नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 98, कुल 226 में से
संदर्भ में पढ़ें८२ नैषधचरितम् । [ द्वितीयः
श्रीरेवेति सन्दर्भेनातिशयोक्तिः । अत्र श्रीकलयाः नृपमृडोर्वाक्यद्वये बिम्बप्रतिबिम्ब-
भावेन सामान्यधर्मवत्तया निर्दिष्टाविति दृष्टान्तालङ्कारः । 'यत्र वाक्यद्वये बिम्बप्रति-
बिम्बतयोच्यते । सामान्यधर्मः काव्यज्ञैः स दृष्टान्तो निगद्यते' ।। इति लक्षणात् ।। १६ ।।
गुण-सागर राजा भीम से उत्पन्न उस दमयन्ती को साक्षात् लक्ष्मीस्वरूप ही
समझिए । व्यवधान ( शिवजी के अप्रत्यक्ष ) होने पर भी कौन नहीं जानता कि
उनके भाल पर चन्द्रकला विराजमान रहती है ? ।। १६ ।।
चिकुरप्रकरा जयन्ति ते विदुषी मूर्द्धनि सा बिभर्ति यान् ।
पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥२०॥
चिकुरप्रकरा इति । ते चिकुरप्रकराः = केशसमूहाः, जयन्ति = सर्वोत्क-
र्षेण वर्तन्ते । यान्, वेत्तीति विदुषी = विशेषज्ञज्ञा । विदेः शतृर्वसुः । 'उगितश्च'
इति ङीप् । वसोः सम्प्रसारणम् । सा = दमयन्ती मूर्द्धनि बिभर्ति । विद्वद्ग्रह
एव सर्वस्याप्युत्कर्षहेतुरिति भावः । अत एव पशुना = तिरश्चा चमरीमृगेणापि
अपुरस्कृतेन = अनादृतेन चामरेण = चमरीपुच्छेन सह तत्तुलनां = तेषां
चिकुराणां समीकरणं क इच्छतु; न कोऽपीत्यर्थः । सम्भावनायां लोट् । अत्र
तुलनानिषेधस्यापुरस्कृतपदार्थहेतुकत्वात् पदार्थहेतुकं काव्यलिङ्गम् । 'हेतोर्वाक्यपदा-
र्थत्वे काव्यलिङ्गमुदाहृतम्' इति लक्षणात् ॥२०॥
वे केशकलाप धन्य हैं-जिन्हें विदुषी दमयन्ती अपने मस्तक पर धारण करती
है । ऐसा कौन ( सहृदय ) व्यक्ति होगा जो ( चमर ) पशु ( महामूर्ख ) से भी
अपुरस्कृत ( पूँछ होने के कारण पीछे धारण किए हुए; तिरस्कृत ) चमर नामक
मृग की पूँछ की रोम-राजि से उस दमयन्ती के केश-कलाप की तुलना करने की
इच्छा करे ? ॥ २० ॥
स्वदृशोर्जनयन्ति सान्त्वनां खुरकण्डूयनकैतवान्मृगाः ।
जितयोरुदयत्प्रमीलयोस्तदखर्वेक्षणशोभया भयात् ॥ २१ ॥
स्वदृशोरिति । मृगाः = हरिणाः [तदखर्वेक्षणशोभया] तस्या दमयन्त्याः,
अखर्वयोरयतयोरीक्षणयोर्दृष्ट्योः शोभया कान्त्या, जितयोः, अत एव भयादुदय-
त्प्रमीलयोः = उत्पद्यमाननिमीलनयोः स्वदृशोः = निजनयनयोः, [ खुरकण्डू-
यनकैतवात् ] खुरैः शफैः । 'शफं क्लीबे खुरः पुमान्'इत्यमरः । कण्डूयनस्य
कर्षणस्य कैतवाच्छलात्, सान्त्वनां जनयन्ति = लालनां कुर्वन्ति । यथा लोके