सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 70, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 70

( ३६ )
णं हिअअत्थिदो वरो देईए दिण्णो
ननु हृदयस्थितो वरो^१ देव्या दत्तः ।
विदूषकः—(श्रुत्वा) भो वअस्स ! अवसरो क्खु एसो अम्हाणं
भो वयस्य ! अवसरः खल्वेषोऽस्माकं
देवीदंसणस्स । ताएहि उपसप्पह्म ।
देवीदर्शनस्य । तदेह्युपसर्पावः ।
नायकः — न तावत्प्रविशामि ।
विदूषकः — (अनिच्छन्तमपि नायकं बलादाकृष्य, उपसृत्य)
सोत्थि भोदिए । भोदि, सच्चं एव्व चदुरिआ भणादि
स्वस्ति^२ भवत्यै । भवति ! सत्यमेव चतुरिका भणति,
वरो एव्व एसो देईए दिण्णो ।
वर एवैष देव्या दत्तः ।
नायिका—(^३ससाध्वसमुत्तिष्ठन्ती नायकमुदिश्यापवार्य)
हज्जे ! को णु क्खु एसो ?
हञ्जे ! को नु खल्वेषः ?
चेटी —(नायकं निरूप्यापवार्य)
इमाए अण्णण्णसरिसीए आकिदीए एसो सो भगवदीए
अनयाऽनन्यसदृश्या^४ऽऽकृत्या 'एष स भगवत्या
गोरीए पसादो त्ति तक्केमि ।
गौर्याः प्रसाद इति तर्कयामि ।
[नायिका सस्पृहं सलज्जञ्च नायकमवलोकयति]