नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 78, कुल 258 में से
संदर्भ में पढ़ें६० नलचम्पूः ।
यस्य च चर॑णाम्भोजयुगलं विमलीक्रियते नमज्जनेन न मज्ज-
नेन ॥ क ॥
यः शृङ्गारं जनयति नारीणां नारीणाम् ॥ ख ॥
यः करोत्याश्रितस्य नवं धनं न बन्धनम् ॥ ग ॥
यो गुणेषु रज्यते नरमणीनां न रमणीनाम् ॥ घ ॥
यस्य च नमस्याग्रहारेषु श्रूयते नलोपाख्यानं न लोपाख्यानम् ॥
॥ ङ ॥
यस्य च राज्ये साक्षरस्य पुस्त॑कस्य बन्धः, सगुणस्य कार्मु॑कस्यार्क॑-
र्षणम्, सुवंशप्रभवस्य च्छे॑त्रस्य दण्डः, सुजातेरुद्यानविशेष॑स्योत्खनन-
म्, कुलीनस्य क॑न्दस्योन्मूलनारम्भः, सन्मार्गलग्नस्य पुनर्वसुभाज-
श्चन्द्रस्यैव ग्रहणालोकनमभूत् ॥ च ॥
किं बहुना ।
देवो दक्षिणदिङ्मुखस्य तिलकः कर्णाटकान्ताकुच-
क्रीडाशैलमृगः प्र॑तापकदलीकन्दः स किं वर्ण्यते ।
यस्यारातिकरीन्द्रकुम्भरुधिरक्लिन्नासिदंष्ट्राङ्कुरा
शौर्यश्रीर्भुजदण्डमण्डपतले सिंहीव विश्राम्यति ॥ २९ ॥
यस्य चेति ॥ नमता जनेन न क्षालनेन । एतेन जनानुरागसंपत्तिः । एव-
मग्रेऽप्युत्तरपदेषु नञ्संबन्धः ॥ क ॥
यस्य चेति ॥ नलस्योपाख्यानं भारतप्रतीतम् । नमस्यानां पूज्यानां देवद्वि-
जादीनां ग्रामेषु लोपकथा नैव ॥ ङ ॥
यस्य चेति ॥ साक्षरं लिखिताक्षरः अधीताक्षरश्च । गुणो ज्या शौर्यादिश्च ।
आकर्षणं कर्णान्तप्रापणम् आक्षेपश्च । वंशो वेणुरन्वयश्च । दण्डो यष्टिर्दमनं च ।
जातिर्माल्ती विप्रादिश्च । उत्खननं वृक्षपुष्ट्य आलवालमार्दवायोत्कृष्टं खननं गोर्द-
नमिति प्रतीतम् । पक्ष उच्छेदनम् । कुलीनः कौ क्षितौ मीनोऽभिजातश्च । सद्विद्य-
मानं मृगस्येदं मार्गम् । लग्नं सक्तं संयोगो यस्य। पुनर्वसू नक्षत्रम्। ग्रहणं राहुयोगः।
पक्षे सन्मार्गः सदाचारः । पुनरिति भिन्नम् । वसुभागधनी । ग्रहणं धारणम् । सन्नि-
यतान्वितो मार्गः । अर्थाल्लभ इति वा । व्याख्यानगतिर्यथा । साक्षरस्य वर्णोपेतस्य
पुस्तकस्यैव बन्धनं न जनस्येति ॥ च ॥
१ 'चरणाम्भोजम्'. २ 'पुस्तकस्यैव'. ३ 'कार्मुकस्यैव'. ४ 'कर्षणम्'. ५ 'छत्र-
स्यैव'. ६ 'विशेषस्यैव'. ७ 'कन्दस्यैव'. ८ 'दिङ्मुखे तिलकः'. ९ 'प्रतापहस्तमृगमदः'.