सामग्री पर जाएँ
सर्वकोश
नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)

Nagananda Nataka of Emperor Harsha with Commentary

सम्राट हर्षवर्धन द्वारा

DevanagariHindipublished309 पृष्ठ

पृष्ठ 66, कुल 309 में से

संदर्भ में पढ़ें
पृष्ठ 66

( ३२ )
नायकः—(सस्पृहमवलोकयन् )—
वयस्य, केयमिति नावगच्छामि । एतत्पुनरहं जानामि—
स्वर्गस्त्री यदि तत्कृतार्थमभवच्चक्षुः सहस्रं^१ हरे-
र्नागी चेन्न रसातलं शशभृता^२ शून्यं मुखेऽस्याः स्थिते ।
जातिर्नः सकलान्यजातिजयिनी विद्याधरी चेदियं
स्यात् सिद्धान्वयजा^३ यदि त्रिभुवने सिद्धाः प्रसिद्धास्ततः॥१६॥
विदूषकः — (नायकमवलोक्य सहर्षमात्मगतम्)
दिट्ठिआ चिरस्स दाव कालस्स पडिदो
दिष्ट्या चिरस्य तावत्कालस्य पतितः
क्खु एसो गोअरे मम्महस्स ।
खल्वेष गोचरे मन्मथस्य । [आत्मानं निर्दिश्य भोजनमभिनीय]
अहवा, णहि णहि मम एव्व एक्कस्स बह्मणस्स ।
अथवा, नहि नहि ममैवैकस्य ब्राह्मणस्य ।
चेटी— (सप्रणयं) भट्टिदारिए ! णं भणामि—किं एदाए
भर्तृदारिके ! ननु भणामि-किमेतस्या
णिक्करुणाए पुरदो वाइदेण ?
निष्करुणायाः पुरतो वादितेन ? [इति वीणामाक्षिपति]
श्लोक नं० १६, अन्वय :—
यदि (एषा) स्वर्गस्त्री (अस्ति) तत् हरेः सहस्रं चक्षुः
कृतार्थमभवत् । नागी चेत्, अस्याः मुखे स्थिते
रसातलं शशभृता शून्यं न (अस्ति) । विद्याधरी चेत् ,
जातिर्नः सकलान्यजातिजयिनी । यदि सिद्धान्वयजा
स्यात्, ततः सिद्धाः त्रिभुवने प्रसिद्धाः ॥