सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 68, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 68

५० नलचम्पूः ।
'अनेकधा यः किल पक्षपातं
सदा सदम्भोजगतः करोति ।
स हंसिकेदारविहारशीलो
न बध्यते किं बहुनाशकुन्तः' ॥ २० ॥
किं चान्यदपि श्रूयतां बन्धस्य कारणम् ॥ क ॥
अस्ति मत्परिग्रहे मृणालिकानामवननायिका, सापरागस्थगितमु-
खकमलापि बलादनेन विनाशिता, विनिपत्योपरि जर्जरिता नखैः
खण्डितमधरदलम्, दलितमलिकालकमण्डनम्, अपनीतः सुकुमार-
भावः ॥ ख ॥
अनेकेति ॥ हे हंसिके, यः सदा जगतोऽपि सर्वस्यापि सदम्भो दाम्भिकः ।
तथानेकधोक्तोऽपि प्रणतिप्रत्युपकारादिना पक्षपातं ममत्वं करोति । तथा दार-
क्रीडारतोऽब्रह्मचारी । तथा बहून्नाशयत्येवंविधः कुन्तः प्रासो यस्येति हिंसापा-
परतः । स कथं न बध्यते । संसारकारायामिति शेषः । इति हंसीवचनप्रतिव-
चनौचित्येन समपक्षे व्याख्या ॥ अथवा यो दाम्भिकः सदा जगतोऽपि पक्षस्य
मित्रवर्गस्य पातं नाशं करोति । तथा जगतोऽपि दारेषु क्रीडापरः । तथा बहु-
घातिकुन्तास्त्रः । स महापराधी बध्यत एव । नर्मणैव हंसीवचसोऽन्यथालम् ।
तत्त्वतस्तु प्रामाण्यम् । तद्यथा । हे हंसि । किं बहुना किं बहूक्त्या । सदम्भोजं
सत्पद्मं, गतः प्राप्तः, सन्यः पक्षतिपातं करोति केदारविहारं च शीलयति स
शकुन्तः पक्षी न बध्यते । किं तर्हि मुच्यत एव । तस्माद्युक्तमुक्तं लयेति वास्त-
वोऽर्थः । एवमुत्तरत्रापि ॥ २० ॥
अपरपरिभोगप्रतिपादनेर्ष्ययोत्कृष्टदोषदर्शनेन च हंसं प्रति हंसीं कलहयन्नाह—
किंचेति ॥ चकारः पराभिप्रायाक्षेपपूर्वके विशेषे । एवं नामासौ दुरात्मा निःशङ्को
निर्मर्यादश्च ॥ क ॥
अस्तीति ॥ येन । आसतां लोकदाराः । मम राज्ञोऽपि परिग्रहे स्थितायां
नायिकायां प्रवृत्तम् । मृणालिकानां पद्मिनीनामवने रक्षणे, नायिका स्वामिनी, सा
ततोऽपरागाद्रागाभावात्, संवृतवक्त्रकमलापि बलात्कारादनेन लङ्घर्त्री विनाशिता ।
विनाशोऽत्र शीलखण्डनम्। तदाह—विनिपत्येति । अधर ओष्ठः, अलिकं ललाटं तस्य,
तथा अलकानां केशानां च मण्डनम् । लुप्तम् । उदस्तः सुकुमारभावः । अर्थात्क-
न्यात्वम् ॥ वास्तवे तु । मृणालिका पद्मिनी । नामेति संबोधने । वनस्य नायिकेव ।
परागो मकरन्दस्तेन छन्नमुखानि कमलानि यस्याम् । बलादपि अनेन विना पक्षिणा
सा अशिता भक्षिता । अशेर्भोजनार्थात्कर्मणि क्तः । अधरदलमधःपत्रम् । अलय
एव कालं कृष्णं कस्य शिरस उपरिभागस्य मण्डनम् । अपनीतो मृदुभावः ।
नखैर्जर्जरितत्वात् ॥ ख ॥