सामग्री पर जाएँ
सर्वकोश
नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

पृष्ठ 124, कुल 258 में से

संदर्भ में पढ़ें
पृष्ठ 124

An exact, line-by-line transcription of the Sanskrit text from the page:

अधिकमलवसतिरनार्यसंगता स्त्री श्रीश्च कं न प्रतारयति ॥ क ॥$^१$
याकालकूटद्वितीया नीरोषितापि नार्द्रहृदया भवति । स्वीकृतापि
विवाहेन कंसानलङ्घनचापलेनोद्वेजयति ॥ ख ॥

दयतीति स्त्री । यस्यां तु सतीधर्मयोगादस्यार्थस्यान्यथात्वम् । तत्राशृणोति कल्या-
णपरंपराभिः स्वकुलं पतिकुलं चेत्यर्थः । तस्या दुर्विनीतायाः स्त्रिया अबलाया
विश्वासं विश्रम्भं मात्राजीः । खलोभात्स्वभावाद्वा ता अतीवानुरागं दर्शयन्ति । परं
परिणामे विरुद्धा एवेति भावः । तथा विश्वसिन्सर्वत्र निक्षेपस्य योग्थेऽयोग्य वा
आस उपवेशनं स्थापनं विश्वासः । तं स्त्रिया लक्ष्म्या मा गाः । धनार्थे हि पितरः
पुत्रेभ्यः पुत्राश्च पितृभ्यो द्रुह्यन्तीति । तस्साय एवाद्रोहेण उपधाशुद्धश्च तत्रैवासौ
निक्षेपणीयेति भावः ॥ ञ ॥

किमिति स्त्रिया न विश्रम्भणीयम् । श्रीश्च सर्वत्राप्यनिधेयेत्याह—अधीति ॥
अधिको योऽसौ मलः पापं तस्य वसतिरासदम् । तथा अनार्यैरसधुभिः कृतमै-
त्रीका स्त्री कं पुरुषं न वञ्चयति । सर्वमपि प्रलम्भयतीत्यर्थः । श्रीस्तु अधिकमलं
पद्मे वसतिर्यस्याः । कमलं हि तरणशीलम् । सा च तेनाविनाभावसंबद्धा । ततः
पद्मासना श्री कं पुरुषं न प्रकर्षेण तारयति । किंवाविशिष्टा । न नारी अनारी अमा-
नुषी । तथा ओ विष्णुः । तत्संगता असंगता ॥ क ॥

याकालेति ॥ या स्त्री अकालेऽकस्माद्यत्कूटं कपटं द्वितीयं यस्याः । तथा
नोरोष्यते स्मेति नीरोषिता प्रसादिताप्यार्द्रहृदया स्निग्धहृदया न भवति । तथा
विवाहेनोपयामेन सानलमग्निसाक्षिकं स्वीकृतापि सा स्त्री कं पुरुषं घनेन लौल्येन
नोद्वेजयति । श्रीपक्षे कालकूटं विषं द्वितीयमस्याः । तदनन्तरमुत्पन्नत्वात् । तथा
नीरे जले उषिता । जलधिपुत्रीत्वात् । परं नार्द्रहृदया । किं तु निर्जलवक्षाः ।
दैवतानुभावाज्जलेन तद्वक्षो वैसादृश्यं न नीतमिति भावः । तथा आप्रोत्यवश्यमि-
त्यापी स्मृतमात्रागामुको यो विः पक्षी गरुडलक्षणः स वाहो वाहनं यस्य । तथा
कंसासुरस्य न अलङ्घनमनलङ्घनम् । अर्थातुकंसस्य लङ्घनं मारणात्मकम् । तथाभूतं
चापलं यस्य । अर्थाद्विष्णुस्तेन स्वीकृता । तथा उश्च अथ वा शिवविष्णू उत्कृष्टौ
वौ यस्य स उद्वः (ईश्वरो विष्णुश्च यस्य प्रसन्नः) तस्मिन् जयति । अथवा या
श्रीर्विष्णुना स्वीकृतापि सती नीरे उषिता । कालकूटद्वितीयापि सती घनस्य मेघ-
स्य चापलेन विलसितेन कंसमेव जगत्संतापकारित्वादनलमुद्वेजयति पीडयति अर्था-
च्छमयितरि विवाहे गरुडवाहने आर्द्रहृदया न न भवति । भवत्येवेत्यर्थः । या
किल कालकूटद्वितीया सा कथमिवार्द्रहृदयेति विरोधोद्भावनयापिशब्दो भिन्नक्रमे ।
आर्द्रशब्दोऽत्र स्निग्धार्थः । यदि वा विवाहो विष्णुस्तेनापि श्रीः स्वीकृता । तत
उपादेयेत्यर्थः । अपिरत्रापि भिन्नक्रमे ॥ ख ॥


१ ‘विप्रतारयति’.