरन्मार्गान्मागान्नीवारीणि वारीणि सहंसनिनदान्नदान् स-
करेणु रेणुस्थलमाच्छादितदिशि खराणि शिखराणि लङ्घयन् सुनीरा-
गान् गिरिगहनग्रामाँस्तपस्विनश्च मानयन्नेकदा नातिदूर इवोत्ककाद्-
म्बकदम्बचुम्ब्यमानाम्बुजराजिरजोरञ्जिताम्भसि सरित्तीरे तरुतलो-
पविष्टमेकमध्वश्रान्तमध्वनीनमिदं चारुश्लोकयुगलमतिमधुरगीततरङ्ग-
रङ्गिताक्षरं गायन्तमद्राक्षीत् ॥ ख ॥
तव सुहृदुपैतुमुक्तश्रीफलः कामकेलिं
जनयति वनितानां कुङ्कुमालोहितानाम्।
श्रयति स च समूहो मेखलाभूषितः सन्
जनयति वनितानां कुंकुमालोऽहितानाम् ॥ १२ ॥

मानो गजानां वदनचीत्कारा बृंहितानि येषु । कैलासे च । गजवदनो हेरम्बः ।
गुहा पाषाणसंधिः । गुहः कार्त्तिकेयः ॥ क ॥
एवमिति ॥ मार्गादीनां लङ्घनादिकं कुर्वन् । अध्वानमलंगाभी इत्यध्वनीनस्तं
चाटु श्लोकयुगं गायन्तमद्राक्षीत् । अपसरतसैन्यभयान्निवर्तमानं मार्गे मृगसमूहो
येभ्यस्तांस्तथोक्तान् । नीवारोऽस्लेष्विति । सह हंसनिनदैः । नदो जलाशयः । सह
करेणुभिर्गजैः । आच्छादिता दिशो यैस्तान्याच्छादितदिशि । खराणि तीक्ष्णानि ।
सुष्ठु नीरं जलमगाश्च तरवो येष्विति । पक्षे सुष्ठु निर्गतरागान् । मानयन्निति मानिरु-
पभोगार्थः पूजार्थश्च । उपभोगे यथा 'मानयिष्यन्ति सिद्धाः सोत्कण्ठानि प्रियसह-
चरीसंभ्रमालिङ्गितानि' ॥ ख ॥
तवेति ॥ तव संबन्धी सुहृन्मित्रजनो भुक्तलक्ष्मीफलः कुङ्कुमेन आ ईषल्लोहि-
तानां वनितानां जनितात्यर्थरागाणां योषितां मन्मथलीलां जनयति । 'वनिता ज-
नितात्यर्थरागयोषित्' इति विश्वप्रकाशः । तथा अहितानां समूहो मेखलाभुवि
गिरिमध्यभुवि उषितः कुमालः कुत्सितत्सक् सन् वैरत्यागात्सज्जनतायाः ब्रह्मचर्या-
दियोगाद्यतिताया वह्निपत्रवसनादिसंबन्धाद्वनितायाः शवरलस्य कुं भूमिकां श्रयति।

१ 'अपीति नास्ति'. २ 'धूनन'. ३ 'पङ्कजेषु'. ४ 'पिञ्जरकरैः'. ५ 'आच्छा-
दितरविकराणि दीर्घतरशिखराणि'. ६ 'सरिति तीरतरु'. ७ 'इमं चाटु'. ८ 'गीततरं
तरङ्गिता'. ९ 'अनु'.

१६८ नलचम्पूः ।
अपि च ।
त्वत्तो भयेन नृप पश्य जनो वनेषु
कान्त्या जितस्मर तिरोहितवानरीणाम् ।
शाखामृगश्चपल एष गिरेरुपत्य-
कां त्याजितः स्मरति रोहितवानरीणाम् ॥ १३ ॥
'अहो नु खल्वयमनल्पशास्त्रीयसंस्कारामृतसंपर्कपल्लवितप्रज्ञाङ्कुरः
कोऽपि कुशलः काव्यवक्रोक्तिषु पथिकयुवा योग्यः संभाषणस्य' इत्य-
वधारयति राजनि ससंभ्रममुत्थाय स्थित्वा च पुरः स पान्थः सप्रणा-
ममिमं श्लोकमपाठीत् ॥ क ॥
'वेधा वेदनयाश्लिष्टो गोविन्दश्च गदाधरः ।
शंभुः शूली विषादी च देव केनोपमीयसे' ॥ १४ ॥
राजा तु तदाकर्ण्य क्षणमात्रमहोपरोधविस्मयहर्षरसैः समकालमाप्ला-
वितमनाः, प्रथममुत्फुल्लया दृशा, ततो मुग्धस्मितार्घ्येण, तदनु सर्वा-
ङ्गीणभूषणप्रदानेन, तमभ्यर्च्य 'पान्थ, कथय केयमुत्तुङ्गकलोलदोला-
स चेति चकारात् सुहृदहितसमूहयोरन्योन्यमयमक्तिपादस्थितविशेषणाभ्यां शब्द-
श्लेषद्वारेण संबन्धः । तथथा, मेखलया कटिपट्टिकया भूषितः सुहृत् अहितसमू-
होऽपि अनुमुक्तविल्वः । अत्र प्रथमतृतीयपादौ विशेषणगतश्लेषेणालंकृतौ द्विती-
यचतुर्थौ तु संपूर्णयमकेन ॥ १२ ॥
त्वत्त इति ॥ नृपेति संबोधनम् । कान्त्या सौन्दर्येण जितस्मरेति तद्विशेषणम्।
पश्येत्याभिमुख्यकरणे । अरीणां जनस्त्वद्भयेन वनेषु तिरोहितवान् । जितस्मरेत्य-
नेन 'स्मरोऽपि किल त्वया जित इति तिरोहितोऽभूत्' इति प्रतीयते स्मृतिगो-
चर एव नतु दृश्यते इत्यन्वर्थात् । तथा एष प्रत्यक्षवर्ती शाखामृगो वानरश्च-
पलो लोलः । अनेनैव वनवासिना रिपुजनेन गिरेरुपत्यकामधोभूमिकां त्याजितो
रोहितवानरीणां मर्कटीनां स्मरति । वानरीणामिति 'अधीगर्थ-' इति सूत्रेण क-
र्मणि षष्ठी ॥ १३ ॥
वेधा इति ॥ वेदनया पीडया आश्लिष्टः संबद्धः । गदेन रोगेण अधरो वि-
धुरः । शूलं रुग्विशेषोऽस्य । अतएव विषादान्वितः । तस्माद्देव केनोपमीयसे
त्वमिति बाह्योऽर्थः । तत्त्वतस्तु वेदानां नयेन मतेनाश्लिष्टः । गदा कौमोदकी ।
अथवा गदो भ्राता सोऽधरोऽनुजो यस्य । शूलमायुधम् । विषमत्तीति विषादी नी-
लकण्ठत्वात् ॥ १४ ॥
राजा त्विति ॥ मृणालवलयानामक्षसूत्रम्, उत्कूजनस्य ब्रह्मयज्ञोद्गारः, राज-
१ 'उभय'. २ 'गदान्वितः'.