नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 146, कुल 226 में से
संदर्भ में पढ़ें१३० नैषधचरितम् । [ तृतीयः
आकाशं प्रति, नोत्पपात = नोत्पतितवान् [ आत्मोपरिपांतुकं ] आत्मन उपरि
पांतुकं पत्यालुं । 'लषपत'इत्यादिना उकञ् प्रत्ययः । तस्याः पाणिं [ तत्पाणि ]
तु प्लुतिलाघवेन = उत्पतनकौशलेन मोघं वितेने = विफलत्वम् अकरोत्;
आशाञ् जनयति, न तु पाणौ लगतीत्यर्थः ॥ ५ ॥
दमयन्ती के माया-जाल ( निश्चलरूप से खड़े होकर, पकड़ने की चालबाजी )
को, उसकी चेष्टाओं ( एकटक नज़र से हंस की ओर देखनेवाली हरकतों ) से
अनुमान करके भी, वह हंस आकाश में नहीं उड़ा; पर अपने ऊपर गिरनेवाले
दमयन्ती के हाथों को, नज़दीक-नज़दीक उड़ने की सफाई से, व्यर्थ कर दिया
( अर्थात् हाथों की पकड़ में वह नहीं आया ) ॥ ५ ॥
व्यर्थीकृतं पत्ररथेन तेन तथाऽवसाय व्यवसायमस्याः ।
परस्परमर्पितहस्ततालं तत्कालमाळीभिरहस्यतालम् ॥ ६ ॥
व्यर्थीकृतमिति । अस्याः = भैम्याः, व्यवसायं = हंसग्रहणोद्योगं, तेन
पत्ररथेन = पक्षिणा व्यर्थीकृतं तथा, अवसाय = ज्ञात्वा, तत्कालं = तस्मिन्
काले । अत्यन्तसंयोगे द्वितीया । स एव कालो यस्येति बहुव्रीहौ क्रियाविशेषणं वा ।
परस्परां = परस्परस्यामित्यर्थः । कर्मव्यतीहारे सर्वनाम्नो द्विर्भावः । 'समासवच्च
बहुलम्'इति बहुलग्रहणादसमासवद्भावे पूर्वपदस्य प्रथमैकवचने कस्कादित्वाद्विसर्जनी-
यस्य सत्वम् । उत्तरपदस्य यथायोगं द्वितीयाद्येकवचनम् । 'स्त्रीनपुंसकयोरुत्तरपदस्थयो
र्विभक्तेराम्भावो वक्तव्यः'इति विकल्पादाम्रादेशः । अर्पितहस्ततालं=दत्तहस्तताडनं
यथा तथा । आळीभिः=सखीभिः, अलं=अत्यर्थं अहस्यत=हसितम् । भावे लङ् ॥
उस हंस ने दमयन्ती के पकड़ने के उद्योग को उस प्रकार ( अर्थात् प्लुत-
लाघव ) से बेकार कर दिया — यह जानकर, तत्काल ही आपस में हाथों से ताली
पीट-पीटकर, सखियाँ खूब हँसीं ॥ ६ ॥
उच्चाटनीयः करतालिकानां दानादिदानीं भवतीभिरेषः ।
यान्वेति मां द्रुह्यति मह्यमेव सात्रेत्युपालम्भि तयाऽलिवर्गः ॥ ७ ॥
उच्चाटनीय इति । हे सख्यः ! इदानीं भवतीभिः एषः = हंसः, कर-
तालिकानां दानात् = अन्योन्यहस्तताडनकरणात् उच्चाटनीयः = निष्कासनीयः
किमिति काकुः । नोच्चाटनीय एवेत्यर्थः । अत्र = युष्मन्मध्ये, या मामन्वेति सा
मह्यमेव द्रुह्यति = मां जिघांसतीत्यर्थः । 'क्रुधद्रुह'इत्यादिना सम्प्रदानत्वात् चतुर्थी ।