नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 135, कुल 226 में से
संदर्भ में पढ़ेंसर्गः २ ] श्रीनैषधीयचरितम् १११
शेषनाग रचित महाभाष्य की पक्तिका ( पूर्वपक्ष ) कुण्ठित बुद्धिवाले व्यक्तियों के
ग्रहण ( आलोचनात्मक ज्ञान ) के परे है और वे उस पर, कुण्डलना लगा कर
छोड़ देते हैं ॥ ६५ ॥
मुख-पाणि-पदाक्षिण पङ्कजै रचिताङ्गेष्वपरेषु चम्पकैः ।
स्वयमादित यत्र भीमजा स्मर-पूजा-कुसुम-स्रजः श्रियम्॥६६॥
मुखेति । यत्र = नगर्यां [ मुख-पाणि-पदाक्षिण ] मुखञ्च, पाणी च, पदे
च, अक्षिणी च, यस्मिन् तस्मिन् । प्राण्यङ्गत्वार्द्वन्द्वैकवद्भावः । पङ्कजैः रचिता
= सृष्टा अपरेषु = मुखादिव्यतिरिक्तेषु, अङ्गेषु चम्पकैः = चम्पकपुष्पैः रचिता
सर्वत्र सादृश्याद्व्यपदेशः, भीमजा = भैमी, स्वयं स्मरपूजाकुसुमस्स्रजः श्रियं=
शोभाम् आदित = आत्तवती । ददातेर्लङि । 'स्थाघ्वोरिच्च' इतीत्वम् 'ह्रस्वाद्ङ्गात्'
इति सलोपः । अत्र अन्यश्रियोऽन्यथा सम्भवात् श्रियमिव सदृश्याक्षेपान्निदर्शना-
भेदः । तथा तदङ्गानां पङ्कजाद्यभेदोक्तेरतिशयोक्तिः । तदुत्थापिता चेयं निदर्श-
नेति सङ्करः ॥ ६६ ॥
उस नगरी में—जिस के मुँह, हाथ, पैर और नेत्र ( क्रमशः श्वेत, रक्त तथा
नीले ) कमल के फूलों के तथा ( बाहु, उदर आदि ) दूसरे अवयव चम्पा के
फूलों के बने थे--ऐसी भीमराजकुमारी दमयन्ती ने, कामदेव की पूजा में चढ़ने
वाली, फूलमाला की शोभा स्वयं धारण की थी ॥ ६६ ॥
जघन-स्तन-भार-गौरवाद्वियदालम्ब्य विहर्तुमक्षमाः ।
ध्रुवमप्सरसोऽवतीर्य यां शतमध्यासत तत्सखीजनः ॥६७॥
जघनेति । [ जघन-स्तन-भार-गौरवात् ] जघनानि च स्तनौ च जघन-
स्तनम् । प्राण्यङ्गत्वार्द्वन्द्वैकवद्भावः । तदेव भारः, तस्य गौरवात् गुरुत्वात् विय-
दालम्ब्य विहर्तुमक्षमाः शतं = शतसंख्याकाः । 'विंशत्याद्याः सदैकत्वे संख्याः
संख्येयसंख्ययोः' इत्यमरः । अप्सरसोऽवतीर्य= स्वर्गादागत्य, तत्सखीजनः सत्यः ।
जातावेकवचनम् । यां = नगरीम्, अध्यासत = अध्यतिष्ठन् । 'अधिशीङ्स्थासां
कर्म' इति कर्मत्वम् । ध्रुवम् = इत्युत्प्रेक्षा । अप्सरः कल्पाः शतं सख्य एनामुपासत
इत्यर्थः ॥ ६७ ॥
नितम्बों तथा कुचों के भार से भारी होने के कारण, आकाश का सहारा