नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 7, कुल 258 में से
संदर्भ में पढ़ेंनिर्णयसागरमुद्रितनूतनपुस्तकानि ।
आह्निकचन्द्रिका—( सायनमन्त्रभाष्यसहिता ।)—आचारचन्द्रिकेत्यपरमस्या
एवाभिधानमस्ति । अस्यां यथावकाशं आह्निकान्तर्गताः सर्वे मन्त्राः,
सूक्तानि, सौरसूक्तानि, रुद्राध्यायः, रुद्रसूक्तानि, विष्णुसूक्ता-
नि, देवीसूक्तं, श्रीसूक्तं, गणपतिसूक्तं चेति विषयाः सायनाचा-
र्यभाष्यसंवलिताः, सभाष्यं गणपत्यथर्वशीर्षं च संगृहीतमस्ति.
मूल्यं ०॥।• मार्गव्ययः ४=
ऋक्संहितापदपाठः—( पदानि ) इदं पुस्तकं वेदाध्येतृणामध्यापकानां
वैदिकानां चोपयोगार्थं सम्यक् शुद्धं कारयित्वा वैदिकपाठानुगुणमेवा-
ङ्कितमस्ति. मूल्यं ३ रु., मार्गव्ययः ०।=
कारिकावली—( सिद्धान्तमुक्तावलीसहिता )—नास्त्यविदितमेतत्कृतगीर्वाणभा-
पापरिचयानां विशेषतश्च भारतीयानां यत्किल सकलप्रकरणमौलिभूता
सिद्धान्तमुक्तावलीभासिता कारिकावली न्यायसिद्धान्तं करतलगतमिव
प्रकाशयन्ती गादाधरीजागदीशिप्रभृतितत्त्वचिन्तामणिदीधितिव्याख्या-
ध्ययनयोग्यतामादधात्यध्येतॄणामिति । सेयमस्माभिर्दिनकरीव्याख्यया
पाठांन्संवाद्य विषमस्थलटिप्पणीनिवेशनपुरःसरं प्रकाशिता ।
मूल्यं ०।= मार्गव्ययः ४-
कुवलयानन्दः—( चन्द्रालोक-अलंकारचन्द्रिकासहितः )—अप्पयदीक्षितकृतः
सर्वोलंकारसर्वस्वभूतः । अस्मिन्ग्रन्थकृता सर्वेषामलंकाराणामुदाहरणभूतैर-
तिमधुरपद्यैर्यथावद्विशदीकरणं कृतमस्ति । अन्ते कुवलयानन्दोदाहृतचन्द्रा-
लोकादिगतानां वृत्तानामकारादिवर्णक्रमकोशोऽपि मुद्रितोऽस्ति.
मूल्यं ०॥।= मार्गव्ययः ४=
चम्पूभारतम्—रामचन्द्रबुधेन्द्रविरचितया व्याख्यया समेतम् । अयं प्राचीनो
विद्वन्मान्यो व्युत्पत्तिग्रन्थेषु काव्यनाटकादिषु चूडामणित्वेन वरीवर्ति•
अत्र चाखिलमहाभारततात्पर्यमतिविशदं तत्रतत्र प्रासानुप्रासयमकालंका-
रोल्लसिता काव्यचातुरी तावदपूर्वैव निबद्धास्ति.
मूल्यं २।। रु., मार्गव्ययः ०।•