सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 74, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 74

( ४० )
विदूषकः — भोदि ! किं एत्थ तुम्हाणं तवोवणे ईरिसो आआरो
भवति ! किमत्र युष्माकं तपोवने ईदृश आचारो¹
जेण अदिही आअदो वाआ्मत्तेण वि ण संभावीअदि ।
येनातिथिरागतो वाङ्मात्रेणापि न सम्भाव्यते ?
चेटी — (नायिकां दृष्ट्वा, आत्मगतम्)
अणुरज्जदि व्विअ एत्थ एदाए दिट्ठी । भोदु एवं दाव भणिस्सं ।
अनुरज्यत इवात्रैतस्या दृष्टिः । भवत्वेवं तावद्भणिष्यामि ।
(प्रकाशम् ) भद्दिदारिए ! जुत्तं भणादि बह्मणो । उइदो
भर्तृदारिके ! युक्तं भणति ब्राह्मणः । उचितः
क्खु दे अदिहिजणसक्कारो । ता किं ईरिसे महाणुभावे
खलु ते ऽतिथिजनसत्कारः । तत्किमीदृशे महानुभावे
पडिवत्तिमूढा चिट्ठसि ?
²प्रतिपत्तिमूढा तिष्ठसि ?
अहवो चिट्ठ तुमं । अहं एव्व जधाणुरूबं करिस्सं ।
अथवा तिष्ठ त्वम् । अहमेव यथानुरूपं करिष्यामि ।
( नायकमुद्दिश्य ) साअदं अज्जअस्स ।
ᵌस्वागतमार्यस्य !
आसणपडिग्गहेण अलंकरेदु अज्जो इमं पदेसं ।
आसनपरिग्रहेणालंकरोत्वार्य इमं प्रदेशम् ।
विदूषकः — भो वअस्स ! सोहणं एसा भणादि ।
भो वयस्य ! शोभनमेषा भणति ।