सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 8, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 8

( २ )
प्राकृतमञ्जरी—श्रीमत्कात्यायनमुनिप्रणीतप्राकृतसूत्रवृत्तिः । संस्कृतनाटकादि-
प्रबन्धेषु नट्यादिपात्रेषु प्राकृतभाषा प्रयुक्तोपलभ्यते । सा किल मागधी-
शौरसेनी-पैशाचीत्यादिभेदेन षोढा प्रविभक्ता प्राचीनैः प्राकृतभाषाव्याक-
र्तृभिः प्राकृतकल्पलतिकाकारादिभिः । तेष्वन्यतमस्य प्राथमकल्पिकस्य
प्राकृतभाषाभेदस्येयं परिचायिकास्माभिर्भूयसायासेन संपाद्य मुद्रिता.
मूल्यं •।• मार्गव्ययः ०-
भास्करोदया—तर्कसंग्रह-दीपिका-प्रकाश (नीलकण्ठी) संवलितेयमपूर्वा व्याख्या
मुद्रितास्ति । तर्कसंग्रहदीपिकाया यथावदवबोधाय यथा नीलकण्ठ्युपक-
रोति एवमेव नीलकण्ठ्या अप्यवयवशो यथावज्ज्ञानायेयं भास्करोदयातीव
साहाय्यकारिण्यस्ति. मूल्यं •॥॥= मार्गव्ययः ०=
मध्यसिद्धान्तकौमुदी—वरदराजप्रणीता, इदं पुस्तकं विपुलटिप्पण्या-
दिभिरलंकृतं, मध्यकौमुदीगतसूत्राणामकारादिवर्णक्रमकोशसहितं च-
मुद्रितमस्ति. मूल्यं •॥• मार्गव्ययः ०=
साहित्यदर्पणः—विश्वनाथकविराजप्रणीतः, श्रीरामचरणतर्कवागीशभट्टाचार्य-
कृतया टीकया समेतः । साहित्यशास्त्रसर्वस्वभूतोऽयं ग्रन्थः कारिकाव्या-
ख्योदाहृतिभिस्त्रिधा सविस्तरं निरूपितोऽस्ति । अत्र च कारिकाः स्वीया
एव सन्ति । उदाहृतयस्तु परकीयाः स्वीयाश्चाप्यासते । अस्मिन्दश परि-
च्छेदाः (प्रकरणानि) सन्ति । अत्र कविराजः सुकुमारमतिभिरप्यवगन्तुं
शक्यान्विषयान्निवबन्धेति पुस्तकदर्शनसमकालमेव सर्वं स्फुटीभविष्यति ।
मूल्यं ३ रु., मार्गव्ययः •।•
सिद्धान्तकौमुदी (तत्त्वबोधिनीसमाख्यव्याख्यासंवलिता.) इयं चोत्तरकृद-
न्तान्तं श्रीमत्परमहंसपरिव्राजकाचार्यज्ञानेन्द्रसरस्वतीभिर्विरचिता, तत्त्व-
बोधिनीसंवलिता उत्तरत्र स्वरवैदिकीप्रकरणयोस्तु श्रीमज्जयकृष्णविरचि-
ता सुबोधिनी; लिङ्गानुशासनोपरि भैरवटीका च वर्तते । ग्रन्थान्ते च
पाणिनीयशिक्षा, गणपाठः, धातुपाठः, लिङ्गानुशासनं चेति परिशिष्टानि
अकाराद्यनुक्रमेण कौमुदीगताष्टाध्यायीसूत्राणां पृष्ठाङ्कसूची, वार्तिक-गणसूत्र-
परिभाषाणां समुचितसूची, धातूनां पृष्ठाङ्कसूची, उणादिसूत्रसूची फिट्सूत्र-
सूचीति कोशपञ्चकं च संगृहीतम्. मूल्यं ४ रु., मार्गव्ययः •॥॥•
निर्णयसागरमुद्रणयन्त्रालयाध्यक्षः,
काळबादेवी रथ्या, } तुकाराम जावजी.
मुंबई.