सामग्री पर जाएँ
सर्वकोश
नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

पृष्ठ 100, कुल 226 में से

संदर्भ में पढ़ें
पृष्ठ 100

८४ नैषधचरितम् । [ द्वितीयः
नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे ।
अपि खञ्जनमञ्जनान्विते विदधाते रुचिगर्वदुर्विधम् ॥२३॥
नलिनमिति । नलिनं = पद्मं, मलिनम् = अचारु विवृण्वती = कुर्वणे
पृषतीं = मृगीम् अस्पृशती । असमानत्वात् दूरादेव परिहार इत्यर्थः । तदीक्षणे=
तल्लोचने अञ्जनान्विते = कजलपरिष्कृते सती, खञ्जनं = खञ्जरीटाख्यं, खञ्जन-
नामकः पक्षिविशेषः । 'खञ्जरीटस्तु खञ्जनः' इत्यमरः । तमपि । रुचिगर्वदुर्विधं=
चारुत्वगर्व निःस्वं विदधाते = कुरुतः; सर्वथाऽप्यनुपमेये इत्यर्थः । 'निःस्वस्तु
दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः' इत्यमरः । ईक्षणयोर्नलिनादिमलिनीकरणाद्यसम्बन्धे
सम्बन्धोक्तेरतिशयोक्तिः । तया चोपमा व्यज्यत इत्यलङ्कारेणालङ्कारध्वनिः ॥ २३ ॥
उसकी आँखें-जब सुरमे की सलाई का स्पर्श नहीं करतीं तब तो-नलिनी
को मलिन बनाती हैं और हरिणी की आँखों का दूर ही से परित्याग कर (उपहा-
सास्पद बना ) देती हैं, किन्तु उसकी सुरमा लगी हुई आँखें तो (सुन्दर कृष्णवर्ण
रेखा सम्पन्न) खञ्जन पक्षी के सौन्दर्य-अभिमान को भी टूक २ कर देती हैं ॥२३॥
अधरं खलु बिम्बनामकं फलमाभ्यामिति भव्यमन्वयम् ।
लभतेऽधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत् ॥२४॥
अधरमिति । 'अधरबिम्बम्' इत्यदः पदम् अधरं बिम्बमिवेत्युपमितसमासा-
साश्रयेण स्त्रीणामधरेषु यत्पदं प्रयुज्यते तदित्यर्थः । अस्याः = दमयन्त्याः रदन-
च्छदम् = ओष्ठम् वदत् = अभिदधत् , तदभिधानाय प्रयुक्तं सदित्यर्थः । बिम्ब-
नामकं फलं बिम्बम् अस्माद् दमयन्तीरदनच्छदाद् अधरं किल = अपकृष्टं खलु
इति अधरशब्दस्यापकृष्टार्थत्वे अधरं बिम्बं यस्मात्तदिति बहुव्रीहिसमासे च सति ।
भव्यम् = अबाधितम् अन्वयं = वृत्तिपदार्थसंसर्गलक्षणं लभते अन्यथा समर्थसमा-
साश्रयणे 'समर्थः पदविधिः' इति समर्थपरिभाषा भज्येत । तर्हि नोपमा स्यादिति
भावः । अत्र दमयन्तीदन्तच्छदस्य बिम्बाधरीकरणासम्बन्धेऽपि सम्बन्धोक्तेरति-
शयोक्तिः, पूर्ववत् ध्वनिश्च ॥२४॥
'अधर-बिम्ब' पद दमयन्ती के ओठ की भव्यरूपता को प्रकट करता है ।
(दूसरी महिलाओं के सम्बन्ध में 'अधरबिम्ब' पद का अर्थ बिम्ब फल के समान
अधर' उपमितसमासाश्रयेण समर्थित भले ही होवे ) पर दमयन्ती के सम्बन्ध में