नागानन्दम् (सम्राट हर्षवर्धन - संस्कृत मूल एवं हिन्दी व्याख्या)
Nagananda Nataka of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
पृष्ठ 58, कुल 309 में से
संदर्भ में पढ़ें( २४ )
दिएणैककरणा सुहणिमीलिदलोअणा आअण्णंता विअ
दत्तैककर्णाः सुखनिमीलितलोचना आकर्णयन्त इव
हरिणा लक्खीअन्ति ।
हरिणाः लक्ष्यन्ते ।
नायकः — (कर्णं दत्त्वा) सखे ! सम्यगुपलक्षितम् । तथाहि-
स्थानप्राप्त्या दधानं प्रकटितगमकां¹ मन्दतार व्यवस्थां
निर्हादिन्या² विपञ्च्या³ मिलितमलिरुतेनेव तन्त्रीस्वनेन ।
एते दन्तान्तरालस्थिततृणकवलच्छेदशब्दं नियम्य
⁴व्याजिह्वाङ्गाःकुरङ्गाः स्फुटललितपदं गीतमाकर्णयन्ति ॥ १३ ॥
विदूषकः — भो वअस्स ! को उण एसो तवोवणे गाअदि ?
भो वयस्य ! कः पुनरेष तपोवने गायति ?
नायकः — यथैताः कोमलाङ्गुलितलाभिहन्यमाना⁵ नाति-
स्फुटं क्वणन्ति तन्त्र्यः, काकलीप्रधानं च गीयते,
तथा तर्कयामि (अङ्गुल्यग्रेणाग्रतो निर्दिशन्) अस्मिन्ना-
यतने देवतामाराधयन्ती काचिद्दिव्या योषित्पुपवीण-
यतीति ।
श्लोक नं १३, अन्वयः—
एते कुरंगाः , दन्तान्तरालस्थिततृणकवलच्छेदशब्दं नियम्य
व्याजिह्वांगाः , स्थान प्राप्त्या प्रकटितगमकां मन्दतारव्यवस्थां
दधानं, निर्हादिन्याः विपञ्च्याः तन्त्रीस्वनेन अलिरुतेन इव
मिलितम् , स्फुटललितपदं गीतमाकर्णयन्ति ।