नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 71, कुल 258 में से
संदर्भ में पढ़ेंद्वितीय उच्छ्वासः । ५३
'राजन्राजीवपत्राक्ष क्षिप्रं हंसो विमुच्यताम् ।
भविष्यत्येष ते दूतो दमयन्त्याः प्रलोभने' ॥ २३ ॥
राजा तुं तस्याः सोष्मवलातैलपूरेणेवाङ्गममुत्पुलकयता, कर्णान्तरम-
वतीर्णेन, दमयन्तीति नाम्ना कोमलतैत्तिरिपिच्छस्पर्शसुखमिवानुभव-
न्मनाङ्किमीलिताक्षश्चिन्तयांचकार ॥ क ॥
'आह्लादयन्ति सौख्याम्भः शातकुम्भीयकुम्भिकाः ।
काञ्चीकलापसँश्रीकाः श्रोणीबिम्बाः श्रुता अपि ॥ २४ ॥
तँत्केयं दमयन्ती, कश्चायमाश्चर्यभूतो विहंगः, का चेयं नभोभार-
ती, सर्वमेतद्विस्तरेण वेदितव्यम्' इत्यवधारयन्नेकस्यामुत्फुल्लपल्लवितल-
तामण्डपच्छायायामुन्निद्रकुसुममकरन्दशीकरासारशिशिरे शिलातले
निषद्य तं हंसमवादीत् ॥ ख ॥
'भद्र, साप्तपदीनं सख्यम्, उँत्पन्नकतिपयप्रियालापा प्रीतिः, प्रयो-
जननिरपेक्षं दाक्षिण्यम्, अकारणप्रगुणं वात्सल्यम्, अनिमित्तसुन्दरो
मैत्रीभावः सतां लक्षणम् ॥ ग ॥
अँस्ति च तत्सर्वं भवन्मूर्तावती निःशङ्कमभिधीयसे । कथय केयं
दमयन्ती, कस्य सुँता, कीदृग्रूपम्, कुत्र सा वसति, कँश्च भवानस्माक-
मुपकर्तुमिच्छति, का चेयं दिँव्यवाणी' इत्येवमुक्तः सँ कथयितुमा-
रेभे ॥ घ ॥
'शृङ्गाररसशृङ्गार तस्याः सौन्दर्यवीरुधः ।
कर्णमारोप्यतां देव वार्ताविस्मयपल्लवः ॥ २५ ॥
राजा त्विति ॥ बला गन्धद्रव्यविशेषस्तस्य तैलम् ॥ क ॥
आह्लादेति ॥ सौख्यजलसौवर्णकलश्यः । आसतां दृष्टाः स्पृष्टा वा । श्रुता
अप्याह्लादयन्ति । यतः सौख्यस्य सर्वात्मना आधारभूताः ॥ २४ ॥
भद्रेति ॥ सप्त पदानि गम्यन्त उच्यन्ते वा यत्र सख्ये तत्साप्तपदीनम् ।
मैत्र्याः प्रीतेर्भावोऽभिप्रायः ॥ ग ॥
शृङ्गारेति ॥ रसेन सिच्यमाना वीरुद्धर्धते । शृङ्गारोऽपि कर्णकण्ठे निहितेन
पल्लवेन शोभत इत्युभयसमागमौचित्यात् । सौन्दर्येण वीरुदिव सौकुमार्यात् । वार्तया
विस्मयो वार्ताविस्मयः स एव पल्लवः ॥ २५ ॥
१ 'तु तेन तस्याः'. २ 'तित्तिर'. ३ 'सश्रीक'. ४ 'तत्का नाम सा दमयन्ती'.
५ 'उपपन्नकतिपय'. ६ 'अस्ति तत्सर्वम्'. ७ 'तनया'. ८ 'कश्चभवान्कस्मादस्माकम्'.
९ 'दिव्या वाणी'. १० 'सोऽथ कथयितुम्'.