नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 136, कुल 226 में से
संदर्भ में पढ़ें१२० नैषधचरितम्। [ द्वितीयः
लेकर, विहार करने में असमर्थ हो, सैकड़ों (बहुत सी) अप्सराएँ, यह एकदम सत्य
बात है, कि धरती पर आ, दमयन्ती की सखियाँ होकर, उस नगरी में रहती थीं ॥
स्थितिशालि-समस्तवर्णतां न कथं चित्रमयी बिभर्तु या ।
स्वरभेदमुपैतु या कथं कलितानल्पमुखारवा न वा ॥६८॥
स्थितीति । चित्रमयी = आश्चर्यप्रचुरा, आलेख्यमयी च । 'आले-
ख्याश्चर्ययोश्चित्रम्' इत्यमरः । या = नगरी [ स्थिति-शालि-समस्तवर्णतां ] स्थित्या
मर्यादया स्थायित्वेन च, शालन्ते ये ते समस्ता वर्णा ब्राह्मणायः, शुक्लादयश्च, यस्याः
तस्या भावं तत्ताम् । 'वर्णो द्विजादौ शुक्लादौ' इत्यमरः । कथं न बिभर्तुः = बिभर्त्ये-
वेत्यर्थः । [ कलितानल्पमुखारवा ] कलितः प्राप्तः, अनल्पानां बहूनां, मुखाना-
मारवो बहुमुखानां ब्रह्ममुखानां षण्मुखानां च आरवः शब्दो यस्यः सा । या=पुरी
[ स्वरभेदं ] स्वरस्य ध्वनेर्भेदं नानात्वं स्वः स्वर्गाद्भेदं च कथं वा नोपैतु, उपै-
त्वेवेत्यर्थः । उभयत्रापि सति कारणे कार्यं भवेदेवेति भावः । अत्र केवलप्रकृत-
श्लेषालङ्कारः । उभयोरप्यर्थयोः प्रकृतत्वात् . किन्तु एकनाले फलद्वयवदेकस्मिन्नेव
शब्दे अर्थद्वयप्रतीतेरर्थश्लेषः प्रथमार्थे; द्वितीये तु जतुकाष्ठवदेकवद्भूतशब्दद्वयप्रतीतेः
शब्दश्लेषः ॥ ६८ ॥
चित्रमयी ( आश्चर्यमयी; तस्वीर वाली ) वह नगरी--स्थिति-शाली ( मर्यादा
का पालन करनेवाले; दीर्घकाल तक ठहरनेवाले ) समस्त वर्णों ( ब्राह्मण-क्षत्रिय-
वैश्य-शूद्रों; सफेद-लाल-पीले-काले रंगों ) के भाव को क्यों न धारण करे ? और
अनल्प-मुखारव होने के कारण ( बहुत से मनुष्यों पशुओं आदि के मुखों से शब्द
होने के कारण; बहुत से ब्राह्मणों के मुखों से वेदध्वनि होने के कारण ) वह
नगरी--स्वरभेद ( कण्ठध्वनि की विषमता; उदात्त आदि स्वरों की विषमता ) को
क्यों न प्राप्त करे ? ॥ ६८ ॥
स्वरुचारुणया पताकया दिनमर्केण समीयुषोष्टृपः ।
लिलिहुर्बहुधा सुधाकरं निशि माणिक्यमया यदाल्याः ॥६९॥
स्वरुचेति । माणिक्यमयाः = पद्मरागमयाः, यदालयाः = यस्यां नगर्यां
गृहाः, दिनं = दिने । अत्यन्तसंयोगे द्वितीया । समीयुषा = सङ्गतेन, अर्केण
हेतुना । उष्ट्रपः = अर्कसम्पर्कादत्युष्णतया पिपासव इवोष्ट्राः, निशि स्वरुचा = स्वप्रभया,
अरुणया = आरुण्यं प्राप्तेयेति तद्गुणालङ्कारः । 'तद्गुणः स्वगुणत्यागादन्यो-