नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 96, कुल 309 में से
संदर्भ में पढ़ें( ६२ )
चेटी— भट्टिदारिए ! दाणिं एव्व कहिदं इमिणा
भर्तृदारिके ! इदानीमेव कथितममुना
वरालापमत्तजणिदेण संभमेण । ता मा संतप्प ।
वरालापमात्रजनितेन सम्भ्रमेण । तन्मा सन्तप्यस्व ।
जइ अहं चतुरिआ, तदा सोवि भट्टिदारिअं अप्पेक्खंतो
यद्यहं चतुरिका, तदा सोऽपि भर्तृदारिकामपश्यन्
ण मुहुत्तंपि अहिरमिस्सदि । एदम्पि मए
न मुहूर्तम्प्यभिरंस्यते । एतदपि मया
लक्खिदं एव्व ।
लक्षितमेव ।
नायिका—(सास्रम्)
हञ्जे ! कुदो अम्हाणं एत्तिआणि भाग्गधेआईं ?
हञ्जे ! कुतोऽस्माकमियन्ति भागधेयानि ?
चेटी — भट्टिदारिए ! मा एव्वं भण । किं मधुमहणो
भर्तृदारिके ! मैवं भण । किं मधुमथनो
वच्छत्थलेण लच्छिं अणुवहंतो णिव्वुदो भोदि ?
वक्षःस्थलेन लक्ष्मीमनुद्वहन् निर्वृत्तो¹ भवति ?
नायिका— किं सुअणो पिअं वज्जिअ अण्णं भणिदुं जाणादि ?
किं सुजनः प्रियं वर्जयित्वाऽन्यद्भणितुं जानाति ?
सहि ! अ दोवि मे संदावो अधिअदरं बाधेदि, जं सो
सखि ! अतोऽपि मे सन्तापोऽधिकतरं बाधते, यत्स