सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 88, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 88

( २४ )
अहम्पि 'सज्जीकिदं मणिसिलाअलं' त्ति गदुअ
अहमपि 'सज्जीकृतं मणिशिलातलमिति गत्वा
भट्टिदारिआए णिवेदेमि । (इति निष्क्रान्ते)
भर्तृदारिकायै निवेदयामि ।
[प्रवेशकः]
[ततः प्रविशति सोत्कण्ठा मलयवती चेटी च]
मलयवती — (निःश्वस्यात्मगतम्)
हिअअ ! तथा णाम तदा तस्सिं जणे लज्जाए मं परम्मुही-
हृदय ! तथा नाम तदा तस्मिञ्जने लज्जया मां पराङ्मुखी-
कदुअ दाणिं अप्पणा तहिं एव्वं गदं सि त्ति अहो !
कृत्वेदानीमात्मना तत्रैव गतमसीत्यहो !
दे अत्तंभरित्तणं ।
ते आत्मम्भरित्वम् ।
(प्रकाशम्)
हञ्जे चतुरिए ! आदेसेहि मे भअवदीए आअदणस्स मग्गं ।
हञ्जे चतुरिके ! आदिश मे भगवत्या आयतनस्य मार्गम् ।
चेटी — (आत्मगतम्)
चन्दणलदाघरअं पत्थिदा भणादि भअवदीए आअदणस्स मग्गं
चन्दनलतागृहं प्रस्थिता भणति 'भगवत्या आयतनस्य मार्गम् ।
(प्रकाशम्) णं चन्दणलदाघरअं भट्टिदारिआ पत्थिदा ।
ननु चन्दनलतागृहं भर्तृदारिका प्रस्थिता ।