नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)
Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary
त्रिविक्रम भट्ट द्वारा
पृष्ठ 125, कुल 258 में से
संदर्भ में पढ़ेंचतुर्थ उच्छ्वासः । १०७
अस्याः कारणेऽभ्रान्तः समस्तोमन्दरागः सदालोकः, लोलनेत्री-
कृता धृष्टा भुजंगमण्डली, प्राप्नो जलधी राजकुमारपराभवम् ॥ क ॥
अनयावष्टब्धः को न गुरुवौरणयोग्यो भवति, को न वाजिपृष्ठमौ-
रोहति, कः कंकणन्नवञ्चनातः प्रकटयति, कः कण्ठे हारावमोचनं न
कुरुते, को न काञ्चनशृङ्खलामनुभवति । कुरङ्ग इवान्धीभूतः को
वागुरावैञ्चनं करोति, कः कार्मुकनिर्मुक्तशिलीमुख इव न वैलक्ष्य-
मागच्छति ॥ ख ॥
अस्या इति ॥ अस्याः श्रिया हेतोर्लोकः समस्तोऽप्यमन्दरागो दृढानुरागः स-
न्सदा भ्रान्तः । तथा भुजंगानां विटानां मण्डली चपलाक्षीकृता सती धृष्टा विप्र-
लब्धा । तथा जडा धीरस्येति जडधीर्जडबुद्धिः राज्ञः सकाशात् कुत्सितो योऽसौ
मारः पञ्चबिल्वादिबन्धने न विगोप्यहिंसा स एव पराभवस्तं प्राप्तः । अथवा राज्ञ-
स्तथा कुत्सिताच्च मारात् स्मरात्पराभवं प्राप्नोति कुबुद्धिः । 'अपि भ्राता सुतो-
ऽर्च्यो वा श्वशुरो मातुलोऽपि वा । नादण्ड्यो नाम राज्ञोऽस्ति धर्माद्धि चलितः
स्वकात्' इति स्मार्ताः । ततः स्वपितुरपि राज्ञः सकाशाद्राजकुमारस्यान्यायवतः
परिभवो युज्यत एव । पक्षे अस्याः श्रियो निमित्ते । मन्दरोऽगः पर्वतः । अभ्र-
माकाशमन्तोऽस्येत्यभ्रान्तो व्योमावसानः । सन्नू शोभन आलोकोऽस्येति सदालोकः ।
सम्यगस्तः क्षिप्त इत्यर्थः । संपूर्वादस्यतेः क्तः । यद्वा सम्यगस्तः सन्नप्सु भ्रान्तः
क्षुब्धोऽभ्रान्तः ( अर्थान्तरे भङ्गित्त्वेन न दोषः ) । तथा अलोलनेत्रं लोलनेत्रं
कृता भुजंगमण्डली वासुकिप्रभृतिनागमण्डली । नेत्रं मन्थानरज्जुः । तथा जल-
धिरब्धिः पराभवं मन्थनलक्षणं प्राप्तः । राजकुमारेल्यामन्त्रणे ॥ क ॥
अनयेति ॥ अनया श्रिया आश्रितः कः पुरुषो गुरूणां वारणे निषेधे । वा
अथवाऽर्थे । आजिः कलहः । वञ्चनाया वञ्चनातः ( पञ्चम्यास्तसिल् ) प्रतारणात् ।
कं सुखं वञ्चनाकृतं सुखमित्यर्थः । कणन् शब्दायमानः । को न प्रकटयति । कण्ठे
गलान्तः हा इति य आरावास्तस्य मोचनम् । कांचनेति कांचिदर्थे । शृङ्खलां बन्ध-
नम् । गुरौ गुरुविषये अञ्जना पूजा । कुरङ्गपक्षे वागुराया मृगजालिकाया वञ्चना ।
पराभवादेः प्रागवस्थाया विसदृशो लक्ष्यत इति विलक्षः । तस्य भावो वैलक्ष्यम् ।
धनुर्मुुक्तबाणस्तु वै स्फुटं लक्ष्यं वेध्यमायाति । पक्षे अनया लक्ष्म्या । गुरुर्महान्
वारणो गजः । वाजिपृष्ठं तुरंगपृष्ठम् । कंकणं हस्तसूत्रम् । नवमविच्छायम् । चः
समुच्चये । नेति निषेधे । अतोऽस्या इत्यर्थः । हारस्य मुक्तासरस्य । अवमोचनं
बन्धनम् । काञ्चनस्य शृङ्खलामाभरणविशेषम् । अगौरवार्हं नीचे । अन्धीभूतो
निर्विवेकः । अपिंतु सविवेकः सन्गुरुनेव पूजयति । वै स्फुटम् । लक्षं शतसहस्रं
नाप्नोति ॥ ख ॥
१ 'भुजंगावली.' २ 'वारण'. ३ 'अधिरोहति'. ४ 'वञ्चनां न'.
CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA