नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 62, कुल 309 में से
संदर्भ में पढ़ें२८ )
व्यक्तिर्व्यञ्जनधातुना दशविधेनाप्यत्र लब्धामुना
विस्पष्टो ¹द्रुतमध्यलम्बितपरिच्छिन्नस्त्रिधायं लयः ।
गोपुच्छाप्रमुखाःक्रमेण ²यतयस्तिस्रोऽपि सम्पादिता-
स्तत्वौघानुगताश्च वाद्यविधयः³ सम्यक्त्रयो दर्शिताः ॥ १५ ॥
चेटी—(सप्रणयम्) भट्टिदारिए ! चिरं क्खु तुए वादिदं । ण क्खु
भर्तृदारिके ! चिरं खलु त्वया वादितम् । न खलु
दे परिस्समो अग्गहत्थाणं?
ते परिश्रमोऽग्रह⁴स्तयोः ?
नायिका—(साधिक्षेपम् ) हञ्जे चउरिए ! कुदो मे देवीए पुरदो वीणं
हञ्जे चतुरिके ! कुतो मे देव्याः पुरतो वीणां
वादयन्तीए अग्गहत्थाणं परिस्समो !
वादयन्त्या अग्रहस्तयोः परिश्रमः !
चेटी—भट्टिदारिए !
भर्तृदारिके !
णं भणामि किं एदाए णिक्करुणाए पुरदो वाइदेण
ननु भणामि किमेतस्या निष्करुणायाः पुरतो वादितेन
श्लोक नं० १५, अन्वयः—
अत्र अमुना दशविधेनापि व्यञ्जनधातुना व्यक्तिः लब्धा ;
द्रुतमध्यलम्बितपरिच्छिन्नः त्रिधा अयं लयः विस्पष्टः ;
क्रमेण गोपुच्छाप्रमुखाः तिस्रः यतयः अपि सम्पादिताः ;
तत्त्वौघानुगताश्च त्रयो वाद्यविधयः सम्यक् दर्शिताः ।