सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 12, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 12

अयं कविः श्लेषोक्तिचतुरोऽतिप्राचीनोऽतिप्रसिद्धश्चेति सरस्वतीप्रासवरप्रसादस्य
नात्याश्चर्यकृत् । तथापि कस्मिन्समयेऽनेनेयं चम्पूविरचितेति किंचिदुच्यते । अत्र
चम्प्यां प्रथमोच्छ्वासे कादम्बरीकथाकर्तृबाणभट्टस्य नामोल्लेखनेन, प्रसिद्धतरश्रीभो-
जराजविनिर्मितसरस्वतीकण्ठाभरणाख्यसाहित्यग्रन्थे ‘पर्वतभेदिपवित्रं जैत्रं नरकस्य
बहुमतङ्कहनम् । हरिमिव हरिमिव हरिमिव वहति पयः पश्यत पयोष्णी’ (६ उ.
२९ श्लो.) इत्येतच्चम्पूगतपद्यस्यैकावल्यलंकारोदाहरणेन च, बाणभट्टभोजराजस-
मयान्तरालसमये लब्धजन्मनानेनेयं नलचम्पूरुत्पादितेत्यनुमीयते । अस्याः, चण्ड-
पालजैनकृतैका, गुणविनयगणिकृतैका, दामोदरभट्टकृतैकेति तिस्रष्टीका उपलभ्यन्ते।
त्रिविक्रमप्रशंसायां च ‘प्राच्यां द्विष्णुपदीहेतोरपूर्वोऽयं त्रिविक्रमः । निर्ममे विमलं-
व्योम्नि यत्पदं यमुनामति’ इति पद्यं षष्ठोच्छ्वासारम्भे चण्डपालकृतटीकायामुपल-
भ्यते । अत एव घण्टामाघादिवद्यमुनात्रिविक्रमेति तस्य संज्ञान्तरम् ।
अथ किंनाम चम्पूरिति चेत् । उच्यते । काव्यं हि तावद्दृश्यश्रव्यभेदेन द्विवि-
धम् । तत्राद्यं रूपकोपरूपकभेदाद्विविधम् । द्वितीयं गद्यमयपद्यमय मिश्रभेदेन त्रि-
विधम् । इदमेव च मुख्यं पञ्चकाव्यम् । तत्र यन्मिश्रमित्युक्तं तदेव चम्पूः । ‘ग-
द्यपद्यमयं काव्यं चम्पूरित्यभिधीयते’ इति साहित्यदर्पणोक्तेः । यथा रामायणच-
म्प्वादिः । इयं च चम्पूः सर्वास्वेव चम्पूषु मूर्धन्यभूतेति सहृदयहृदयविनोदायाधि-
जिगमिषूपकाराय चावश्यं प्रकटयितव्येति सर्वोऽप्ययं श्रमः सफलः स्यात् ।
एवंभूतस्यास्य ग्रन्थस्य प्रकटीकरण उद्यतस्य संध्यावन्दनाद्याश्रमकर्मादिभिरल-
ब्धविशेषसमयस्य व्यग्रीभूतहृदयस्य मम परममित्रेण लट्टूजीति प्रसिद्धाख्येन संस्कृ-
तपाठशालाध्यापकपण्डितशिवदत्तेन, इतस्ततो द्वित्रपुस्तकसंपादनेन, तिसृषु टीका-
सु परमोत्तमया विषमपदप्रकाशाख्यया व्याख्यया सह अनायासेनान्वयप्रदर्शकवि-
षयविभागमण्डितमुद्रणोपयोगिनूतनपुस्तकलेखनेन, प्राप्तैकटीकापुस्तकस्य प्रथमो-
च्छासेऽलब्धपत्रषट्कूलात्तत्पूरणेन, टीकायां जैनव्याकरणीयसूत्राण्यपनीय सर्वत्र
पाणिनीयव्याकरणसूत्रलेखनेन, क्वचित्क्वचिद्दृष्टटीकातष्टिप्पणीकरणेन एतद्ग्रन्थीया-
वत्पद्यानामकारादिवर्णरीत्यानुक्रमणीसंपादनेन, तथा मित्रवरपण्डितदुर्गाप्रसादश-
र्मणा च नूतनलिखितपुस्तकावलोकनेन प्रूफ़संशोधनेन, आधुनिकानकसंकेतावबोध-
नेन च साहाय्यमदायीति ताभ्यामतीव प्रसन्नान्तरात्मना धन्यवादमाशीर्वादं च
वितरामि ।
अथैवं परमपरिश्रमेण कृतशोधनस्याप्यस्य ग्रन्थस्य प्रकटीभवनमवेक्षमाणः सा-
मर्थ्याभावान्मुद्रणं कर्तुमनीप्समानः संप्रति विचारसिकशिरोमणये मुम्बयीनगरप्र-
तिष्ठिताय निर्णयसागरनामकमुद्रायन्त्रालयाधिपतये जावजीदादाजीतिनाम्ने श्रेष्ठिने
इदं पुस्तकं समर्पितवान् । तेन स्वमुद्रया, मायया परमेश्वरेण विश्वमिव, इदं पुस्त-
कमेकमपि क्षणादेवानेकतां प्रापितमिति तमप्याशिषा संयोजयामि ।