नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 13, कुल 258 में से
संदर्भ में पढ़ें३
अत्र परमदयालुभिर्यैर्य्यानि पुस्तकान्यत्र विषये वितीर्णानि तेऽपि धन्यास्तानि
च धन्यानीति पुनः पुनरभ्याशासे जगदीश्वरमिति । । तानि च यथा ।
१ मूलपुस्तकम्- राजगुरुमैथिलश्रीनरहरिशर्मणः ।
१ टीकापुस्तकम्, दामोदरकृता- ”
१ वृहट्टीकासहितपुस्तकम्- वैद्यश्रीकृष्णरामस्य ।
१ एवम्भूतमेवान्यत्पुस्तकम्- पण्डितदुर्गाप्रसादशर्मणः ।
१ चण्डपालटीकापुस्तकम्- पण्डितशिवदत्तस्य ।
१ मूलपुस्तकम्- मम ।
१ पुनर्द्वितीयम्- ”
१ चण्डपालटीकापुस्तकम्- ”
१ मूलपुस्तकम्- खाडिल्करोपनामकस्यापाशास्त्रिणः
इत्येवं परपरिश्रमेण वारंवारं कृतशोधनस्य पाठान्तरलेखनेनालंकृतस्य मुद्रणो-
त्तरं शुद्धिपत्रेण सनाथीकृतस्याप्यस्य ग्रन्थस्य प्रमादादिपुरुषस्वभावसुलभदोषात्
यदि कुत्रचिद्दोष आपतेत्तं सकलसहृदयजनाः ‘गच्छतः स्खलनं क्वापि भवत्येव प्र-
मादतः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः’ इत्यभियुक्तोक्तेः समाधाय
क्षाम्यन्त्विति कृताञ्जलिः प्रार्थयते,
भट्टनारायणशर्मा ।