नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 115, कुल 226 में से
संदर्भ में पढ़ेंसर्गः २ ] जीवातु-मदयन्तिकासहितम् । ९९
भावः । तथा हि-धनिनां = धनिकानां कुबरादीनाम् इतरः = पद्मशंखादिः ।
संज्ञासौ निधिश्चेति सन्निधिः, सतां = विदुषां पुनः [ गुणवत् सन्निधिः ] गुणवतां
गुणिनां सन्निधिः सान्निध्यमेव सन्निधिः महानिधिः, सन्तापहारित्वात् त्वमेव शिशिर-
मारुतः, अन्यस्तु दहन एवेति भावः । दृष्टान्तालङ्कारः । लक्षणं तूक्तम् ॥ ५३ ॥
काम-ज्वर से अत्यन्त सन्तप्त हुए मुझे - तुम बरफ की वनौरी मिली हुई
( अत्यन्त शीतल ) हवा के रूप में मिले । धनियों की (शङ्ख, पद्म आदि निधि
रूप आनन्ददायक ) सन्निधि ( खजाना ) दूसरी है; पर सज्जनों की तो गुणवानों
की सन्निधि ( समागम ) ही सन्निधि ( श्रेष्ठ खजाना ) है ॥ ५३ ॥
शतशः श्रुतिमागतैव सा त्रिजगन्मोहमहौषधिमम ।
अधुना तव शंसितेन तु स्वदृशैवाधिगतामवैमि ताम् ॥ ५४ ॥
शतश इति । [ त्रिजगन्मोहमहौषधिः ] त्रिजगतः त्रैलोक्यस्य, मोहे
सम्मोहने, महौषधिः महौषधमिति रूपकम् । सा = दमयन्ती शतशो मम श्रुतिं =
श्रोत्रम् आगतैव । अधुना तव शंसितेन = कथनेन तु स्वदृशा = मम दृष्ट्या
एवाधिगतां = दृष्टाम् अवैमि = साक्षाद् दृष्टां मन्ये । आप्तोक्तिप्रामाण्यादिति भावः ॥
त्रिलोकी के ( युवकों के ) मोहित करने की महौषधिरूप दमयन्ती ( का नाम )
मेरे कानों में सैकड़ों बार आयी रही ( अर्थात् उसके सौन्दर्य का वर्णन सुना था );
परन्तु अभी-अभी तुमने जो उसके ( नख-शिख पर्यन्त ) सौन्दर्यगुणों का वर्णन
किया, उससे तो मैंने साक्षात् उसे अपनी आँखों से देख लिया-ऐसा मानता हूँ ॥
अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् ।
सविधेऽपि न सूक्ष्मसाक्षिणौ वदनालङ्कृतिमात्रमक्षिणी ॥ ५५ ॥
अथ स्वदृष्टेरप्याप्तदृष्टिरेव गरीयसीत्याह-अखिलमिति । सुहृदा = आप्तमुखेन
च स्वहृदा = स्वान्तःकरणेन च सुहृत् ग्रहणं तद्गतसुहृदः श्रद्धेयत्वज्ञापनार्थम्
अखिलं = कृत्स्नमर्थम् अनाविलम् = असन्दिग्धं अविपर्यस्तं यथा तथा पश्यताम् =
अवधारयतां विदुषां = विवेकिनां सविधे = पुरोऽपि न सूक्ष्मसाक्षिणी = असू-
क्ष्मार्थदर्शिनौ । 'सुप्सुपा'इति समासः । अक्षिणी वदनालङ्कृतिमात्र, न तु
दूरसूक्ष्मार्थदर्शनोपयोगिनीत्यर्थः ॥ ५५ ॥
( परम विश्वसनीय ) सुहृद् के द्वारा और अपने अन्तःकरण से सब पदार्थों
को स्पष्टरूप से ( 'वाक्य' तथा 'अनुमान' द्वारा ) देखनेवाले ( निर्णय करनेवाले )