नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 70, कुल 258 में से
संदर्भ में पढ़ें५२ नलचम्पूः ।
न्तरसानुरागरञ्जितमनाः कामयसे किं वापीनदेहे नीरसेवके त्वयि न
संभाव्यते' इत्याकलितकलहं कलहंसमवादीत् ॥ क ॥
सोऽपि 'वैदग्ध्यधुरंधर, धूर्तालापपण्डित, प्रज्ञाप्राग्भारगुरो, चातु-
र्याचार्य, मा मे प्रियां प्रकोपय । सदृशा एव यूयं वयं च राजहंसाः ।
सरसां श्रियमनुभवामः । नदीनां पात्रेष्वेवस्थितिं कुर्मः । न चरणच-
र्यायां न श्लाघ्यामहे । तत्सपक्षेषु विपक्षो माभूः ॥ ख ॥
एषा मे हृदयं जीव उच्छ्वासः प्राण एव च ।
संसारसुखसर्वस्वं प्राणिनां हि प्रियो जनः ॥ २१ ॥
रूपसंपन्नमग्राम्यं प्रेमप्रायं प्रियंवदम् ।
कुलीनमनुकूलं च कलत्रं कुत्र लभ्यते ॥ २२ ॥
तदलमलीककलहारम्भेण भवानप्येवं प्रेमप्रपञ्चनाटकनायको ना-
तिचिरादेव यथा भवति तथा कमप्युपकारं करिष्यामि' इति राजान-
मवादीत् ॥ ग ॥
अत्रान्तरेऽन्तरिक्षमण्डलादतिस्पष्टवर्णव्यक्तिर्मनोहारिणी वागश्रूय-
त ॥ घ ॥
स्यान्तरे मध्ये सानुरागेति संबोधनम् । अथवा पीने स्थूलाङ्गे । नीरसे निःस्नेहे ।
निर्वीर्ये वा । बकप्राये त्वयि किं न संभाव्यते । अन्यत्र । त्वयि किंभूते वाप्यश्च नदाश्च
तेष्वीहा यस्य । तथा नीरं जलं सेवते यः । किं न संभाव्यत इति । संभावना प्रशंसा-
विषया । एकमेव हि वाक्यं प्रकरणादौचित्याच्च प्रशंसां निन्दां च प्रतिपादयति ।
यथा 'त्वमस्माकं किं किं न करिष्यसि' इति प्रसन्नेनोक्तं प्रशंसां गमयति, रुष्टेन
च निन्दाम् ॥ क ॥
सोऽपीति ॥ राजहंसा राजमुख्या यूयं सरसां जनानुरागकरीं लक्ष्मीमनुभ-
वथ । तथा पात्रेषु धर्मपात्रादिषु दीनां स्थितिं व्यवस्थां न कुरुथ ॥ तथा रणविधौ
न न श्लाघ्यध्वे । चः समुच्चये । वयं पक्षे सरसां तडागानाम् । नदीनां सरितां कूल-
मध्येषु । चरणं चर्या गतिविशेषः ॥ तत्तस्मादुक्तप्रकारेण समानपक्षेषु पक्षतिसहि-
तेषु च । विरुद्धपक्षो माभूः ॥ ख ॥
एषेति ॥ एषैव मे हृदयं मनः । अभिन्नभावात् । जीवो जीवितम् । तत्सद्भावे
जीवनात् । उच्छ्वासः श्वासरोधकचिन्तादिदुःखभरापगमहेतुत्वात् । प्राणः प्रधान-
भूतो वायुः । देहाधारत्वात् । प्राणो बलमपि । जीवितात्यों बलाथों नतु वाय्वर्थः ।
यत्प्रशस्तपादः—'प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुः' इति ॥ २१ ॥
रूपेति ॥ प्रेम्णा तुल्यं प्रेमप्रायम् । सस्नेहमित्यर्थः ॥ २२ ॥
१ 'पात्रेस्थितिम्'; 'पात्रेषु स्थितिम्'. २ 'श्लाघामहे'. ३ 'प्रियाजनः'. ४ 'अपि च'.
५ 'प्रियंवद'. ६ 'तवाप्येवं विधेप्रेम'. ७ 'मनोहरा'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA