सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 94, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 94

७८ नैषधचरितम् । [द्वितीयः
तथापि किमर्थं पुनरागत इत्यत आह—यदिति । तब यद् अप्रियम् अव-
दिषम् = अवोचम् । प्रियम् आधाय=प्रियं कृत्वा, तत् अप्रियं, तरोः कृतं=स्व-
कृतम् [आतपसञ्ज्वरं] आतपसन्तापम् अमृतम् = उदकम् अभिवृष्य । 'पयः
कीलालममृतम्'इत्यमरः । अंशुमानिव नुनुत्सुः = नोदितुं प्रमाष्टुमिच्छुः अस्मि !
'नुदप्रेरणे' इत्यस्माद्धातोः सन्नन्तादुप्रत्ययः ॥ ११ ॥
जिस प्रकार आतप (धूप) से की गयी वृक्ष की पीडा को, जल बरसा कर,
सूर्य निवारण कर देता है, उसी प्रकार हे राजन् ! (पूर्व में) आपसे जो मैंने
अप्रिय (कर्णकटु) वचन कहे थे, उन (अप्रिय शब्दों) का, प्रिय शब्दों को
कहकर, परिमार्जन करना चाहता हूँ ॥ ११ ॥
उपनम्रमयाचितं हितं परिहर्तुं न तवापि साम्प्रतम् ।
करकल्पजनान्तराद्विधेः शुचितः प्रापि स हि प्रतिग्रहः ॥ १२ ॥
तर्हि भवन्मोचनं सुकृतमेव मम पर्याप्तम् किं दृष्टोपकारेणेति न वाच्यमित्याह-
उपनम्रमिति । अयाचितम् = अप्रार्थितम् , उपनम्रम् = उपनतं हितम् = इह
चामुत्र चोपकारकं, तवापि परिहर्तुं न साम्प्रतं = न युक्तम् । 'अयाचितं हितं
ग्राह्यमपि दुष्कृतकर्मणः'इति स्मरणादिति भावः । तदपि मादृशात् कथं ग्राह्यमत
आह--करेति । हि = यस्मात्कारणात्, स प्रतिग्रहः [कर-कल्प-जनान्तरात् ]
करकल्पं करस्थानीयमित्यर्थः । ईषदसमाप्तौ कल्पप्प्रत्ययः । यज्जनान्तरं स्वयं यस्य
तस्मात् शुचितः = शुद्धाद् विधेः = ब्रह्मणः प्रापि = प्राप्तः, न तु मत्त इति
भावः । आप्नोतेः कर्मणि लुङ् । विधिरैव ते दाता, अहं तस्योपकरणमात्रम् ; अतो
न याच्ञालाघवं तवेति भावः ॥ १२ ॥
बिना माँगे, किन्तु स्वयमेव आए हुए, कल्याण-कारक पदार्थ का परित्याग
करना—आप (जैसे चक्रवर्ती सम्राट्) को भी उचित नहीं है; क्योंकि यह प्रति-
ग्रह (उपहार) अपने हाथ सदृश (सर्वथा परिचित एवं स्वाधीन) दूसरे पवित्र
जन (अर्थात् मुझ) से प्राप्त होने पर भी वस्तुतः विधाता (सौभाग्य) द्वारा प्राप्त
हुआ है, यह समझना चाहिए ॥ १२ ॥
पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते ? ।
इति वेद्मिन तु त्यजन्ति मां तदपि प्रत्युपकर्तुमर्त्तयः ॥ १३ ॥
ननु सार्वभौमस्य मे तिरश्चा त्वया किमुपकरिष्यत ? तत्राह—पतगेनेति ।