सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 90, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 90

( ५६ )
नायिका — (सलज्जम्) ।
हञ्जे सुट्ठु सुमराविदं, ता एहि तहिं जेव गच्छम्ह ।
हञ्जे ! सुष्ठु स्मारितम् । तदेहि तत्रैव गच्छावः ।
चेटी — एदु एदु भट्ठिदारिआ । [अग्रतो गच्छति]
एतु एतु भर्तृदारिका ।
नायिका — (अन्यतो गच्छति)
चेटी — (पृष्ठतो दृष्ट्वा सोद्वेगमात्मगतम् )
अहो ! से सुण्णहिअअत्तणं ! कहं तं ज्जेव देवी भवणं
अहो ! अस्याः शून्यहृदयत्वम् ! कथं तदेव देवी भवनं
पत्थिदा । (प्रकाशम्) भट्ठिदारिए ! णं इदो चंदणलदाघरअं ।
प्रस्थिता । भर्तृदारिके ! नन्वितश्चन्दनलतागृहम् ।
ता इदो एहि ।
तदित एहि ।
नायिका — (१सविलक्षस्मितं तथा करोति)
चेटी — भट्ठिदारिए ! इदं चंदणलदाघरअं । ता पविसिअ
भर्तृदारिके ! इदं चन्दनलतागृहम् । तत्प्रविश्य
चंदमणिसिलादले उपविसिअ समस्ससदु भट्ठिदारिआ ।
चन्द्रमणिशिलातले उपविश्य समाश्वसितु भर्तृदारिका ।
[उभे उपविशतः]
नायिका — (निःश्वस्य, आत्मगतम् )
भअवं कुसुमाउह ! जेण तुमं रूवसोहाए णिज्जिदोसि,
भगवन् कुसुमायुध² ! येन त्वं रूपशोभया निर्जितोऽसि ,