नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 113, कुल 226 में से
संदर्भ में पढ़ेंसर्गः २] जीवातु-मदयन्तिकासहितम् । ९७
वच एवामृतमिति रूपकम् । तत्परिपानं अत एव अतितृप्तता च सङ्गीतेत्यनेन
[तदुद्गारं ] तस्य वचोऽमृतस्य उद्गारमिव सितं स्मित विनिर्ममे =
निर्मितवान् । माङः कर्त्तरि लिट् । अतितृप्तस्य किञ्चिन्निःसार उद्गारः । सितत्व-
साम्यात् स्मितस्य वागमृतोद्गारोत्प्रेक्षा ॥ ४६ ॥
पक्षिराज हंस (द्विजराज चन्द्र) से निकले हुए, पूर्वोक्त विशद (स्पष्ट,
नैसर्गिक श्वेत) वाक्य-सुधा (वचनरूप अमृत) का पान कर (आदरपूर्वक
श्रवण कर, अशेषतः पीकर), और उस (अत्यधिक पान) से अतीव सन्तुष्ट
होने के कारण, नल ने उस (विशद वचोमृत) के उद्गार (उफान) के समान,
श्वेत मुस्कराहट प्रकट की ॥ ४६ ॥
परिमृज्य भुजाग्रजन्मना पतगं कोकनदेन नैषधः ।
मृदु तस्य मुदेऽगिरद्गिरः प्रियवादाऽमृत-कूप-कण्ठजाः ॥५०॥
परिमृज्येति । निषधानां राजा नैषधः = नलः । जनपदशब्दात् क्षत्रियादञ् ।
भुजाग्रजन्मना कोकनदेन = पाणिशोणपङ्कजेनेत्यर्थः । पतगं=हंसं परिमृज्य
तस्य = हंसस्य तथा मुदे = हर्षाय [प्रियवादाऽमृत-कूप-कण्ठजाः ] प्रियवादा-
नामेवामृतानां कूपो निधिः कण्ठो वागिन्द्रियं तज्जाः तज्जन्याः, गिरो मृदु यथा
तथा । अगिरत् = प्रियवाक्यामृतैरसिञ्चदित्यर्थः । अत्र भुजाग्रजन्मना कोकनदेनेति
विषयस्य पाणेर्निगरणेन विषयिणः कोकनदस्यैवोपनिवन्धनात् अतिशयोक्तिः । 'विष-
यस्याद्यनुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात् कविप्रौढोक्तिसम्मता'
इति लक्षणात् । सा च पाणिकोकनदयोरभेदोक्तिः अभेदरूपा । यस्याः प्रियवादामृत-
कूपकण्ठेति रूपकसंस्सृष्टिः ॥५०॥
निषधाधिपति नल ने लाल-कमल-रूप-भुजा के अगले भाग में उत्पन्न हुए-
हाथ से, उस हंस को सहला कर, उस के प्रमोद के लिए, स्नेहमय वचनरूपी
अमृत के कूप रूपी कण्ठ से निकली हुई, कोमल वाणी कही-॥५०॥
न तुलाविषये तवाकृतिर्न वचो वर्त्मनि ते सुशीलता ।
त्वदुदाहरणाकृतौ गुणा इति सामुद्रकसारमुद्रणा ॥५१॥
न तुलेति । हे हंस ! तब आकृतिः=आकारः, तुलाविषये = सादृश्यभूमौ
न वर्तते, असदृशीत्यर्थः । ते = तव, सुशीलता = सौशील्यं वचो वर्त्मनि न
वर्तते, वक्तुमशक्येत्यर्थः । अत एव आकृतिं गुणाः = 'यत्राकृतिस्तत्र गुणाः' इति
७